तव विलोकनाद् गोपिकाजनाः प्रमदसंकुलाः पङ्कजेक्षण ।
अमृतधारया सम्प्लुता इव स्तिमिततां दधुस्त्वत्पुरोगताः ॥१॥
तव विभो परा कोमलं भुजं निजगलान्तरे पर्यवेष्टयत् ।
गलसमुद्गतं प्राणमरुतं प्रतिनिरुन्धतीवातिहर्षुला ॥३॥
अपगतत्रपा कापि कामिनी तव मुखाम्बुजात् पूगचर्वितम् ।
प्रतिगृहय्य तद् वक्त्रपङ्कजे निदधती गता पूर्णकामताम् ॥४॥
विकरुणो वने संविहाय मामपगतोऽसि का त्वामिह स्पृशेत् ।
इति सरोषया तावदेकया सजललोचनं वीक्षितो भवान् ॥५॥
इति मुदाकुलैर्वल्लवीजनैः सममुपागतो यामुने तटे ।
मृदुकुचाम्बरैः कल्पितासने घुसृणभासुरे पर्यशोभथाः ॥६॥
कतिविधा कृपा केऽपि सर्वतो धृतदयोदयाः केचिदाश्रिते ।
कतिचिदीदृशा मादृशेष्वपीत्याभिहितो भवान् वल्लवीजनैः ॥७॥
अयि कुमारिका नैव शङ्क्य़तां कठिनता मयि प्रेमकातरे ।
मयि तु चेतसो वोऽनृवृत्तये कुतमिदं मयेत्यूचिवान् भवान् ॥८॥
अयि निशम्यतां जीववल्लभाः प्रियतमो जनो नेदृशा मम ।
तदिह रम्यतां रम्ययामिनीष्वनुपरोधमित्यालपो विभो ॥९॥
इति गिराधिकं मोदमेदुरैर्व्रजवधूजनैः साकमारमन् ।
कलितकौतुको रासखेलने गुरुपुरीपते पाहि मां गदात् ॥१०॥
॥ इति रासक्रीडायाम् आनन्दपारवश्यवर्णनं प्रणयकोपवर्णनं भगवत्कृतसात्नवनावर्णनं च अष्टषष्टितमदशकं समाप्तम् ॥