पुलस्त्य उवाच
गत्वा रसातलं दैत्यो महार्हमणिचित्रितम् ।
शुद्धस्फटिकसोपानं कारयामास वै पुरम् ॥१॥
तत्र मध्ये सुविस्तीर्णः प्रासादो वज्रवेदिकः ।
मुक्ताजालान्तरद्वारो निर्मितो विश्वकर्मणा ॥२॥
तत्रास्ते विविधान् भोगान् भुञ्जन् दिव्यान् स मानुषान् ।
नाम्ना विन्ध्यावलीत्येवं भार्याऽस्य दयिताऽभवत् ॥३॥
युवतीनां सहस्त्रस्य प्रधाना शीलमण्डिता ।
तया सह महातेजा रेमे वैरोचनिर्मुने ॥४॥
भोगासक्तस्य दैत्यस्य वसतः सुतले तदा ।
दैत्यतेजोहरः प्राप्तः पाताले वै सुदर्शनः ॥५॥
चक्रे प्रविष्टे पातालं दानवानां पुरे महान् ।
बभौ हलहलाशब्दः क्षुभितार्णवसंनिभः ॥६॥
तं च श्रुत्वा महाशब्दं बलिः खङ्गं समाददे ।
आः किमेतदितीत्थं च पप्रच्छासुरपुड्गवः ॥७॥
ततो विन्ध्यावली प्राह सान्त्वयन्ती निजं पतिम् ।
कोशे खड्गं समावेश्य धर्मपत्नी शुचिव्रता ॥८॥
एतद् भगवतश्चकं दैत्यचक्रक्षयंकरम् ।
सम्पूजनीयं दैत्येन्द्र वामनस्य महात्मनः ।
इत्येवमुक्त्वा चार्वड्गी सार्घपात्रा विनिर्ययौ ॥९॥
अथाभ्यागात् सहस्त्रारं विष्णोश्चक्रं सुदर्शनम् ।
ततोऽसुरपतिः प्रह्वः कृताञ्जलिपुटो मुने ।
सम्पूज्य विधिवच्चक्रमिदं स्तोत्रमुदीरयत् ॥१०॥
बलिरुवाच
नमस्यामि हरेश्चक्रं दैत्यचक्रविदारणम् ।
सहस्त्रांशुं सहस्त्राभं सहस्त्रारं सुनिर्मलम् ॥११॥
नमस्यामि हरेश्चकं यस्य नाभ्यां पितामहः ।
तुण्डे त्रिशूलधृक् शर्व आरामूले महाद्रयः ॥१२॥
आरेषु संस्थिता देवाः सेन्द्राः सार्काः सपावकाः ।
जवे यस्य स्थितो वायुरापोऽग्निः पृथिवी नभः ॥१३॥
आरप्रान्तेषु जीमूताः सौदामिन्यृक्षतारकाः ।
बाह्यतो मुनयो यस्य बालखिल्यादयस्तथा ॥१४॥
तमायुधवरं वन्दे वासुदेवस्य भक्तितः ।
यन्मे पापं शरीरोत्थं वाग्जं मानसमेव च ॥१५॥
तन्मे दहस्व दीप्तांशो विष्णोश्चक्र सुदर्शन ।
यन्मे कुलोद्भवं पापं पैतृकं मातृकं तथा ॥१६॥
तन्मे हरस्व तरसा नमस्ते अच्युतायुध ।
आधयो मम नश्यन्तु व्याधयो यान्तु संक्षयम् ।
त्वन्नामकीर्तनाच्चक्र दुरितं यातु संक्षयम् ॥१७॥
इत्येवमुक्त्वा मतिमान् समभ्यर्च्याथ भक्तितः ।
संस्मरन् पुण्डरीकाक्षं सर्वपापप्रणाशनम् ॥१८॥
पूजितं बलिना चक्रं कृत्वा निस्तेजसोऽसुरान् ।
निश्चक्रामाथ पातालाद विषुवे दक्षिणे मुने ॥१९॥
सुदर्शने निर्गते तु बलिर्विक्लवतां गतः ।
परमामापदं प्राप्य सस्मार स्वपितामहम् ॥२०॥
स चापि संस्मृतः प्राप्तः सुतलं दानवेश्वरः ।
दृष्ट्वा तस्थौ महातेजाः सार्घपात्रो बलिस्तदा ॥२१॥
तमर्च्य विधिना ब्रह्मन् पितुः पितरमीश्वरम् ।
कृताञ्जलिपुटो भूत्वा इदं वचनमब्रवीत् ॥२२॥
संस्मृतोऽसि मया तात सुविषण्णेन चेतसा ।
तन्मे हितं च पथ्यं च श्रेयोऽग्र्यं वद तात मे ॥२३॥
किं कार्यं तात संसारे वसता पुरुषेण हि ।
कृतेन येन वै नास्य बन्धः समुपजायते ॥२४॥
संसारार्णवमग्नानां नराणामल्पचेतसाम् ।
तरणे यो भवेत् पोतस्तन्मे व्याख्यातुमर्हसि ॥२५॥
पुलस्त्य उवाच
एतद्वचनमाकर्ण्य तत्पौत्राद दानवेश्वरः ।
विचिन्त्य प्राह वचनं संसारे यद्धितं परम् ॥२६॥
प्रह्लाद उवाच
साधु दानवशार्दूल यत्ते जाता मतिस्त्वियम् ।
प्रवक्ष्यामि हितं तेऽद्य तथाऽन्येषां हितं बले ॥२७॥
भवजलधिगतानां द्वन्द्ववाताहतानां सुतदुहितृकलत्रत्राणभारर्दितानाम् ।
विषमविषयतोये मज्जतामप्लवानां भवति शरणमेको विष्णुपोतो नराणाम् ॥२८॥
ये संश्रिता हरिमनन्तमनादिमध्यं नारायणं सुरगुरुं शुभदं वरेण्यम् ।
शुद्धं खगेन्द्रगमनं कमलालयेशं ते धर्मराजकरणं न विशन्ति धीराः ॥२९॥
स्वपुरुषभिवीक्ष्य पाशहस्तं वदति यमः किल तस्य कर्णमूले ।
परिहर मधुसूदनप्रपन्नान् प्रभुरहमन्यनृणां न वैष्णवानाम् ॥३०॥
तथाऽन्यदुक्तं नरसत्तमेन इक्ष्वाकुणा भक्तियुतेन नूनम् ।
ये विष्णुभक्ताः पुरुषाः पृथिव्यां यमस्य ते निर्विषया भवन्ति ॥३१॥
सा जिह्वा या हरिं स्तौति तच्चित्तं यत्तदर्पितम् ।
तावेव केवलं श्लाघ्यौ यौ तत्पूजाकरौ करौ ॥३२॥
नूनं न तौ करौ प्रोक्तौ वृक्षशाखाग्रपल्लवौ ।
न यौ पूजयितुं शक्तौ हरिपादाम्बुजद्वयम् ॥३३॥
नूनं तत्कण्ठशालूकमथवा प्रतिजिह्वका ।
रोगो वाऽन्यो न सा जिह्वा या न वक्ति हरेर्गुणान् ॥३४॥
शोचनीयः स बन्धूनां जीवन्नपि मृतो नरः ।
यः पादपड्कजं विष्णोर्न पूजयति भक्तितः ॥३५॥
ये नरा वासुदेवस्य सततं पूजने रताः ।
मृता अपि न शोच्यास्ते सत्यं सत्यं मयोदितम् ॥३६॥
शारीरं मानसं वाग्जं मूर्तामूर्तं चराचरम् ।
दृश्यं स्पृश्यमदृश्यं च तत्सर्वं केशवात्मकम् ॥३७॥
येनार्चितो हि भगवान् चतुर्धा वै त्रिविक्रमः ।
तेनार्चिता न संदेहो लोकाः सामरदानवाः ॥३८॥
यथा रत्नानि जलधेरसंख्येयानि पुत्रक ।
तथा गुणा हि देवस्य त्वसंख्यातास्तु चक्रिणः ॥३९॥
ये शड्खचक्राब्जकरं सशार्ड्गिणं खगेन्द्रकेतुं वरदं श्रियः पतिम् ।
समाश्रयन्ते भवभीतिनाशनं संसारगर्ते न पतन्ति ते पुनः ॥४०॥
येषां मनसि गोविन्दो निवासी सततं बले ।
न ते परिभवं यान्ति न मृत्योरुद्विजन्ति च ॥४१॥
देवं शार्ड्गधरं विष्णुं ये प्रपन्नाः परायणम् ।
न तेषां यमसालोक्यं न च ते नरकौकसः ॥४२॥
न तां गतिं प्राप्नुवन्ति श्रुतिशास्त्रविशारदाः ।
विप्रा दानवशार्दूल विष्णुभक्ता व्रजन्ति याम् ॥४३॥
या गतिर्दैत्यशार्दूल हतानां तु महाहवे ।
ततोऽधिकां गतिं यान्ति विष्णुभक्ता नरोत्तमाः ॥४४॥
या गतिर्धर्मशीलानां सात्त्विकानां महात्मनाम् ।
सा गतिर्गदिता दैत्य भगवत्सेविनामपि ॥४५॥
सर्वावासं वासुदेवं सूक्ष्मव्यक्तविग्रहम् ।
प्रविशन्ति महात्मानं तद्भक्ता नान्यचेतसः ॥४६॥
अनन्यमनसो भक्त्या ये नमस्यन्ति केशवम् ।
शुचयस्ते महात्मानस्तीर्थभूता भवन्ति ते ॥४७॥
गच्छनतिष्ठनस्वपञजाग्रतपिबन्नश्नन्नभीक्ष्णशः ।
ध्यायन् नारायणं यस्तु न ततोऽन्योस्ति पुण्यभाक् ।
वैकुण्ठं खड्गपरशुं भवबन्धसमुच्छिदम् ॥४८॥
प्रणिपत्य यथान्यायं संसारे न पुनर्भवेत् ।
क्षेत्रेषु वसते नित्यं क्रीडन्नास्तेऽमितद्युतिः ॥४९॥
आसीनः सर्वदेहेषु कर्मभिर्न स बध्यते ।
येषां विष्णुः प्रियो नित्यं ते विष्णोः सततं प्रियाः ॥५०॥
न ते पुनः सम्भवन्ति तद्भक्तास्तत्परायणाः ।
ध्यायेद दामोदरं यस्तु भक्तिनम्रोऽर्चयेत वा ॥५१॥
न स संसारपड्केऽस्मिन् मज्जते दानवेश्वर ।
कल्यमुत्थाय ये भक्त्या स्मरन्ति मधुसूदनम् ।
स्तुवन्त्यप्यभिश्रृण्वन्ति दुर्गाण्यतितरन्ति ते ॥५२॥
हरिवाक्यामृतं पीत्वा विमलैः श्रोत्रभाजनैः ।
प्रहष्यति मनो येषां दुर्गाण्यतितरन्ति ते ॥५३॥
येषां चक्रगदापाणौ भक्तिरव्यभिचारिणी ।
ते यान्ति नियतं स्थानं यत्र योगेश्वरो हरिः ॥५४॥
विष्णुकर्मप्रसक्तानां भक्तानां या परा गतिः ।
सा तु जन्मसहस्त्रेण न तपोभीरवाप्यते ॥५५॥
किं जप्यैस्तस्य मन्त्रैर्वा किं तपोभिः किमाश्रमैः ।
यस्य नास्ति परा भक्तिः सततं मधुसूदने ॥५६॥
वृथा यज्ञा वृथा वेदा वृथा दानं वृथा श्रुतम् ।
वृथा तपश्च कीर्तिश्च यो द्वेष्टि मधुसूदनम् ॥५७॥
किं तस्य बहुभिर्मन्त्रैर्भक्तिर्यस्य जनार्दने ।
नमो नारायणायेति मन्त्रः सर्वार्थसाधकः ॥५८॥
विष्णुरेव गतिर्येषां कुतस्तेषां पराजयः ।
येषामिन्दीवरश्यामो हदयस्थो जनार्दनः ॥५९॥
सर्वमङ्गलमाड्गल्यं वरेण्यं वरदं प्रभुम् ।
नारायणं नमस्कृत्य सर्वकर्माणि कारयेत् ॥६०॥
विष्टयो व्यतिपाताश्च येऽन्ये दुर्नीति सम्भवाः ।
ते नामस्मरणाद्विष्णोर्नाशं यान्ति महासुर ॥६१॥
तीर्थकोटिसहस्त्राणि तीर्थकोटिशतानि च ।
नारायणप्रणामस्य कलां नार्हन्ति षोडशीम् ॥६२॥
पृथिव्यां यानि तीर्थानि पुण्यान्यायतनानि च ।
तानि सर्वाण्यवाप्नोति विष्णोर्नमानुकीर्तनात् ॥६३॥
प्राप्नुवन्ति न ताँल्लोकान् व्रतिनो वा तपस्विनः ।
प्राप्यन्ते ये तु कृष्णस्य नमस्कारपरैर्नरैः ॥६४॥
योऽप्यन्यदेवताभक्तो मिथ्यार्चयति केशवम् ।
सोऽपि गच्छति साधूनां स्थानं पुण्यकृतां महत् ॥६५॥
सातत्येन हषीकेशं पूजयित्वा तु यत्फलम् ।
सुचीर्णतपसां नृणां तत् फलं न कदाचन ॥६६॥
त्रिसन्ध्यं पद्मनाभं तु ये स्मरन्ति सुमेधसः ।
ते लभन्त्युपवासस्य फलं नास्त्यत्र संशयः ॥६७॥
सततं शास्त्रदृष्टेन कर्मणा हरिमर्चय ।
तत्प्रसादात् परां सिद्धिं बले प्राप्स्यसि शाश्वतीम् ॥६८॥
तन्मना भव तद्भक्तस्तद्याजी तं नमस्कुरु ।
तमेवाश्रित्य देवेशं सुखं प्राप्स्यसि पुत्रक ॥६९॥
आद्यं ह्यनन्तमजरं हरिमव्ययं च ये वै स्मरन्त्यहरहर्नृवरा भुविस्थाः ।
सर्वत्रगं शुभदं ब्रह्ममयं पुराणं ते यान्ति वैष्णवपदं ध्रुवमक्षयञ्च ॥७०॥
ये मानवा विगतरागपरापरज्ञा नारायणं सुरगुरुं सततं स्मरन्ति ।
ते धौतपाण्डुरपुटा इव राजहंसाः संसारसागरजलस्य तरन्ति पारम् ॥७१॥
ध्यायन्ति ये सततमच्युतमीशितारं निष्कल्मषं प्रवरपद्मदलायताक्षम् ।
ध्यायेन तेन हतकिल्बिषवेदनास्ते मातुः पयोधररसं न पुनः पिबन्ति ॥७२॥
ये कीर्तयन्ति वरदं वरपद्मनाभं शड्खाब्जचक्रवरचापगदासिहस्तम् ।
पद्मालयावदनपड्कजषटपदाख्यं नूनं प्रयान्ति सदनं मधुघातिनस्ते ॥७३॥
श्रृण्वन्ति ये भक्तिपरा मनुष्याः संकीर्त्यमानं भगवन्तमाद्यम् ।
ते मुक्तपापाः सुखिनो भवन्ति यथाऽमृतप्राशनतर्पितास्तु ॥७४॥
तस्माद ध्यानं स्मरणं कीर्तनं वा नाम्नां श्रवणं पठतां सज्जनानाम् ।
कार्यं विष्णोः श्रद्दधानैर्मनुष्यैः पूजातुल्यं तत् प्रशंसन्ति देवाः ॥७५॥
बाह्यैस्तथाऽन्तः करणैरविक्लवैर्यो नार्चयेत् केशवमीशितारम् ।
पुष्पैश्च पत्रैर्जलपल्लवादिभिर्नूनं स मुष्टो विधितस्करेण ॥७६॥