कदापि जन्मर्क्षदिने तव प्रभो निमन्त्रितज्ञातिवधूमहीसुरा ।
महानसस्त्वां सविधे निधाय सा महानसादौ ववृते व्रजेश्र्वरी ॥१॥
ततो भवत्त्राणनियुक्तबालकप्रभीतिसंक्रन्दसंकुलारवैः ।
विमिश्रमश्रावि भवत्समीपतः परिस्फुटद्दारुचटच्चटारवः ॥२॥
ततस्तदाकर्णनसम्भ्रमश्रमप्रकम्पिवक्षोजभरा व्रजाङ्गनाः ।
भवन्तमन्तर्ददृशुः समन्ततो विनिष्पतद्दारुणदारुमध्यगम् ॥३॥
शिशोरहो किं किमभूदिति द्रुतं प्रधाव्य नन्दः पशुपाश्र्च भूसुराः ।
भवन्तमालोक्य यशोदया धृतं समाश्र्वसन्नश्रुजलार्दलोचनाः ॥४॥
कस्को नु कौतस्कुत एष विस्मयो
विशङ्कटं यच्छकटं विपाटितम् ।
न कारणं किञ्चिदिहेति ते स्थिताः
स्वनासिकादत्तकरास्त्वदीक्षकाः ॥५॥
कुमारकस्यास्य पयोधरार्थिनः प्ररोदने लोलपदाम्बुजाहतम् ।
मया मया दृष्टमनो विपर्यगादितीश ते पालकबालका जगुः ॥६॥
भिया तदा किञ्चिदजानतामिदं कुमारकाणामतिदुर्घटं वचः ।
भवत्प्रभावाविदुरैरितीरितं मनागिवाशङ्क्य़त दृष्टपूतनैः ॥७॥
प्रवालताम्रं किमिदं पदं क्षतं सरोजरम्यौ नु करौ विराजितौ ।
इति प्रसर्पत्करुणातरिङ्गितास्त्वदङ्गनाजनाः ॥८॥
अये सुतं देहि जगत्पतेः कृपातरङ्गपातात्परिपातमद्य मे ।
इति स्म संगृह्य पिता त्वदङ्गकं मुहुर्मुहुः श्लिष्यति जातकण्टकः ॥९॥
अनोनिलीनः किल हन्तुमागतः सुरारिरेवं भवता विहिंसितः ।
रजोऽपि नो दृष्टममुष्य तत्कथं स शुद्धसत्त्वे त्वयि लीनवान् ध्रुवम् ॥१०॥
प्रपूजितैस्तत्र ततो द्विजातिभिर्विशेषतो लम्भितमङ्गलाशिषः ।
व्रजं निजैर्बाल्यरसैर्विमोहयन्मरुत्पुराधीश रुजां जहीहि मे ॥११॥
॥ इति शकटासुरवधवर्णनं द्विचत्वारिंशत्तमदशकं समाप्तम् ॥