त्वयि विहरणलोले बालजालैः प्रलम्ब -
प्रमथनसविलम्बे धेनवः स्वैरचाराः ।
तृणकुतुकनिविष्टा दूरदूरं चरन्त्यः
किमपि विपिनमैषीकाख्यमीषाम्बभूवुः ॥१॥
अनधिगतनिदाघक्रौर्यवृन्दावनान्ताद्
बहिरिदमुयाताः काननं धेनवस्ताः ।
तव विरहविषण्णा ऊष्मलग्रीष्मताप -
प्रसरविसरदम्भस्याकुलाः स्तम्भमापुः ॥२॥
तदनु सह सहायैर्दूमन्विष्य शौरे
गलितसरणि मुञ्चारण्यसञ्जातखेदम् ।
पशुकुलमभिवीक्ष्य क्षिप्रमानेतुमारा -
त्त्वयि गतवति ही ही सर्वतोऽग्निर्जजृम्भे ॥३॥
सकलहरिति दीप्ते घोरभाङ्कारभीमे
शिखिनि विहतमार्गा अर्धदग्धा इवार्ताः ।
अहह भुवनबन्धो पाहि पाहीति सर्वे
शरणमुपगतास्त्वां तापहर्तारमेकम् ॥४॥
अलमलमतिभीत्या सर्वतो मीलयध्वं
दृशमिति तव वाचा मीलिताक्षेषु तेषु ।
क्व नु दवदहनोऽसौ कुत्र मुञ्चाटवी सा
सपदि ववृतिरे ते हन्त भाण्डीरदेशे ॥५॥
जय जय तव माया केयमीशेति तेषां
नुतिभिरुदितहासो बद्धनानाविलासः ।
पुनरपि विपिनान्ते प्राचरः पाटलादि -
प्रसवनिकरमात्रग्राह्यघर्मानुभावे ॥६॥
त्वयि विमुखमिवोच्चैस्तापभारं वहन्तं
तव भजनवदन्तःपङ्कमुच्छोषयन्तम् ।
तव भुजवदुदञ्चद्भूरितेजःप्रवाहं
तपसमयमनैषीर्यामुनेषु स्थलेषु ॥७॥
तदनु जलदजालैस्त्वद्वपुस्तुल्यभाभि -
र्विकसदमलविद्वुत्पीतवासोविलासैः ।
सकलभुवनभाजां हर्षदां वर्षवेलां
क्षितिधरकुहरेषु स्वैरवासी व्यनैषीः ॥८॥
कुहरतलनिविष्टं त्वां गारिष्ठं गिरीन्द्रः
शिखिकुलनवकेकाकाकुभिः स्तोत्रकारी ।
स्फुटकुटजकदम्बस्तोमपुष्पाञ्जलिं च
प्रविदधदनुभेजे देव गोवर्धनोऽसौ ॥९॥
अथ शरदमुपेतां तां भवद्भक्तचेतो -
विमलसलिलपूरां मानयन् काननेषु ।
तृणममलवनान्ते चारु सञ्चारयन् गाः
पवनपुरपते त्वं देहि मे देहसौख्यम् ॥१०॥
॥इति ग्रीष्मवर्षाशरद्वर्णनमष्टपञ्चाशत्तमदशकं समाप्तम् ॥