स्फुरत्परानन्दरसात्मेकन त्वया समासादितभोगलीलाः ।
असीमममानन्दभरं प्रपन्ना महान्तमापुर्मदमम्बुजाक्ष्यः ॥१॥
निलीयतेऽसौ मयि मय्यमायं रमापतिर्विश्र्वमनोऽभिरामः ।
इति स्म सर्वाः कलिताभिमाना निरीक्ष्य गोविन्द तिरोहितोऽभूः ॥२॥
राधाभिधां तावदजातगर्वामतिप्रियां गोपवधूं मुरारे ।
भवानुपादाय गतो विदूरं तया सह स्वैरविहारकारी ॥३॥
तिरोहितेऽथ तावदजातगर्वामतिप्रियां गोपवधूं मुरारे ।
भवानुपादाय गतो विदूरं तया सह स्वैरविहारकारी ॥३॥
तिरोहितेऽथ त्वयि जाततापाः समं समेताः कमलायताक्ष्यः ।
वने वने त्वां परिमार्गयन्त्यो विषादमापुर्भगवन्नपारम् ॥४॥
हा चूत हा चम्पक कर्णिकार हा मल्लिके मालति बालवल्यः ।
किं वीक्षितो नो हृदयैकचौर इत्यादि तास्त्वप्रवणा विलेपुः ॥५॥
निरीक्षितोऽयं सखि पङ्कजाक्षः पुरो ममेत्याकुलमालपन्ती ।
त्वां भावनाचक्षुषि वीक्ष्य काचित्तापं सखीनां द्विगुणीचकार ॥६॥
त्वदात्मिकास्ता यमुनातटान्ते तवानुचक्रुः किल चेष्टितानि ।
विचित्य भूयोऽपि तथैव मानात्त्वया वियुक्तां ददृशुश्र्च राधाम् ॥७॥
ततः समं ता विपिने समन्तात्तमोऽवतारावधि मार्गयन्त्यः ।
पुनर्विमिश्रा यमुनातटान्ते भृशं विलेपुश्र्च जगुर्गुणांस्ते ॥८॥
तथाव्यथासंकुलमानसानां व्रजाङ्गनानां करुणैकसिन्धो ।
जगत्त्रयीमोहनमोहनात्मा त्वं प्रादुरासीरयि मन्दहासी ॥९॥
सन्दिग्धसन्दर्शनमात्मकान्तं
त्वां वीक्ष्य तन्व्यः सहसा तदानीम् ।
किं किं न चक्रुः प्रमादतिभारात्
स त्वं गदात् पालय मारुतेश ॥१०॥
॥ इति रासक्रीडायां भगवतस्तिरोभाववर्णनं भगवदन्वेषणवर्णनं भगवदविर्भाववर्णनं च सप्तषष्टितमदशकं समाप्तम् ॥