सान्द्रानन्दतनो हरे ननु पुरा दैवासुरे सङ्गरे
त्वत्कृत्ता अपि कर्मशेषवशतो ये ते न याता गतिम् ।
तेषां भूतलजन्मनां दितिभुवां भारेण दूरार्दिता
भूमिः प्राप विरिञ्चमाश्रितपदं देवैः पुरैवागतैः ॥१॥
हा हा दुर्जनभूरिभारमथितां पाथोनिधौ पातुका -
मेतां पालय हन्त मे विवशतां सम्पृच्छ देवानिमान् ।
इत्यादिप्रचुरप्रलापविवशामालोक्य धाता महीं
देवानां वेदनानि वीक्ष्य परितो दध्यौ भवन्तं हरे ॥२॥
ऊचे चाम्बुजभूरमूनयि सुराः सत्यं धरित्र्या वचो
नन्वस्या भवतां च रक्षणविधौ दक्षो हि लक्ष्मीपतिः ।
सर्वे शर्वपुरस्सरा वयमितो गत्वा पयोवारिधिं
नत्वा तं स्तुमहे जवादिति ययुः साकं तवाकेतनम् ॥३॥
ते मुग्धानिलशालि दुग्धजलधेस्तीरं गताः सङ्गता
यावत्त्वत्पदचिन्तनैकमनसस्तावत्स पाथोजभूः ।
त्वद्वाचं हृदये सकलानानन्दयन्नूचिवा -
नाख्यातः परमात्मना स्वयमहं वाक्यं तदाकर्ण्यताम् ॥४॥
जाने दीनदशामहं दिविषदां भूमेश्र्च भीमैर्नुपै -
स्तत्क्षेपाय भवामि यादवकुले सोऽहं समग्रात्मना ।
देवा वृष्णिकुले भवन्तु कलया देवाङ्गनाश्र्चावनौ
मत्सेवार्थमिति त्वदीयवचनं पाथोजभूरूचिवान् ॥५॥
श्रुत्वा कर्णरसायनं तव वचः सर्वेषु निर्वापित -
स्वान्तेष्वीश गतेषु तावककृपापीयूषतृप्तात्मसु ।
विख्याते मथुरापुरे किल भवत्सांनिध्यपुण्योत्तरे
धन्यां देवकनन्दनामुदवहद्राजा स शूरात्मजः ॥६॥
उद्वाहावसितौ तदीयसहजः गतः पथि रथे व्योमोत्थया त्वद्गिरा ।
अस्यास्त्वामतिदुष्टमष्टमसुतो हन्तेति हन्तेरितः
संत्रासात् स तु हन्तुमन्तिकगतां तन्वीं कृपाणीमधात् ॥७॥
गृह्णानश्र्चिकुरेषु तां खलमतिः शौरेश्र्चिरं सान्त्वनै -
र्नो मुञ्चन् पुनरात्मजार्पणगिरा प्रीतोऽथ यातो गृहान् ।
आद्यं त्वस्सहजं पथार्पितमपि स्नेहेन नाहन्नसौ
दुष्टानामपि देव पुष्टकरुणा दृष्टा हि धीरेकदा ॥८॥
तावत्त्वन्मनसैव नारदमुनिः प्रोचे स भोजेश्र्वरं
यूयं नन्वसुराः सुराश्र्च यदवो जानासि किं न प्रभो ।
मायावी स हिरर्भवद्वधकृते भावी सूरप्रार्थना -
दित्याकर्ण्य यदूनदूधुनदसौ शौरश्र्च सूनूनहन् ॥९॥
प्राप्ते सप्तमगर्भतामहिपतौ त्वत्प्रेरणान्मायया
नीते माधव रोहिणीं त्वमपि भोः सच्चित्सुखैकात्मकः ।
देवक्या जठरं विवेशिथ विभो संस्तूयमानः सुरैः
स त्वं कृष्ण विधूय रोगपटलीं भक्ति परां देहि मे ॥१०॥
॥ इति श्रीकृष्णावतारप्रसङ्गवर्णनं सप्तत्रिंशत्तमदशकं समाप्तम् ॥