आनन्दरूप भगवन्नयि तेऽवतारे
प्राप्ते प्रदीप्तभवङ्गनिरीयमाणैः ।
कान्तिव्रजैरिव घनाघनमण्डलैर्द्या -
मावृण्वती विरुरुचे किल वर्षवेला ॥१॥
आशासु शीतलतरासु पयोदतोयै -
राशासिताप्तिविवशेषु च सज्जनेषु ।
नैशाकरोदयविधौ निशि मध्यमायां
क्लेशापहस्त्रिजगतां त्वमिहाविरासीः ॥२॥
बाल्यस्पृशापि वपुषा दधुषा विभूति -
रुद्यक्तिरीटकटकाङ्गदहारभासा ।
शङ्खारिवारिजगदापरिभासितेन
मेघासितेन परिलेसिथ सूतिगेहे ॥३॥
वक्षःस्थलीसुखनिलीनविलासिलक्ष्मी -
मन्दाक्षलक्षितकटाक्षविमोक्षभेदैः ।
तन्मन्दिरस्य खलकंसकृतामलक्ष्मी -
मुन्मार्जयन्निव विरेजिथ वासुदेव ॥४॥
शौरिस्तु धीरमुनिमण्डलचेतसोऽपि
दूरस्थितं वपुरुदीक्ष्य निजेक्षणाभ्याम् ।
आनन्दबाष्पपुलकोद्रमगद्रदादर्र -
स्तुष्टाव दृष्टिमकरन्दरसं भवन्तम् ॥५॥
देव प्रसीद परपूरुष तापवल्ली -
निर्लूनदात्र समनेत्र कलाविलासिन् ।
खेदानपाकुरु कृपागुरुभिः कटाक्षै -
रित्यादि तेन मुदितेन चिरं नुतोऽभूः ॥६॥
मात्रा च नेत्रसलिलास्तृगात्रवल्या
स्तोत्रैरभिष्टुतगुणः करुणालयस्त्वम् ।
प्राचीनजन्मयुगलं प्रतिबोध्य ताभ्यां
मातुर्गिरा दधिथ मानुषबालवेषम् ॥७॥
त्वत्प्रेरितस्तदनु नन्दतनूजया ते
व्यत्यासमारचयितुं स हि शूरसूनुः ।
त्वां हस्तयोरधित चित्तविधार्यमार्ये -
रम्भोरुहस्थकलहंसकिशोररम्यम् ॥८॥
जाता तदा पशुपसद्मनि योगनिद्रा
निद्राविमुद्रितमथाकृत पौरलोकम् ।
त्वत्प्रेरणात् किमिव चित्रमचेतनैर्यद्
द्वारैः स्वयं व्यघटि संघटितैः सुगाढम् ॥९॥
शेषेण भूरिफणवारितवारिणाथ
स्वैरं प्रदर्शितपथो मणिदीपितेन ।
त्वां धारयन् स खलु धन्यतमः प्रतस्थे
सोऽयं त्वमीश मम नाशय रोगवेगान् ॥१०॥
॥ इति श्रीकृष्णावतारवर्णनम् अष्टात्रिशत्तमदशकं समाप्तम् ॥