भवन्तमयमुद्वहन् यदुकुलोद्वहो निस्सरन्
ददर्श गगनोच्चलज्जलभरां कलिन्दात्मजाम् ।
अहो सलिलसंचयः स पुनरैन्द्रजालोदितो
जलौघ इव तत्क्षणात् प्रपदमेयतामाययौ ॥१॥
प्रसुप्तपशुपालिकां निभृतमारुदद्बालिका -
मपावृतकवाटिकां पशुवाटिकामाविशन् ।
भवन्तमयमर्पयन् प्रसवतल्पके तत्पदाद्
वहन् कपटकन्यकां स्वपुरमागतो वेगतः ॥२॥
ततस्त्वदनुजारवक्षपितनिद्रवेद्रव -
द्भटोत्कनिवेदितप्रसववार्तयैवार्तिमान् ।
विमुक्तचिकुरोत्करस्त्वरितमापतन् भोजरा -
डतुष्ट इव दृष्टवान् भगिनिकाकरे कन्यकाम् ॥३॥
ध्रुवं कपटशालिनो मधुहरस्य माया भवे -
दसाविति किशोरिकां भगिनिकाकरालिङ्गिताम् ।
द्विपो नलिनिकान्तरादिव मृणालिकामाक्षिप -
न्नयं त्वदनुपामजामुपलपट्टके पिष्टवान् ॥४॥
ततो भवदुपासको झटिति मृत्युपाशादिव
प्रमुच्य तरसैव सा समधिरूछरूपान्तरा ।
अधस्तलमजग्मुषी विकसदष्टबाहुस्फुर -
न्महायुधमहो गता किल विहायसा दिद्युते ॥५॥
नृशंसतर कंस ते किमु मया विनिष्पिष्टया
बभूव भवदन्तकः क्वचन चिन्त्यतां ते हितम् ।
इति त्वदनुजा विभो खलमुदीर्य तं जग्मुषी
मरुद्गणपणायिता भुवि च मन्दिराण्येयुषी ॥६॥
प्रगे पुनरगात्मजावचनकीरिता भूभुजा
प्रलम्बबकपूतनाप्रमुखदानवा मानिनः ।
भवन्निधनकाम्यया जगति बभ्रमुर्निर्भयाः
कुमारकविमारकाः किमिव दुष्करं निष्कृपैः ॥७॥
ततः पशुपमन्दिरे त्वयि मुकुन्द नन्दप्रिया -
प्रसूतिशयनेशये रुदति किञ्चिदञ्चत्पदे ।
विबुध्य वनिताजनैस्तनयसम्भवे घोषिते
मुदा किमु वदाम्यहो सकलमाकुलं गोकुलम् ॥८॥
अहो खलु यशोदया नवकलायचेतोहरं
भवन्तमलमन्तिके प्रथममापिबन्त्या दृशा ।
पुनः स्तनभरं निजं सपदि पाययन्त्या मुदा
मनोहरतनुस्पृशा जगति पुण्यवन्तो जिताः ॥९॥
भवत्कुशलकाम्यया स खलु नन्दगोपस्तदा
प्रमोदभरसंकुलो द्विजकुलाय किन्नाददात् ।
तथैव पशुपालकाः किमु न मङ्गलं तेनिरे
जगत्त्रितयमङ्गल त्वमिह पाहि माममयात् ॥१०॥
॥ इति योगमायानयनादिवर्णनम् एकोनचत्वारिंशत्तमदशकं समाप्तम् ॥