पुलस्त्य उवाच
गते त्रैलोक्यराज्ये तु दानवेषु पुरन्दरः ।
जगाम ब्रह्मसदनं सह देवैः शचीपतिः ॥१॥
तत्रापश्यत स देवेशं ब्रह्माणं कमलोद्भवम् ।
ऋषिभिः सार्धमासीनं पितरं स्वं च कश्यपम् ॥२॥
ततो ननाम शिरसा शक्रः सुरगणैः सह ।
ब्रह्माणं कश्यपं चैव तांश्च सर्वांस्तपोधनान् ।३॥
प्रोवाचेन्द्रः सुरैः सार्धं देवनाथं पितामहम् ।
पितामह हतं राज्यं बलिना बलिना मम ॥४॥
ब्रह्मा प्रोवाच शक्रैतद भुज्यते स्वकृतं फलम् ।
शक्रः पप्रच्छ भो ब्रूहि किं मया दुष्कृतं कृतम् ॥५॥
कश्यपोऽप्याह देवेशं भ्रूणहत्या कृता त्वया ।
दित्युदरात् त्वया गर्भः कृत्तो वै बहुधा बलात् ॥६॥
पितरं प्राह देवेन्द्रः स मातुर्दोषतो विभो ।
कृन्तन्म प्राप्तवान् गर्भो यदशौचा हि साभवत् ॥७॥
ततोऽब्रवीत् कश्यपस्तु मातुर्दोषः स दासताम् ।
गतस्ततो विनिहतो दासोऽपि कुलिशेन भो ॥८॥
तच्छुत्वा कश्यपवचः प्राह शक्रः पितामहम् ।
विनाशं पाप्पनो ब्रूहि प्रायश्चित्तं विभो मम ॥९॥
ब्रह्मा प्रोवाच देवेशं वसिष्ठः कश्यपस्तथा ।
हितं सर्वस्य जगतः शक्रस्यापि विशेषतः ॥१०॥
शङ्खचक्रगदापाणिर्माधवः पुरुषोत्तमः ।
तं प्रपद्यस्व शरणं स ते श्रेयो विधास्यति ॥११॥
सहस्त्राक्षोऽपि वचनं गुरुणां स निशम्य वै ।
प्रोवाच स्वल्पकालेन कस्मिन् प्राप्यो बहूदयः ।
तमूचुर्देवता मर्त्ये स्वल्पकाले महोदयः ॥१२॥
इत्येवमुक्तः सुरराड् विरिञ्चिना मरीचिपुत्रेण च कश्यपेन ।
तथैव मित्रावरुणात्मजेन वेगान्महीपृष्ठमवाप्य तस्थौ ॥१३॥
कालिञ्जरस्योत्तरतः सुपुण्यस्तथा हिमाद्रेरपि दक्षिणस्थः ।
कुशस्थलात् पूर्वत एव विश्रुतो वसोः पुरात् पश्चिमतोऽवतस्थे ॥१४॥
पूर्वं गयेन नृवरेण यत्र यष्टोऽश्वमेधः शतकृत्सदक्षिणः ।
मनुष्यमेधः शतकृत्सहस्त्रकृन् नरेन्द्रसुयश्च सहस्त्रकृद वै ॥१५॥
तथा पुरा दुर्यजनः सुरासुरैह ख्यातो महामेध इति प्रसिद्धः ।
यत्रास्य चक्रे भगवान् मुरारिः वास्तव्यमव्यक्ततनुः खमूर्तिमत् ।
ख्यातिं जगामाथ गदाधरेति महाघवृक्षस्य शितः कुठारः ॥१६॥
यस्मिन् द्विजेन्द्राः श्रुतिशास्त्रबर्जिताः समत्वमायान्ति पितामहेन ।
सकृत् पितृन् यत्र च सम्प्रपूज्य भक्त्या त्वनन्येन हि चेतसैव ।
फलं महामेधमखस्य मानवा लभन्त्यनन्त्यं भगवत्प्रसादात् ॥१७॥
महानदी यत्र सुरर्षिकन्या जलापदेशाद्धिमशैलमेत्य ।
चक्रे जगत्पापविनष्टिमग्र्यां संदर्शनप्राशनमज्जनेन ॥१८॥
तत्र शक्रः समभ्येत्य महानद्यास्तटेऽद्भुते ।
आराधनाय देवस्य कृत्वाश्रममवस्थितः ॥१९॥
प्रातः स्त्रायी त्वधः शायी एकभुक्तस्त्वयाचितः ।
तपस्तेपे सहस्त्राक्षः स्तुवन् देवं गदाधरम् ॥२०॥
तस्यैवं तप्यतः सम्यग्जितसर्वेन्द्रियस्य हि ।
कामक्रोधविहीनस्य साग्रः संवत्सरो गतः ॥२१॥
ततो गदाधरः प्रीतो वासवं प्राह नारद ।
गच्छ प्रीतोऽस्मि भवतो मुक्तपापोऽसि साम्प्रतम् ॥२२॥
निजं राज्यं च देवेश प्राप्स्यसे नचिरादिव ।
यतिष्यामि तथा शक्र भावि श्रेयो यथा तव ॥२३॥
इत्येवमुक्तोऽथ गदाधरेण विसर्जितः स्त्राप्य मनोहरायाम् ।
स्त्रातस्य देवस्य तदैनसो नरास्तं प्रोचुरस्माननुशासयस्व ॥२४॥
प्रोवाच तान् भीषणकर्मकारान् नाम्ना पुलिन्दान् मम पापसम्भवाः ।
वसध्वमेवान्तरमद्रिमुख्ययोर्हिमाद्रिकालिञ्जरयोः पुलिन्दाः ॥२५॥
इत्येवमुक्त्वा सुरराट् पुलिन्दान् विमुक्तपापोऽमरसिद्धयक्षैः ।
सम्पूज्यमानोऽनुजगाम चाश्रमं मातुस्तदा धर्मनिवासमीडयम् ॥२६॥
दृष्टाऽदितिं मूर्ध्नि कृताञ्जलिस्तु विनम्रमौलिः समुपाजगाम ।
प्रणम्य पादौ कमलोदराभौ निवेदयामास तपस्तदात्मनः ॥२७॥
पप्रच्छ सा कारणमीश्वरं तमाघ्नाय चालिङ्घ्य सहाश्रुदृष्ट्या ।
स चाचचक्षे बलिना रणे जय तदात्मनो देवगणैश्च सार्धम् ॥२८॥
श्रुत्वैव सा शोकपरिप्लुताङ्गी ज्ञात्वा जितं दैत्यसुतैः सुत तम् ।
दुःखान्विता देवमनाद्यमीडयं जगाम विष्णुं शरणं वरेण्यम् ॥२९॥
नारद उवाच
कस्मिन् जनित्री सुरसत्तमानां स्थाने हषीकेशमन्तमाद्यम् ।
चराचरस्य प्रभवं पुराणमाराधयामास शुभे वद त्वम् ॥३०॥
पुलस्त्य उवाच
सुरारणिः शक्रमवेक्ष्य दीनं पराजितं दानवनायकेन ।
सितेऽथ पक्षे मकरर्क्षगेऽर्के घृतार्चिषः स्यादथ सप्तमेऽह्नि ॥३१॥
दृष्टैव देवं त्रिदशाधिपं तं महोदये शक्रदिशाधिरुढम् ।
निराशना संयतवाक् सुचित्ता तदोपतस्थे शरणं सुरेन्द्रम् ॥३२॥
अदितिरुवाच
जयस्व दिव्याम्बुजकोशचौर जयस्व संसारतरोः कुठार ।
जयस्व पापेन्धनजातवेदस्तमौघसंरोध नमो नमस्ते ॥३३॥
नमोऽस्तु ते भास्कर दिव्यमूर्ते त्रैलोक्यलक्ष्मीतिलकाय ते नमः ।
त्वं कारणं सर्वचराचरस्य नाथोऽसि मां पालय विश्वमूर्ते ॥३४॥
त्वया जगन्नाथ जगन्मयेन नाथेन शक्रो निजराज्यहानिम् ।
अवाप्तवाञ् शत्रुपराभवं च ततो भवन्तं शरणं प्रपन्ना ॥३५॥
इत्येवमुक्त्वा सुरपूजितं सा आलिख्य रक्तेन हि चन्दनेन ।
सम्पूजयित्वा करवीरपुष्पैः संधूप्य धूपैः कणमर्कभोज्यम् ॥३६॥
निवेद्य चैवाज्ययुतं महार्हमन्नं महेन्द्रस्य हिताय देवी ।
स्तवेन पुण्येन च संस्तुवन्ती स्थिता निराहारमथोपवासम् ॥३७॥
ततो द्वितीयेऽह्नि कृतप्रणामा स्त्रात्वा विधानेन च पूजयित्वा ।
दत्त्वा द्विजेभः कणकं तिलाज्यं ततोऽग्रतः सा प्रयता बभूव ॥३८॥
ततः प्रीतोऽभवद भानुर्घृतार्चिः सूर्यमण्डलात् ।
विनिः सृत्याग्रतः स्थित्वा इदं वचनमब्रवीत् ॥३९॥
व्रतेनानेन सुप्रीतस्तवाहं दक्षनन्दिनि ।
प्राप्स्यसे दुर्लभं कामं मत्प्रसादान्न संशयः ॥४०॥
राज्यं त्वत्तनयानां वै दास्ये देवि सुराणि ।
दानवान् ध्वंसयिष्यामि सम्भूयैवोदरे तव ॥४१॥
तद्वाक्यं वासुदेवस्य श्रुत्वा ब्रह्मन् सुरारणिः ।
प्रोवाच जगतां योनिं वेपमाना पुनः पुनः ॥४२॥
कथं त्वामुदरेणाहं वोढुं शक्ष्यामि दुर्धरम् ।
यस्योदरे जगत्सर्वं वसते स्थाणुजङ्गमम् ॥४३॥
कस्त्वां धारयितुं नाथ शक्तस्त्रैलोक्यधार्यासि ।
यस्य सप्तार्णवाः कुक्षौ निवसन्ति सहाद्रिभिः ॥४४॥
तस्माद् यथा सुरपतिः शक्रः स्यात् सुरराडिह ।
यथा च न मम क्लेशस्तथा कुरु जनार्दन ॥४५॥
विष्णुरुवाच
सत्यमेतन्महाभागे दुर्धरोऽस्मि सुरासुरैः ।
तथापि सम्भविष्यामि अहं देव्युदरे तव ॥४६॥
आत्मानं भुवनान् शैलांस्त्वाञ्च देवि सकश्यपाम् ।
धारयिष्यामि योगेन मा विषादं कृथाऽम्बिके ॥४७॥
तवोदरेऽहं दाक्षेयि सम्भविष्यामि वै सदा ।
तदा निस्तेजसो दैत्याः सम्भविष्यन्त्यसंशयम् ॥४७॥
तवोदरेऽहं दाक्षेयि सम्भविष्यामि वै यदा ।
तदा निस्तेजसो दैत्याः सम्भविष्यन्त्यसंशयम् ॥४८॥
इत्येवमुक्त्वा भगवान् विवेश तस्याश्च भूयोऽरिगणप्रमर्दी ।
स्वतेजसोंऽशेन विवेश देव्याः तदोदरे शक्रहिताय विप्र ॥४९॥