तदनु नन्दममन्दशुभास्पदं नृपपुरीं करदानकृते गतम् ।
समवलोक्य जगाद भवत्पिता विदितकंससहायजनोद्यमः ॥१॥
अयि सखे तव बालकजन्म मां सुखयतेऽद्य निजात्मजजन्मवत् ।
इति भवत्पिपृतां व्रजनायके समधिरोप्य शशंस तमादरात् ॥२॥
इह च सन्त्यनिमित्तशतानि ते कटकसीम्नि ततो लघु गम्यताम् ।
इति च तद्वचसा व्रजनायको भवदपायभिया द्रुतमाययौ ॥३॥
अवसरे खलु तत्र च काचन व्रजपदे मधुराकृतिरङ्गना।
तरलषट्पदलालितकुन्तला कपटपोतक ते निकटं गता ॥४॥
सपदि सा हृतबालकचेतना निशिचरान्वयजा किल पूतना ।
व्रजवधूष्विह केयमिति क्षणं विमृशतीषु भवन्तमुपाददे ॥५॥
ललितभावविलासहृतात्मभिर्युवतिभिः प्रतिरोद्धुमपारिता ।
स्तनमसौ भवनान्तनिषेदुषी प्रददुषी भवते कपटात्मने ॥६॥
समधिरुह्य तदङ्कमशङ्कितस्त्वमथ बालकलोपनरोषितः ।
महादिवाम्रफलं कुचमाण्डलं प्रतिचुचूषिथ दुर्विषदूषितम् ॥७॥
असुभिरेव समं धयति त्वयि स्तनमसौ स्तनितोपमनिस्वना ।
निरपतद्भयदायि निजं वपुः प्रतिगता प्रविसार्य भुजावुभौ ॥८॥
भयदघोषणभीषणविग्रहश्रवणदर्शनमोहितवल्लवे ।
व्रजपदे तदुरःस्थलखेलनान्यनुभवन्तमगृह्णत गोपिकाः ॥९॥
भुवनमङ्गल नामभिरेव ते युवतिभिर्बहुधा कृतरक्षणः ।
त्वमयि वातनिकेतननाथ मामगदयन् कुरु तावकसेवकम् ॥१०॥
॥ इति योगमायानयनादिवर्णनम् एकोनचत्वारिंशत्तमदशकं समाप्तम् ॥