पुलस्त्य उवाच
इरावतीमनुप्राप्य पुण्यां तामृषिकन्यकाम् ।
स्त्रात्वा सम्पूजयामास चैत्राष्टम्यां जनार्दनम् ॥१॥
नक्षत्रपुरुषं चीर्त्वा व्रतं पुण्यप्रदं शुचिः ।
जगाम स कुरुक्षेत्रं प्रह्लादो दानवेश्वरः ॥२॥
ऐरावतेन मन्त्रेण चक्रतीर्थं सुदर्शनम् ।
उपामन्त्र्य ततः सस्त्रौ वेदोक्तविधिना मुने ॥३॥
उपोष्य क्षणदां भक्त्या पूजयित्वा कुरुध्वजम् ।
कृतशौचो जगामाथ द्रष्टुं पुरुषकेसरिम् ॥४॥
स्त्रात्वा तु देविकायां च नृसिंह प्रतिपूज्य च ।
तत्रोष्य रजनीमेकां गोकर्णं दानवो ययौ ॥५॥
तस्मिन् स्त्रात्वा तथा प्राचीं पूज्येशं विश्वकर्मिणम् ।
प्राचीने चापरे दैत्यो द्रष्टुं कामेश्वरं ययौ ॥६॥
तत्र स्त्रात्वा च दृष्ट्वा च पूजयित्वा च शङ्करम् ।
द्रष्टुं ययौ च प्रह्लादः पुण्डरीकं महाम्भसि ॥७॥
तत्र स्त्रात्वा च दृष्ट्वा च संतर्प्य पितृदेवताः ।
पुण्डरीकं च सम्पूज्य उवास दिवसत्रयम् ॥८॥
विशाखयूपे तदनु दृष्ट्वा देवं तथाजितम् ।
स्त्रात्वा तथा कृष्णतीर्थे त्रिरात्रं न्यवसच्छुचिः ॥९॥
ततो हंसपदे हंसं दृष्ट्वा सम्पूज्य चेश्वरम् ।
जगामासौ पयोष्णायामखण्डं द्रष्टुमीश्वरम् ॥१०॥
स्त्रात्वापयोष्ण्याः सलिले पूज्याखण्डं जगत्पतिम् ।
द्रष्टुं जगाम मतिमान् वितस्तायां कुमारिलम् ॥११॥
तत्र स्त्रात्वाऽर्च्य देवेशं बालखिल्यैर्मरीचिपैः ।
आराध्यमानं यद्यत्र कृतं पापप्रणाशनम् ॥१२॥
यत्र सा सुरभिर्देवी स्वसुतां कपिलां शुभाम् ।
देवप्रियार्थमसृजद्धितार्थ जगतस्तथा ॥१३॥
तत्र देवह्नदे स्त्रात्वा शम्भुं सम्पूज्य भक्तितः ।
विधिवद्दधि च प्राश्य मणिमन्तं ततो ययौ ॥१४॥
तत्र तीर्थवरे स्त्रात्वा प्राजापत्ये महामतिः ।
ददर्श शम्भुं ब्रह्माणं देवेशं च प्रजापतिम् ॥१५॥
विधानतस्तु तान् देवान् पूजयित्वा तपोधन ।
षडरात्रं तत्र च स्थित्वा जगाम मधुनन्दिनीम् ॥१६॥
मधुमत्सलिले स्त्रात्वा दैवं चक्रधरं हरम् ।
शूलबाहुं च गोविन्दं ददर्श दनुपुङ्गवः ॥१७॥
नारद उवाच
किमर्थं भगवान् शम्भुर्दधाराथ सुदर्शनम् ।
शूलं तथा वासुदेवो ममैतद ब्रूहि पृच्छतः ॥१८॥
पुलस्त्य उवाच
श्रूयतां कथयिष्यामि कथामेतां पुरातनीम् ।
कथयामास यां विष्णुर्भविष्यमनवे पुरा ॥१९॥
जलोद्भवो नाम महासुरेन्द्रो घोरं स तप्त्वा तप उग्रवीर्यः ।
आराधयामास विरञ्चिमारात् स तस्य तुष्टो वरदो बभूव ॥२०॥
देवासुराणामजयो महाहवे निजैश्च शस्त्रैरमरैरवध्यः ।
ब्रह्मर्षिशापैश्च निरीप्सितार्थो जले च वह्नौ स्वगुणोपहर्ता ॥२१॥
एवम्प्रभावो दनुपुङ्गवोऽसौ देवान् महर्षीन् नृपतीन् समग्रान् ।
आबाधमानो विचचार भूम्यां सर्वाः क्रिया नाशयदुग्रमूर्तिः ॥२२॥
ततोऽमरा भूमिभवाः सभूपाः जग्मुः शरण्यं हरिमीशितारम् ।
तैश्चापि सार्द्धं भगवाञ्जगाम हिमालयं यत्र हरस्त्रिनेत्रः ॥२३॥
सम्मन्त्र्य देवर्षिहितं च कार्यं मतिं च कृत्वा निधनाय शत्रोः ।
निजायुधानां च विपर्ययं तौ देवाधिपौ चक्रतुरुग्रकर्मणौ ॥२४॥
ततश्चासौ दानवो विष्णुशर्वो समायातौ तज्जिघांसू सुरेशौ ।
मत्वाऽजेयौ शत्रुभिर्घोररुपौ भयात्तोये निम्नगायां विवेश ॥२५॥
ज्ञात्वा प्रनष्टं त्रिदिवेन्द्रशत्रुं नदीं विशालां मधुमत्सुपुण्याम् ।
द्वयोः सशस्त्रौ तटयोर्हरीशौ प्रच्छन्नमूर्ती सहसा बभूवतुः ॥२६॥
जलोद्भवश्चापि जलं विमुच्य ज्ञात्वा गतौ शङ्करवासुदेवौ ।
दिशसम्मीक्ष्य भयकातराक्षो दुर्गं हिमाद्रिं च तदारुरोह ॥२७॥
महीध्रश्रृङ्गोपरि विष्णुशम्भू चञ्चूर्यमाणं स्वरिपुं च दृष्ट्वा ।
वेगादुर्बौ दुद्रुवतुः सशस्त्रौ विष्णुस्त्रिशूली गिरिशश्च चक्री ॥२८॥
ताभ्यां स दृष्टस्त्रिदशोत्तमाभ्यां चक्रेण शूलेन च भिन्नदेहः ।
पपात शैलात् तपनीयवर्णो यथाऽन्तरिक्षाद विमला च तारा ॥२९॥
एवं त्रिशूलं च दधार विष्णुश्चक्रं त्रिनेत्रोऽप्यरिसूदनार्थम् ।
यत्राघहन्त्री ह्यभवद वितस्ता हराङ्घिपाताच्छिशिराचलात्तु ॥३०॥
तत्प्राप्य तीर्थं त्रिदशाधिपाभ्यां पूजां च कृत्वा हरिशङ्कराभ्याम् ।
उपोष्य भक्त्या हिमवन्तमागाद द्रष्टुं गिरीशं शिवविष्णुगुप्तम् ॥३१॥
तं समभ्यर्च्य विधिवद दत्त्वा दानं द्विजातिषु ।
विस्तृते हिमवत्पादे भृगुतुङ्गं जगाम सः ॥३२॥
यत्रेश्वरो देववरस्य विष्णोः प्रादाद्रथाङ्गप्रवरायुधं वै ।
येन प्रचिच्छेद त्रिधैव शङ्करं जिज्ञासमानोऽस्त्रबलं महात्मा ॥३३॥