मुदा सुरौघेस्त्वमुदारसम्मदैरुदीर्य दामोदर इत्यभिष्टुतः ।
मृदूदरः स्वैरमुलूखले लगन्नदूरतो द्वौ ककुभावुदैक्षथाः ॥१॥
कुबेरसूनुर्नलकूबराभिधः परो मणिग्रीव इति प्रथां गतः ।
महेशसेवाधिगताश्रियोन्मदौ चिरं किल त्वद्विमुखावखेलताम् ॥२॥
सुरापगायां किल तौ मदोत्कटौ सुरापगायद्बहुयौवतावृतौ ।
विवाससौ केलिपरौ स नारदो भवत्पदैकप्रवणो निरैक्षत ॥३॥
भिया प्रियालोकमुपात्तवाससं पुरो निरीक्ष्यापि मदान्धचेतसौ ।
इमौ भवद्भक्त्युपशान्तिसिद्धये मुनिर्जगौ शान्तिमृते कुतः सुखम् ॥४॥
युवामवाप्तौ ककुभात्मतां चिरं हरिं निरीक्ष्याथ पदं स्वमाप्नुतम् ।
इतीरितौ तौ भवदीक्षणस्पृहां गतौ व्रजान्ते ककुभौ बभूवतुः ॥५॥
अतन्द्रमिन्द्रद्रुयुगं तथाविधं समेयुषा मन्थरगामिना त्वया ।
तिरायितोलूखलरोधनिर्धुतौ चिराय जीर्णो परिपातितौ तरू ॥६॥
अभाजि खाखिद्वितयं यदा त्वया तदैव तद्रर्भतलान्निरेयुषा ।
महात्विषा यक्षयुगेन तत्क्षणादभाजि गोविन्द भवानपि स्तवैः ॥७॥
इहान्यभक्तोऽपि समेष्यति क्रमाद् भवन्तमेतौ खलु रुद्रसेवकौ ।
मुनिप्रसादाद्भवदङ्घ्रिमागतौ गतौ वृणानौ खलु भक्तिमुत्तमाम् ॥८॥
ततस्तरूद्दारणदारुणारवप्रकम्पिसम्पातिनि गोपमण्डले ।
विलज्जितत्वज्जननीमुखेक्षिणा व्यमोक्षि नन्देन भवान्विमोक्षदः ॥९॥
महीरुहोर्मध्यगतो बतार्भको हरेः प्रभावादपरिक्षतोऽधुना ।
इति ब्रुवाणैर्गमितो गृहं भवान् मरुत्पुराधीश्र्वर पाहि मां गदात् ॥१०॥
॥ इति यमलार्जुनभञ्चनमष्टचत्वारिंशत्तमदशकं समाप्तम् ॥