त्रिदशवर्धकिवर्धितकौशलं त्रिदशदत्तसमस्तविभूतिमत् ।
जलधिमध्यगतं त्वमभूषयो नवपुरं वपुरञ्जितरोचिषा ॥१॥
ददुषि रेवतभृभृति रेवतीं हलभृते तनयां विधिशासनात् ।
महितमुत्सवघोषमपूपुषः समुदितैर्मुदितैः सह यादवैः ॥२॥
अथ विदर्भसुतां खलु रुक्मिणीं त्वयि देव सहोदरः ।
स्वयमदित्सत चेदिमहीभुजे स्वतमसा तमसाधुमुपाश्रयन् ॥३॥
चिरधृतप्रणया त्वयि बालिका सपदि काङ्क्षितभङ्गसमाकुला ।
तव निवेदयितुं द्विजमादिशत् स्वकदनं कदनङ्गविनिर्मितम् ॥४॥
द्विजसुतोऽपि च तूर्णमुपाययौ तव पुरं हि दुराशदुरासदम् ।
मुदमवाप च सादरपूजितः स भवता भवतापहृता स्वयम् ॥५॥
स च भवन्तमवोचत कुण्डिने नृपसुता खलु राजाति रुक्मिणी ।
त्वयि समुत्सुकया निजधीरतारहितया हि तया प्रहितोऽस्म्यहम् ॥६॥
तव हृतास्मि पुरैव गुणैरहं हरति मां किल चेदिन१पोऽधुना ।
अयि कृपालय पालय मामिति प्रजगदे जगदेकपते तया ॥७॥
अशरणां यदि मां त्वमुपेक्षसे सपदि जीवितमेव जहाम्यहम् ।
इति गिरा सुतनोरतनोद् भृशं सुहृदयं हृदयं तव कातरम् ॥८॥
अकथयस्त्वमथैनमये सखे तदधिका मम मन्मथवेदना ।
नृपसमक्षमुपेत्य हराम्यहं तदयि तां दयितामसितेक्षणाम् ॥९॥
प्रमुदितेन च तेन समं तदा रथगतो लघु कुण्डिनमेयिवान्
गुरुमरुत्पुरनायक मे भवान् वितनुतां तनुतामखिलापदाम् ॥१०॥
॥ इति रुक्मिणीस्वयंवरम् अष्टसप्ततिमदशकं समाप्तम्॥