कंसोऽथ नारदगिरा व्रजवासिनं त्वा -
माकर्ण्य दीर्णहृदयः स हि गान्दिनेयम् ।
आहूय कार्मुकमखच्छलतो भवन्त -
मानेतुमेनमहिनोदहिनाथशायिन् ॥१॥
अक्रूर एष भवदङघ्रिपरश्र्चिराय
त्वद्दर्शनाक्षममनाः क्षितिपालभीत्या ।
तस्याज्ञयैव पुनरीक्षितुमुद्यतस्त्वा -
मानन्दभारमतिभूरितरं बभार ॥२॥
सोऽयं रथेन सुकृती भवतो निवासं
गच्छन् मनोरथगणांस्त्वायि धार्यमाणान् ।
आस्वादयन् मुहुरपायभयेन दैवं
सम्प्रार्थयन् पथि न किंचिदपि व्यजानात् ॥३॥
द्रक्ष्यामि वेदशतगीतगतिं पुमांसं
स्प्रक्ष्यामि किंस्विदपि नाम परिष्वजेयम् ।
किं वक्ष्यते स खलु मां क्व नु वीक्षितः स्या -
दित्थं निनाय स भवन्मयमेव मार्गम् ॥४॥
भूयः क्रमादभिविशन् भवदङ्घ्रिपूतं
वृन्दावनं हरविरिञ्चसुराभिवन्द्यम् ।
आनन्दमग्न इव लग्न इव प्रमोहे
किं किं दशान्तरमवाप न पङ्कजाक्ष ॥५॥
पश्यन्नवन्दत भवद्विहृतिस्थलानि
पांसुष्ववेष्टत भवच्चरणाङ्कितेषु ।
किं ब्रूमहे बहुजना हि तदापि जाता
एवं तु भक्तितरला विरलाः परात्मन् ॥६॥
सायं स गोपभवनानि भवच्चरित्र -
गीतामृतप्रसृतकर्णरसायनानि ।
पश्यन् प्रमोदसरितेव किलोह्यमानो
गच्छन् भवद्भवनसंनिधिमन्वयासीत् ॥७॥
तावद्ददर्श पशुदोहविलोकलोलं
भक्तोत्तमागतिमिव प्रतिपालयन्तम् ।
भूमन् भवन्तमयमग्रजवन्तमन्त -
र्ब्रह्मानुभूतिरससिन्धुमिवोद्वमन्तम् ॥८॥
सायंतनाप्लवविशेषविविक्तगात्रौ
द्वौ पीतनीलरुचिराम्बरलोभनीयौ ।
नातिप्रपञ्चधृतभूषणचारुवेषौ
मन्दस्मितार्द्रवदनौ स युवां ददर्श ॥९॥
दूराद्रथात्समवरुह्य नमन्तमेन -
मुत्थाप्य भक्तकुलमौलिमथोपगूहन् ।
हर्षान्मिताक्षरगिरा कुशलानुयोगी
पाणिं प्रगृह्य सबलोऽथ गृहं निनेथ ॥१०॥
नन्देन साकममितादरमर्चयित्वा
तं यादवं तदुदितां निशमय्य वार्ताम् ।
गोपेषु भूपतिनिदेशकथां निवेद्य
नानाकथाभिरिह तेन निशामनैषीः ॥११॥
चन्द्रागृहे किमुत चन्द्रभागागृहे नु
राधागृहे नु भवने किमु मैत्रविन्दे ।
धूर्तो विलम्बत इति प्रमदाभिरुच्चै -
राशङ्कितो निशि मरुत्पुरनाथ पायाः ॥१२॥
॥ इति अक्र्रूरागमनवर्णनं द्विसप्ततितमदशकं समाप्तम्॥