पुलस्त्य उवाच
एतस्मिन्नन्तरे प्राप्तः समं दैत्यैस्तथाऽन्धकः ।
मन्दरं पर्वतश्रेष्ठं प्रमथाश्रितकन्दरम् ॥१॥
प्रमथा दानवान् दृष्ट्वा चक्रुः किलकिलाध्वनिम् ।
प्रमथाश्चापि संरब्धा जघ्नुस्तूर्याण्यनेकशः ॥२॥
स चावृणोन्महानादो रोदसी प्रलयोपमः ।
शुश्राव वायुमार्गस्थो विघ्नराजो विनायकः ॥३॥
समभ्ययात् सुसंक्रुद्धः प्रमथैरभिसंवृतः ।
मन्दरं पर्वतश्रेष्ठं ददृशे पितरं तथा ॥४॥
प्रणिपत्य तथा भक्त्या वाक्यमाह महेश्वरम् ।
किं तिष्ठसि जगन्नाथ समुत्तिष्ठ रणोत्सुकः ॥५॥
ततो विघ्नेशवचनाज्जगन्नाथोऽम्बिकां वचः ।
प्राह यास्येऽन्धकं हन्तुं स्थेयमेवाप्रमत्तया ॥६॥
ततो गिरिसुता देवं समालिङ्ग्य पुनः पुनः ।
समीक्ष्य सस्त्रेहहरं प्राह गच्छ जयान्धकम् ॥७॥
ततोऽमरगुरोर्गौरी चन्दनं रोचनाञ्जनम् ।
प्रतिवन्द्य सुसम्प्रीता पादावेवाभ्यवन्दत ॥८॥
ततो हरः प्राह वचो यशस्यं मालिनीमपि ।
जयां च विजयां चैव जयन्तीं चापराजिताम् ॥९॥
युष्माभिरप्रमत्ताभिः स्थेयं गेहे सुरक्षिते ।
रक्षणीया प्रयत्नेन गिरिपुत्री प्रमादतः ॥१०॥
इति संदिश्य ताः सर्वाः समारुह्य वृषं विभुः ।
निर्जगाम गृहात् तुष्टो जयेप्सुः शूलधृग् बली ॥११॥
निर्गच्छतस्तु भवनादीश्वरस्य गणाधिपाः ।
समन्तात् परिवार्यैव जयशब्दांश्च चक्रिरे ॥१२॥
रणाय निर्गच्छति लोकपाले महेश्वरे शूलधरे महर्षे ।
शुभानि सौम्यानि सुमङ्गलानि जातानि चिह्नानि जयाय शम्भोः ॥१३॥
शिवा स्थिता वामतरेऽथ भागे प्रयाति चाग्रे स्वनमुन्नदन्ती ।
क्रव्यादसंघाश्च तथामिषैषिणः प्रयान्ति हष्टास्तृषितासृगर्थे ॥१४॥
दक्षिणाङ्गं नखान्तं वै समकम्पत शूलिनः ।
शकुनिश्चापि हारीतो मौनी याति पराङ्मुखः ॥१५॥
निमित्तानीदृशान् दृष्ट्वा भूतभयव्यभवो विभुः ।
शैलादिं प्राह वचनं सस्मितं शशिशेखरः ॥१६॥
हर उवाच
नन्दिञ् जयोऽद्य मे भावी न कथंचित् पराजयः ।
निमित्तानीह दृश्यन्ते सम्भूतानि गणेश्वर ॥१७॥
तच्छम्भुवचनं श्रुत्वा शैलादिः प्राह शङ्करम् ।
कः संदेहो महादेव यत् त्वं जयसि शात्रवान् ॥१८॥
इत्येवमुक्त्वा वचनं नन्दी रुद्रगणांस्तथा ।
समादिदेश युद्धाय महापाशुपतैः सह ॥१९॥
तेऽभ्येत्य दानवबलं मर्दयन्ति स्म वेगिताः ।
नानाशस्त्रधरा वीरा वृक्षानशनयो यथा ॥२०॥
ते वध्यमाना बलिभिः प्रमथैर्दैत्यदानवाः ।
प्रवृत्ताः प्रमथान् हन्तुः कूटमुदगरपाणयः ॥२१॥
ततोऽम्बरतले देवाः सेन्द्रविष्णुपितामहाः ।
ससूर्याग्निपुरोगास्तु समायाता दिदृक्षवः ॥२२॥
ततोऽम्बरतले घोषः सस्वनः समजायत ।
गीतवाद्यादिसम्मिश्रो दुन्दुभीनां कलिप्रिय ॥२३॥
ततः पश्यस्तु देवेषु महापाशुपतादयः ।
गणास्तद्दानवं सैन्यं जिघांसन्ति स्म कोपिताः ॥२४॥
चतुरङ्गबलं दृष्ट्वा हन्यमानं गणेश्वरैः ।
क्रोधान्वितस्तुहुण्डस्तु वेगेनाभिससार ह ॥२५॥
आदाय परिघं घोरं पट्टोद्वद्धमयस्मयम् ।
राजतं राजतेऽत्यर्थमिन्द्रध्वजमिवोच्छ्रितम् ॥२६॥
तं भ्रामयानो बलवान् निजघान रणे गणान् ।
रुद्राद्याः स्कन्दपर्यन्तास्तेऽभ्यज्यन्त भयातुराः ॥२७॥
तत्प्रभग्नं बलं दृष्ट्वा गणनाथो विनायकः ।
समाद्रवत वेगे न तुहुण्डं दनुपुङ्गवम् ।
परिघं पातयामास कुम्भपृष्ठे महाबलः ॥२९॥
विनायकस्य तत्कुम्भे परिघं वज्रभूषणम् ।
शतधा त्वगमद् ब्रह्मन् मेरोः कूट इवाशनिः ॥३०॥
परिघं विफलं दृष्ट्वा समायान्तं च पार्षदम् ।
बबन्ध बाहुपाशेन राहू रक्षन् हि मातुलम् ॥३१॥
स बद्धो बाहुपाशेन बलादाकृष्य दानवम् ।
समाजघान शिरसि कुठारेण महोदरः ॥३२॥
काष्ठवत् स द्विधा भूतो निपपात धरातले ।
तथाऽपि नात्यजद राहुर्बलवान् दानवेश्वरः ।
स मोक्षार्थेऽकरोद यत्नं न शशाक च नारद ॥३३॥
विनायकं संयतमीक्ष्य राहुणा कुण्डोदरो नाम गणेश्वरोऽथ ।
प्रगृह्य तूर्णं मुशलं महात्मा राहुं दुरात्मानमसौ जघान ॥३४॥
ततो गणेशः कलशध्वजस्तु प्रासेन राहुं हदये बिभेद ।
घटोदरो वै गदया जघान खङ्गेन रक्षोऽधिपतिः सुकेशी ॥३५॥
स तैश्चतुर्भिः परिताङ्यमानो गणाधिपं राहुरथोत्ससर्ज ।
संत्यक्तमात्रोऽथ परश्वधेन तुहुण्डमूर्द्धानमथो बिभेद ॥३६॥
हते तुहुण्डे विमुखे च राहौ गणेश्वराः क्रोधविषं मुमुक्षवः ।
पञ्चैककालानलसन्निकाशा विशन्ति सेनां दनुपुङ्गवानाम् ॥३७॥
तां वध्यमानां स्वचमूं समीक्ष्य बलिर्बली मारुततुल्यवेगः ।
गदां समाविष्य जघान मूर्ध्नि विनायकं कुम्भतटे करे च ॥३८॥
कुण्डोदरं भग्नकटिं चकार महोदरं शीर्णशिरः कपालम् ।
कुम्भध्वजं चूर्णितसंधिबन्धं घटोदरं चोरुविभिन्नसंधिम् ॥३९॥
गणाधिपांस्तान् त्वरितो निहन्तुं गणेश्वरान् स्कन्दविशाखमुख्यान् ॥४०॥
तमापतन्तं भगवान् समीक्ष्य महेश्वरः श्रेष्ठतमं गणानाम् ।
शैलादिमामन्त्र्य वचो बभाषे गच्छस्व दैत्यान् जहि वीर युद्धे ॥४१॥
इत्येवमुक्तो वृषभध्वजेन वज्रं समादाय शिलादसूनुः ।
बलिं समभ्येत्य जघान मूर्ध्नि सम्मोहितः सोऽवनिमाससाद ॥४२॥
सम्मोहितं भ्रातृसुतं विदित्वा बली कुजम्भो मुसलं प्रगृह्य ।
सम्भ्रामयंस्तूर्णतरं स वेगात् ससर्ज नन्दिं प्रति जातकोपः ॥४३॥
तमापतन्तं मुसलं प्रगृह्य करेण तूर्णं भगवान् स नन्दी ।
जघान तेनैव कुजम्भमाहवे न प्राणहीनो निपपात भूमौ ॥४४॥
हत्वा कुजम्भं मुसलेन नन्दी वज्रेण वीरः शतशो जघान ।
ते वध्यमाना गणनायकेन दुर्योधनं वै शरणं प्रपन्नाः ॥४५॥
दुर्योधनः प्रेक्ष्य गणाधिपेन वज्रप्रहारैर्निहतान् दितीशान्
प्रासं समाविध्य तडित्प्रकाशं नन्दिं प्रचिक्षेप हतोऽसि वै ब्रुवन् ॥४६॥
तमापतन्तं कुलिशेन नन्दी बिभेद गुह्यं पिशुनो यथा नरः ।
तत्प्रासमालक्ष्य तदा निकृत्तं संवर्त्त्य मुष्टिं गणमाससाद ॥४७॥
ततोऽस्य नन्दी कुलिशेन तूर्णं शिरोऽच्छिनत् तालफलप्रकाशम् ।
हतोऽथ भूमौ निपपात वेगाद् दैत्याश्च भीता विगता दिशो दश ॥४८॥
ततो हतं स्वं तनयं निरीक्ष्य हस्ती तदा नन्दिनमाजगाम ।
प्रगृह्य बाणासनमुग्नवेगं बिभेद बाणैर्यमदण्डकल्पैः ॥४९॥
गणान् सनन्दीन् वृषभध्वजांस्तान् धाराभिरेवाम्बुधरास्तु शैलान् ।
ते छाद्यमानासुरबाणजालैर्विनायकाद्या बलिनोऽपि वीराः ।
सिंहप्रणुन्ना वृषभा यथैव भयातुरा दुद्रुविरे समन्तात् ॥५०॥
पराङ्मुखान् वीक्ष्य गणान् कुमारः शक्त्या पृषत्कानथ वारयित्वा ।
तूर्णं समभ्येत्य रिपुं समीक्ष्य प्रगृह्य शक्त्या हदये बिभेद ॥५१॥
शक्तिनिर्भिन्नहदयो हस्ती भूम्यां पपात ह ।
ममार चारिपृतना जाता भूयः पराङ्मुखी ॥५२॥
अमरारिबलं दृष्ट्वा भग्नं क्रुद्धा गणेश्वराः ।
पुरतो नन्दिनं कृत्वा जिघांसन्ति स्म दानवान् ॥५३॥
ते वध्यमानाः प्रमथैर्दैत्याश्चापि पराङ्मुखाः ।
भूयो निवृत्ता बलिनः कार्त्तस्वरपुरोगमाः ॥५४॥
तान् निवृत्तान् समीक्ष्यैव क्रोधदीप्तेक्षणः श्वसन् ।
नन्दिषेणो व्याघ्रमुखो निवृत्तश्चापि वेगवान् ॥५५॥
तस्मिन् निवृत्ते गणपे पट्टिशाग्रकरे तदा ।
कार्त्तस्वरो निववृते गदामादाय नारद ॥५६॥
तमापतन्तं ज्वलनप्रकाशं गणः समीक्ष्यैव महासुरेन्द्रम् ।
तं पट्टिशं भ्राम्य जघान मूर्ध्नि कार्त्तस्वरं विस्वरमुन्नदन्तम् ॥५७॥
तस्मिन् हते भ्रातरि मातुलेये पाशं समाविध्य तुरङ्गकन्धरः ।
बबन्ध वीरः सह पट्टिशेन गणेश्वरं चाप्यथ नन्दिषेणम् ॥५८॥
नन्दिषेणं तथा बद्धं समीक्ष्यं बलिनां वरः ।
विशाखः कुपितोऽभ्येत्य शक्तिपाणिरवस्थितः ॥५९॥
तं दृष्ट्वा बलिनां श्रेष्ठः पाशपाणिरयः शिराः ।
संयोधयामास बली विशाखं कुक्कुटध्वजम् ॥६०॥
विशाखं संनिरुद्धं वै दृष्ट्वाऽयः शिरसा रणे ।
शाखश्च नैगमेयश्च तूर्णमाद्रवतां रिपुम् ॥६१॥
एकतो नैगमेयेन भिन्नः शक्त्या त्वयः शिराः ।
एकतश्चैव शाखेन विशाखप्रियकाम्यया ॥६२॥
स त्रिभिः शङ्करसुतैः पीडयमानो जहौ रणम् ।
ते प्राप्ताः शम्बरं तूर्णं प्रेक्ष्यमाणा गणेश्वराः ॥६३॥
पाशं शक्त्या समाहत्य चतुर्भिः शङ्करात्मजैः ।
जगाम विलयं तूर्णमाकाशादिव भूतलम् ॥६४॥
पाशे निराशतां याते शम्बरः कातरेक्षणः ।
दिशोऽथ भेजे देवर्षे कुमारः सैन्यमर्दयत् ॥६५॥
तैर्वध्यमाना पृतना महर्षे सा दानवी रुद्रसुतैर्गणैश्च ।
विषण्णरुपा भयविह्ललाङ्गी जगाम शुक्रं शरणं भयार्ता ॥६६॥