प्रागेवाचार्यपुत्राहृतिनिशमनया स्वीयषट्सूनुवीक्षां
काङ्क्षन्त्या मातुरुक्त्या सुतलभुवि बलिं प्राप्य तेनार्चितस्त्वम् ।
धातुः शापद्धिरण्यान्वितकशिपुभवान् शौरिजानू कंसभग्ना -
नानीयैनान् प्रदर्श्य स्वपदमनयथाः पूर्वपुत्रान् मरीचेः ॥१॥
श्रुतदेव इति श्रुतं द्विजेन्द्र बहुलाश्र्वं नृपतिं च भक्तिपूर्णम् ।
युगपत्त्वमनुग्रहीतुकामो मिथिलां प्रापिथ तापसैः समेतः ॥२॥
गच्छन् द्विमूर्तिरुभयोर्युगपन्निकेत -
मेकेन भूरिविभवैर्विहितोपचारः ।
अन्येन तद्दिनभृतैश्र्च फलौदनाद्यै -
स्तुल्यं प्रसेदिथ ददाथ च मुक्तिमाभ्याम् ॥३॥
भूयोऽथ द्वारवत्यां द्विजतनयमूर्ति तत्प्रलापानपि त्वं
को वा दैवं निरुन्धदिति किल कथयन् विश्र्ववोढाप्यसोढाः ।
जिष्णोर्गर्वं विनेतुं त्वयि मनुजाधिया कुण्ठितां चास्य बुद्धिं
तत्त्वारूढां विधातुं परमतमपदप्रेक्षणेनेति मन्ये ॥४॥
नष्टा अष्टास्य पुत्राः पुनरपि तव तूपेक्षया कष्टवादः
स्पष्टो जातो जनानामथ तदवसरे द्वारकामाप पार्थः ।
मैत्र्या तत्रोषितोऽसौ नवमसुतमृतौ विप्रवर्यप्ररोदं
श्रुत्वा चक्रे प्रतिज्ञामनुपहृतसुतः संनिवेक्ष्ये कृशानुम् ॥५॥
मानी स त्वामपृष्ट्वा द्विजनिलयगतो बाणजालैर्महास्त्रै
रुन्धानः सूतिगेहं पुनरपि सहसा दृष्टानष्टे कुमारे ।
याम्यामैन्द्रीं तथान्याः सुरवरनगरीर्विद्ययाऽऽसाद्य सद्यो
मोघोद्योगः पतिष्यन् हुतभुजि भवता सस्मितं वारितोऽभूत् ॥६॥
सार्धं तेन प्रतीचीं दिशमतिजविना स्यन्दनेनाभियातो
लोकालोकं व्यतीतस्तिमिरभयमथो चक्रधाम्ना निरुन्धन् ।
चक्रांशुक्लिष्टदृष्टिं स्थितमथ विजयं पश्य पश्येति वारां
पारे त्वं प्राददर्शः किमपि हि तमसां दूरदूरं पदं ते ॥७॥
तत्रासीनं भुजङ्गाधिपशयनतले दिव्यभूषायुधाद्यै -
रावीतं पीतचेलं प्रतिनवजलदश्यामलं श्रीमदङ्गम् ।
मूर्तीनामीशितारं परमिह तिसृणामेकमर्थं श्रुतीनां
त्वामेव त्वं परात्मन् प्रियसखसहितो नेमिथ क्षेमरूपम् ॥८॥
युवां मामेव द्वावधिकविवृतान्तर्हिततया
विभिन्नौ संद्रष्टुं स्वयमहमहार्षम् द्विजसुतान् ।
नयेतं द्रागेतानिति खलु वितीर्णान् पुनरमून्
द्विजायादायादाः प्रणुतमहिमा पाण्डुजनुषा ॥९॥
एवं नानाविहारैर्जगदभिरमयन् वृष्णिवंशं प्रपुष्ण -
न्नीजानो यज्ञभेदैरतुलविहृतिभिः प्रीणयन्नेणनेत्राः ।
भूभारक्षेपदम्भात् पदकमलजुषां मोक्षणायावतीर्णः
पूर्णं ब्रह्मैव साक्षाद्यदुषु मनुजतारूपितस्त्वं व्यलासीः ॥१०॥
प्रायेण द्वारवत्यामवृतदयि तदा नारदस्त्वद्रसार्द -
स्तस्माल्लेभे कदाचित्खलु सुकृतनिधिस्त्वात्पिता तत्त्वबोधम् ।
भक्तानामग्रयायी स च खलु मतिमानुद्धवस्त्वत्त एव
प्राप्तो विज्ञानसारं स किल जनहितायाधुनाऽऽस्ते बदर्याम् ॥११॥
सोऽयं कृष्णावतारो जयति तव विभो यत्र सौहार्दभीति -
स्नेहद्वेषानुरागप्रभृतिभिरतुलैश्रमैर्योगभेदैः ।
अर्तिं तीर्त्वां समस्ताममृतपदमगुः सर्वतः सर्वलोकाः
स त्वं विश्र्वार्तिशान्त्यै पवनपुरपते भक्तिपूर्त्यै च भूयाः ॥१२॥
॥ इति संतानगोपालोपाख्यानमष्टाशीतितमदशकं समाप्तम् ॥