नारद उवाच
कथं कात्यायनी देवी सानुगं महिषासुरम् ।
सवाहनं हतवती तथा विस्तरतो वद ॥१॥
एतच्च संशयं ब्रह्मन् हदि मे परिवर्तते ।
विद्यामानेषु शस्त्रेषु यत्पदभ्यां तममर्दयत् ॥२॥
पुलस्त्य उवाच
श्रृणुष्वावाहितो भूत्वा कथामेतां पुरातनीम् ।
वृत्तां देवयुगस्यादौ पुण्यां पापभयापहाम् ॥३॥
एवं स नमरः क्रुद्धः समापतत वेगवान् ।
सगजाश्वरथो ब्रह्मन् दृष्टो देव्या यथेच्छया ॥४॥
ततो बाणगणैर्दैत्यः समानम्याथ कार्मुकम् ।
ववर्ष शैलं धारौघैर्द्योरिवाम्बुदवृष्टिभिः ॥५॥
शरवर्षेण तेनाथ विलोक्याद्रिं समावृतम ।
क्रुद्धा भगवती वेगादाचकर्ष धनुर्वरम् ॥६॥
तद्धनुर्दानवे सैन्ये दुर्गया नामितं बलात् ।
सुवर्णपृष्ठं विबभौ विद्युदम्बुधरेष्विव ॥७॥
बाणैः सुररिपूनन्यान् खङ्गेनान्यान् शुभव्रत ।
गदया मुसलेनान्यांश्चर्मणाऽन्यानपातयत् ॥८॥
एकोऽप्यसौ बहून् देव्याः केसरी कालसंनिभः ।
बिधुन्वन केसरसटां निषूदयति दानवान् ॥९॥
कुलिशाभिहता दैत्याः शक्त्या निर्भिन्नवक्षसः ।
लाङ्गलैर्दारितग्रीवा विनिकृत्वाः परश्वर्धैः ॥१०॥
दण्डनिर्भिन्नशिरसश्चकविच्छिन्नबन्धनाः ।
चेलुः पेतुश्च मम्लुश्च तत्यजुश्चापरे रणम् ॥११॥
ते वध्यमाना रौद्रया दुर्गया दैत्यदानवाः ।
कालरात्रिं मन्यमाना दुद्रुवुर्भयपीडिताः ॥१२॥
सैन्याग्रं भग्नमालोक्य दुर्गामग्ने तथा स्थिताम् ।
दृष्ट्वा जगाम नमरो मतकुञ्जरसंस्थितः ॥१३॥
समागम्य च वेगेन देव्याः शक्तिं मुमोच ह ।
त्रिशूलमपि सिंहा प्राणदो दानवो रणे ॥१४॥
तावापतत्नौ देव्या तु हुंकारेणाथ भस्मस्मात् ।
कृतावध गजेन्द्रेण गृहीतो मध्यतो हरिः ॥१५॥
अथोत्पत्य च वेगन तलेनाहत्य दानवम् ।
गतासुः कुञ्जरस्कन्धात् क्षिप्य देव्यै निवेदितः ॥१६॥
गृहीत्वा दानवं मध्ये ब्रह्मन कात्यायनी रुषा ।
सव्येन पाणिना भ्राम्य वादयत पटहं यथा ॥१७॥
ततोऽट्टहासं मुमुचे तादृशे वाद्यतां गते ।
हास्यात् समुद्भवंस्तस्या भूता नानाविधाऽद्भुताः ॥१८॥
केचिद व्याघ्रमुखा रौद्रा वृकाकारास्तथा परे ।
हयास्या महिषास्याश्च वराहवदनाः परे ॥१९॥
आखुकुक्कुटवक्त्राश्च गोऽजाविकमुखास्तथा ।
नाना क्त्राक्षिचरणा नानायुधधरास्तथा ॥२०॥
गायन्त्यन्ये हसन्त्यन्ये रमन्त्यन्ये तु संघशः ।
वादयन्त्यपरे तत्र स्तुवन्त्यन्ये तथाम्बिकाम् ॥२१॥
सा तैर्भूतगणैर्देवी सार्द्धं तददानवं बलम् ।
शातयामास चाक्रम्य यथा सस्यं महाशनिः ॥२२॥
सेनाग्रे निहते तस्मिन् तथा सेनाग्रगामिनि ।
चिक्षुरः सैन्यपालस्तु योधयामास देवताः ॥२३॥
कार्मुकं दृढमाकर्णमाकृष्य रथिनां वरः ।
ववर्ष शरजालानि यथा मेघो वसुंधराम् ॥२४॥
नादेन चैवाशनिसंनिभेन विषाणकोट्या त्वपरान् प्रमथ्य ।
दुद्राव सिंहं युधि हन्तुकामः ततोऽम्बिका क्रोधवशं जगाम ॥४०॥
ततः स कोपादथ तीक्ष्णश्रृङ्गः क्षिप्रं गिरीन् भूमिमशीर्णयच्च ।
संक्षोभयंस्तोयनिधीन् घनांश्च विध्वंसयन् प्राद्रवताथ दुर्गाम् ॥४१॥
सा चाथ पाशेन बबन्ध दुष्टं स चाप्यभूत् क्लिन्नकटः करीन्द्रः ।
करं प्रचिच्छेद च हस्तिनोऽग्रं स चापि भूयो महिषोऽभिजातः ॥४२॥
ततोऽस्य शूलं व्यसृजन्मृडानी स शीर्णमूलो न्यपतत् पृथिव्याम् ।
शक्तिं प्रचिक्षेप हुताशदत्तां सा कुण्ठिताग्रा न्यपतन्महर्षे ॥४३॥
चक्रं हरेर्दानवचक्रहन्तुः क्षिप्तं त्वचक्रत्वमुपागतं हि ।
गदां समाविध्य धनेश्वरस्य क्षिप्ता तु भग्ना न्यपतत पृथिव्याम् ॥४४॥
जलेशपाशोऽपि महासुरेण विषाणतुण्डाग्रखुरप्रणुन्नः ।
निरस्य तत्कोपितया च मुक्तो दण्डस्तु याम्यो बहुखण्डतां गतः ॥४५॥
वज्रं सुरेन्द्रस्य च विग्रहेऽस्य मुक्तं सुसूक्ष्मत्वमुपाजगाम ।
संत्यज्य सिंहं महिषासुरस्य दुर्गाऽधिरुढा सहसैव पृष्ठम् ॥४६॥
पृष्ठस्थितायां महिशासुरोऽपि पोप्लूयते वीर्यमदान्मृडान्याम् ।
सा चापि पदभ्यां मृदुकोमलाभ्यां ममर्द तं क्लिन्नमिवाजिनं हि ॥४७॥
स मृद्यमानो धरणीधराभो देव्या बली हीनबलो बभूव ।
ततोऽस्य शूलेन बिभेद कण्ठं तस्मात् पुमान् खङ्गधरो विनिर्गतः ॥४८॥
निष्क्रान्तमात्रं हदये पदा तं आहत्य संगृह्य कचेषु कोपात् ।
शिरः प्रचिच्छेद वरासिनाऽस्य हाहाकृतं दैत्यबलं तदाऽभूत् ॥४९॥
सचण्डमुण्डाः समयाः सताराः सहासिलोम्ना भयकातराक्षाः ।
संताड्यमानाः प्रमथैर्भवान्याः पातालमेवाविविशुर्भयार्ताः ॥५०॥
देव्या जयं देवगणा विलोक्य स्तुवन्ति देवीं स्तुतिभिर्महर्षे ।
नारायणीं सर्वजगत्प्रतिष्ठां कात्यायनीं घोरमुखी सुरुपाम् ॥५१॥
संस्तूयमाना सुरसिद्धसंघैर्निषण्णभूता हरपादमूले ।
भूयो भविष्याम्यमरार्थमेवमुक्त्वा सुरांस्तान् प्रविवेश दुर्गा ॥५२॥