त्वामेकदा गुरुमरुत्पुरनाथ वोढुं
गाढाधिरूछगरिमाणमपारयन्ती ।
माता निधाय शयने किमिदं बतेति
ध्यायन्त्यचेष्टत गृहेषु निविष्टशङ्का ॥१॥
तावद्विदूरमुपकर्णितघोरघोष -
व्याजुम्भिपांसुपटलीपरिपूरिताशः ।
वात्यावपुः स किल दैत्यवरस्तृणाव -
र्ताख्यो जहार जनमानसहारिणं त्वाम् ॥२॥
उद्दामपांसुतिमिराहतदृष्टिपाते
द्रष्टुं किमप्यकुशले पशुपाललोके ।
हा बालकस्य किमिति त्वदुपान्तमाप्ता
माता भवन्तमविलोक्य भृशं रुरोद ॥३॥
तावत्स दानववरोऽपि च दीनमूर्त्ति -
र्भावत्कभारपरिधारणलूनवेगः ।
सङ्कोचमान तदनु क्षतपांसुघोषे
घोषे व्यातायत भवज्जननीनिनादः ॥४॥
रोदोपकर्णनवशादुपगम्य गेहं
क्रन्दत्सु नन्दमुखगोपकुलेषु दीनः ।
त्वां दानवस्त्वखिलमुक्तिकरं मुमुक्षु -
स्त्वय्यप्रमुञ्चति पपात वियत्प्रदेशात् ॥५॥
रोदाकुलास्तदनु गोपगणा बहिष्ठ -
पाषाणपृष्ठभुवि देहमतिस्थविष्ठम् ।
प्रेक्षन्त हन्त निपतन्तममुष्य वक्ष -
स्यक्षीणमेव च भवन्तमलं हसन्तम् ॥६॥
ग्रावप्रपातपरिपिष्टगरिष्ठदेह -
भ्रष्टासुदुष्टदनुजोपरि धृष्टाहसम् ।
आघ्नानमम्बुजकरेण भवन्तमेत्य
गोपा दधुर्गिरिवरादिव नीलरत्नम् ॥७॥
एकैकमाशु परिगृह्य निकामनन्दं
नन्दादिगोपपरिरब्धविचुम्बिताङ्गम् ।
आदातुकामपरिशङ्कितगोपनारी -
हस्ताम्बुजप्रपतितं प्रणुमो भवन्तम् ॥८॥
भूयोऽपि किं नु कृणुमः प्रणतार्तिहारी
गोविन्द एव परिपालयतात् सुतं नः ।
इत्यादि मातरपितृप्रमुखैस्तदानीं
सम्प्रार्थितस्त्वदवनाय विभो त्वमेव ॥९॥
वातात्मकं दनुजमेवमयि प्रधुन्वन्
वातोद्भवान् मम गदान् किमु नो धुनोषि ।
किं वा करोमि पुनरप्यनिलालयेश
निश्शेषरोगशमनं मुहुरर्थये त्वाम् ॥१०॥
॥ इति तृणावर्तवधवर्णनं त्रयश्र्चत्वारिंशत्तमदशकं समाप्तम् ॥