पुलस्त्य उवाच
मेनायाः कन्यकास्तिस्त्रो जाता रुपगुणान्विताः ।
सुनाभ इति च ख्यातश्चतुर्थस्तनयोऽभवत् ॥१॥
रक्ताङ्गी रक्तनेत्रा च रक्ताम्बरविभूषिता ।
रागिणी नाम संजाता ज्येष्ठा मेनासुता मुने ॥२॥
शुभाङ्गी पद्मपत्राक्षी नीलकुञ्चितमूर्धजा ।
श्वेतमाल्याम्बरधरा कुटिला नाम चापरा ॥३॥
नीलाञ्जनचयप्रख्या नीलेन्दीवरलोचना ।
रुपेणानुपमा काली जघन्या मेनकासुता ॥४॥
जातास्ताः कन्यकास्तिस्त्रः षडब्दात् परतो मुने ।
कर्तुं तपः प्रयातास्ता देवास्ता ददृशुः शुभाः ॥५॥
ततो दिवाकरैः सर्वैर्वसुभिश्च तपस्विनी ।
कुटिला ब्रह्मलोकं तु नीता शशिकरप्रभा ॥६॥
अथोचुर्देवताः सर्वाः किं त्वियं जनयिष्यति ।
पुत्रं महिषहन्तारं ब्रह्मन् व्याख्यातुमर्हसि ॥७॥
ततोऽब्रवीत् सुरपतिर्नेयं शक्ता तपस्विनी ।
शार्वं धारयितुं तेजो वराकी मुच्यतां त्वियम् ॥८॥
ततस्तु कुटिला क्रुद्धा ब्रह्माणं प्राह नारद ।
तथा यतिष्ये भगवन् यथा शार्वं सुदुर्द्धरम् ॥९॥
धारयिष्याम्यहं तेजस्तथैव श्रृणु सत्तम ।
तपसाहं सुतप्तेन समाराध्य जनार्दनम् ॥१०॥
यथा हरस्य मूर्धानं नमयिष्ये पितामह ।
तथा देव करिष्यामि सत्यं सत्यं मयोदितम् ॥११॥
पुलस्त्य उवाच
ततः पितामहः क्रुद्धः कुटिलां प्राह दारुणाम् ।
भगवानादिकृद ब्रह्मा सर्वेशोऽपि महामुने ॥१२॥
ब्रह्मोवाच
यस्मान्मद्वचनं पापे न क्षान्तं कुटिले त्वया ।
तस्मान्मच्छापनिर्दग्धा सर्वा आपो भविष्यसि ॥१३॥
इत्येवं ब्रह्मणा शप्ता हिमवददुहिता मुने ।
आपोमयी ब्रह्मलोकं प्लावयामास वेगिनी ॥१४॥
तामुदवृत्तजलां दृष्ट्वा प्रबबन्ध पितामहः ।
ऋक्सामाथर्वयजुर्भिर्वाङ्मयैर्बन्धनैर्दृढम् ॥१५॥
सा बद्धा संस्थिता ब्रह्मन् तत्रैव गिरिकन्यका ।
आपोमयी प्लावयन्ती ब्रह्मणो विमला जटाः ॥१६॥
या सा रागवती नाम सापि नीता सुरैर्दिवम् ।
ब्रह्मणे तां निवेद्यैवं तामप्याह प्रजापतिः ॥१७॥
सापि क्रुद्धाऽब्रवीन्नूनं तथा तप्स्ये महत्तपः ।
यथा मन्नामसंयुक्तो महिषघ्नो भविष्यति ॥१८॥
तामप्यथाशपद ब्रह्मा सन्ध्या पापे भविष्यसि ।
या मदवाक्यमलङ्ह्यं वै सुरैर्लङ्घयसे बलात् ॥१९॥
सापि जाता मुनिश्रेष्ठ संध्या रागवती ततः ।
प्रतीच्छत् कृत्तिकायोगं शैलेयी विग्रहं दृढम् ॥२०॥
ततो गते कन्यके द्वे ज्ञात्वा मेना तपस्विनी ।
तपसो वारयामास उमेत्येवब्रवीच्च सा ॥२१॥
तदेव माता नामास्याश्चके पितृसुता शुभा ।
उमेत्येव हि कन्यायाः सा जगाम तपोवनम् ॥२२॥
ततः सा मनसा देवं शूलपाणिं वृषध्वजम् ।
रुद्रं चेतसि संधाय तपस्तेपे सुदुष्करम् ॥२३॥
ततो ब्रह्माऽब्रवीद् देवान् गच्छध्वं हिमवत्सुताम् ।
इहानयध्वं तां कालीं तपस्यन्तीं हिमालये ॥२४॥
ततो देवाः समाजग्मुर्ददृशुः शैलनन्दिनीम् ।
तेजसा विजितास्तस्या न शेकुरुपसर्पितुम् ॥२५॥
इन्द्रोऽमरगणैः सार्द्धं निर्द्धूतस्तेजसा तया ।
ब्रह्मणोऽधिकतेजोऽस्या विनिवेद्य प्रतिष्ठितः ॥२६॥
ततो ब्रह्माऽब्रवीत् सा हि ध्रुवं शङ्करवल्लभा ।
यूयं यत्तेजसा नूनं विक्षिप्तास्तु हतप्रभाः ॥२७॥
तस्माद् भजध्वं स्वं स्वं हि स्थानं भो विगतज्वराः ।
सतारकं हि महिषं विदध्वं निहतं रणे ॥२८॥
इत्येवमुक्ता देवेन ब्रह्मणा सेन्द्रकाः सुराः ।
जग्मुः स्वान्येव धिष्ण्यानि सद्यो वै विगतज्वराः ॥२९॥
उमामपि तपस्यन्तीं हिमवान् पर्वतेश्वरः ।
निवर्त्य तपसस्तस्मात् सदारो ह्यनयदगृहान् ॥३०॥
देवोऽप्याश्रित्य तद्रौद्रं व्रतं नाम्ना निराश्रयम् ।
विचचार महाशैलान् मेरुप्राग्र्यान् महामतिः ॥३१॥
स कदाचिन्महाशैलं हिमवन्तं समागतः ।
तेनार्चितः श्रद्धयाऽसौ तां रात्रिमवसद्धरः ॥३२॥
द्वितीयेऽह्नि गिरीशेन महादेवो निमन्त्रितः ।
इहैव तिष्ठस्व विभो तपः साधनकारणात् ॥३३॥
इत्येवमुक्तो गिरिणा हरश्चके मतिं च ताम् ।
तस्थावाश्रममाश्रित्य त्यक्त्वा वासं निराश्रयम् ॥३४॥
वसतोऽप्याश्रमे तस्य देवदेवस्य शूलिनः ।
तं देशमगमत् काली गिरिराजसुता शुभा ॥३५॥
तामागतां हरो दृष्ट्वा भूयो जातां प्रियां सतीम् ।
स्वागतेनाभिसम्पूज्य तस्थौ योगरतो हरः ॥३६॥
सा चाभ्येत्य वरारोहा कृताञ्जलिपरिग्रहा ।
ववन्दे चरणौ शैवौ सखीभिः सह भामिनी ॥३७॥
ततस्तु सुचिराच्छर्वः समीक्ष्य गिरिकन्यकाम् ।
न युक्तं चैवमुक्त्वाऽथ सगणोऽन्तर्दधे ततः ॥३८॥
साऽपि शर्ववचो रौद्रं श्रुत्वा ज्ञानसमन्विता ।
अन्तर्दुःखेन दह्यन्ती पितरं प्राह पार्वती ॥३९॥
तात यास्ये महारण्ये तप्तुं घोरं महत्तपः ।
आराधनाय देवस्य शङ्करस्य पिनाकिनः ॥४०॥
तथेत्युक्तं वचः पित्रा पादे तस्यैव विस्तृते ।
ललिताख्या तपस्तेपे हराराधनकाम्यया ॥४१॥
तस्याः सख्यस्तदा देव्याः परिचर्यां तु कुर्वते ।
समित्कुशफलं चापि मूलाहरणमादितः ॥४२॥
विनोदनार्थं पार्वत्या मृण्मयः शूलधृग हरः ।
कृतस्तु तेजसा युक्तो भद्रमस्त्विति साऽब्रवीत् ॥४३॥
पूजां करोति तस्यैव तं पश्यन्ति मुहुर्मुहुः ।
ततोऽस्यास्तुष्टिमगमच्छ्रद्धया त्रिपुरान्तकृत् ॥४४॥
वटुरुपं समाधाय आषाढी मुञ्जमेखली ।
यज्ञोपवीती छत्री च मृगाजिनधरस्तथा ॥४५॥
कमण्डलुव्यग्रकरो भस्मारुणितविग्रहः ।
प्रत्याश्रमं पर्यटन् स तं काल्याश्रममागतः ॥४६॥
तमुत्थाय तदा काली सखीभिः सह नारद ।
पूजयित्वा यथान्यायं पर्यपृच्छदिदं ततः ॥४७॥
उमोवाच
कस्मादागम्यते भिक्षो कुत्र स्थाने तवाश्रमः ।
क्व च त्वं प्रतिगन्तासि मम शीघ्रं निवेदय ॥४८॥
भिक्षुरुवाच
ममाश्रमपदं बाले वाराणस्यां शुचिव्रते ।
अथातस्तीर्थयात्रायां गमिष्यामि पृथूदकम् ॥४९॥
देव्युवाच
किं पुण्यं विप्रेन्द्र लब्धाऽसि त्वं पृथूदके ।
पथि स्नानेन च फलं केषु किं लब्धवानासि ॥५०॥
भिक्षुरुवाच
मया स्त्रानं प्रयागे तु कृतं प्रथममेव हि ।
ततोऽथ तीर्थे कुब्जाम्रे जयन्ते चण्डिकेश्वरे ॥५१॥
बन्धुवृन्दे च कर्कन्धे तीर्थे कनखले तथा ।
सरस्वत्यामग्निकुण्डे भद्रायां तु त्रिविष्टपे ॥५२॥
कोनटे कोटितीर्थे च कुब्जके च कृशोदरि ।
निष्कामेन कृतं स्त्रानं ततोऽभ्यागां तवाश्रमम् ॥५३॥
इहस्थां त्वां समाभाष्य गमिष्यामि पृथूदकम् ।
पृच्छामि यदहं त्वां वै तत्र न क्रोदधुमर्हसि ॥५४॥
अहं यत्तपसात्मानं शोषयामि कृशोदरि ।
बाल्येऽपि संयततनुस्तत्तु श्लाघ्यं द्विजन्मनाम् ॥५५॥
किमर्थं भवती रौद्रं प्रथमे वयसि स्थिता ।
तपः समाश्रिता भीरु संशयः प्रतिभाति मे ॥५६॥
प्रथमे वयसि स्त्रीणां सह भर्त्रा विलासिनि ।
सुभोगा भोगिताः काले व्रजन्ति स्थिरयौवने ॥५७॥
तपसा वाज्छयन्तीह गिरिजे सचराचराः ।
रुपाभिजनमैश्चर्यं तच्च ते विद्यते बहु ॥५८॥
तत किमर्थमपास्यैतानलंकाराञ्जटा धृताः ।
चीनांशुकं परित्यज्य किं त्वं वल्कलधारिणी ॥५९॥
पुलस्त्य उवाच
ततस्तु तपसा वृद्धा देव्याः सोमप्रभा सखी ।
भिक्षवे कथयामास यथावत् सा हि नारद ॥६०॥
सोमप्रभोवाच
तपश्चर्या द्विजश्रेष्ठ पार्वत्या येन हेतुना ।
तं श्रृणुष्व त्वियं काली हरं भर्तारमिच्छति ॥६१॥
पुलस्त्य उवाच
सोमप्रभाया वचनं श्रुत्वा संकम्प्य वै शिरः ।
विहस्य च महाहासं भिक्षुराह वचस्त्विदम् ॥६२॥
भिक्षुरुवाच
वदामि ते पार्वति वाक्यमेवं केन प्रदत्ता तव बुद्धिरेषा ।
कथं करः पल्लवकोमलस्ते समेष्यते शार्वकरं ससर्पम् ॥६३॥
तथा दुकूलाम्बरशालिनी त्वं मृगारिचर्माभिवृतस्तु रुद्रः ।
त्वं चन्दनाक्ता स च भस्मभूषितो न युक्तरुपं प्रतिभाति मे त्विदम् ॥६४॥
पुलस्त्य उवाच
एवं वादिनि विप्रेन्द्र पार्वती भिक्षुमब्रवीत् ।
मा मैवं वद भिक्षो त्वं हरः सर्वगुणाधिकः ॥६५॥
शिवो वाप्यथवा भीमः सधनो निर्धनोऽपि वा ।
अलङ्कृतो वा देवेशस्तथा वाप्यनलङ्कृतः ॥६६॥
यादृशस्तादृशो वापि स मे नाथो भविष्यति ।
निवार्यतामयं भिक्षुर्विवक्षुः स्फुरिताधरः ।
न तथा निन्दकः पापी यथा श्रृण्वज्शशिप्रबे ॥६७॥
पुलस्त्य उवाच
इत्येवमुक्त्वा वरदा समुत्थातुमथैच्छत ।
ततोऽत्यजद भिक्षुरुपं स्वरुपस्थोऽभवच्छिवः ॥६८॥
भूत्वोवाच प्रिये गच्छ स्वमेव भवनं पितुः ।
तवार्थाय प्रहेष्यामि महर्षीन् हिमवदगृहे ॥६९॥
यच्चेह रुद्रमीहन्त्या मृण्मयश्चेश्वरः कृतः ।
असौ भद्रेश्वरेत्येवं ख्यातो लोके भविष्यति ॥७०॥
देवदानवगन्धर्वा यक्षाः किंपुरुषोरगाः ।
पूजयिष्यन्ति सततं मानवाश्च शुभेप्सवः ॥७१॥
इत्येवमुक्ता देवेन गिरिराजसुता मुने ।
जगामाम्बरमाविश्य स्वमेव भवनं पितुः ॥७२॥
शङ्करोऽपि महातेजा विसृज्य गिरिकन्यकाम् ।
पृथूदकं जगामाथ स्त्रानं चक्रे विधानतः ॥७३॥
ततस्तु देवप्रवरो महेश्वरः पृथूदके स्त्रानमपास्तकल्मषः ।
कृत्वा सनन्दिः सगणः सवाहनो महागिरिं मन्दरमाजगाम् ॥७४॥
आयाति त्रिपुरान्तके सह गणैर्ब्रह्मर्षिभिः सप्तभिरारोहत्पुलको बभौ गिरिवरः संहष्टचित्तः क्षणात् ।
चक्रे दिव्यफलैर्जलेन शुचिना मूलैश्च कन्ददिभिः पूजां सर्वगणेश्वरैः सह विभोरद्रिस्त्रिनेत्रस्य तु ॥७५॥