अतीत्य बाल्यं जगतां पते त्वमुपेत्य पौगण्डवयो मनोज्ञम् ।
उपेक्ष्य वत्सावनमुत्सवेन प्रावर्तथा गोगणपालनाय ॥१॥
उपग्रमस्यानुगुणैव सेयं मरुत्पुराधीश तव प्रवृत्तिः ।
गोत्रापरित्राणकृतेऽवतीर्णस्तदेव देवारभथास्तदा यत् ॥२॥
कदापि रामेण समं वनान्ते वनश्रियं वीक्ष्य चरन् सुखेन ।
श्रीदामनाम्नः स्वसखस्य वाचा मोदादगा धेनुककाननं त्वम् ॥३॥
उतालतालीनिवहे त्वदुक्त्या बलेन धूतेऽथ बलेन दोर्भ्याम् ।
मृदुः खरश्र्चाभ्यपतत्पुरस्तात् फलोत्करो धेनुकदानवोऽपि ॥४॥
समुद्यतो धैनुपालनेऽहं कथं वधं धैनुकमद्य कुर्वे ।
इतीव मत्वा धु्रवमग्रजेन सुरौघयोद्धारमजीघतस्त्वम् ॥५॥
तदीयभृत्यापि जम्बुकत्वेनोपागतानग्रजसंयुतस्त्वम् ।
जम्बुफलानीव तदा निरास्थस्तालेषु खेलन् भगवन्निरास्थः ॥६॥
विनिघ्नति त्यय्यथ जम्बुकौघं सनामकत्वाद्वरुणस्तदानीम् ।
भयाकुलो जम्बुकनामधेयं श्रुतिप्रसिद्धं व्यधितेति मन्ये ॥७॥
तवावतारस्य फलं मुरारे सञ्जातमद्येति सुरैर्नुतस्त्वम् ।
सत्यं फलं जातमिहोति हासी बालैः समं तालफलान्यभुङ्क्थाः ॥८॥
मधुद्रवस्त्रुन्ति बृहन्ति तानि फलानि मेदोभरभृन्ति भुक्त्वा ।
तृप्तैश्र्च दृप्तैर्भवनं फलौघं वहद्भिरागाः खलु बालकैस्त्वम् ॥९॥
हतो हतो धेनुक इत्युपेत्य फलान्यदद्भिर्मधुराणि लोकैः ।
जयेति जीवेति नुतो विभो त्वं मरुत्पुराधीश्र्वर पाहि रोगात् ॥१०॥
॥ इति धेनुकासुरवधवर्णनं त्रिपञ्चाशत्तमदशकं समाप्तम् ॥