दण्डक - अरजाके प्रसङ्गमें शुक्रद्वारा दण्डकको शाप, प्रह्लादका अन्धकको उपदेश और अन्धक - शिव - सन्दर्भ
अरजा उवाच
नात्मानं तव दास्यामि बहुनोक्तेन किं तव ।
रक्षन्ती भवतः शापादात्मानं च महीपते ॥१॥
प्रह्लाद उवाच
इत्थं विवदमानां तां भार्गवेन्द्रसुतां बलात् ।
कामोपहतचित्तात्मा व्यध्वंसयत मन्दधीः ॥२॥
तां कृत्वा च्युतचारित्रां मदान्धः पृथिवीपतिः ।
निश्चक्रामाश्रमात् तस्माद् गतश्च नगरं निजम् ॥३॥
साऽपि शुक्रसुता तन्वी अरजा रजसाप्लुता ।
आश्रमादथ निर्गत्य बहिस्तस्थावधोमुखी ॥४॥
चिन्तयन्ती स्वपितरं रुदती च मुहुर्मुहुः ।
महाग्रहोपतप्तेव रोहिणी शशिनः प्रिया ॥५॥
ततो बहुतिथे काले समाप्ते यज्ञकर्मणि ।
पातालादागमच्छुक्रः स्वमाश्रमपदं मुनिः ॥६॥
आश्रमान्ते च ददृशे सुतां दैत्य रजस्वलाम् ।
मेघलेखामिवाकाशे संध्यारागेण रञ्जिताम् ॥७॥
तां दृष्ट्वा परिपप्रच्छ पुत्रि केनासि धर्षिता ।
कः क्रीडति सरोषेण सममाशीविषेण हि ॥८॥
कोऽद्यैव याम्यां नगरीं गमिष्यति सुदुर्मतिः ।
कस्त्वा शुद्धसमाचारां विध्वंसयति पापकृत् ॥९॥
ततः स्वपितरं दृष्ट्वा कम्पमाना पुनः पुनः ।
रुदन्ती व्रीडयोपेता मन्दं मन्दमुवाच ह ॥१०॥
तव शिष्येण दण्डेन वार्यमाणेन चासकृत् ।
बलादनाथा रुदती नीताऽहं वचनीयताम् ॥११॥
एतत् पुत्र्या वचः श्रुत्वा क्रोधसंरक्तलोचनः ।
उपस्पृश्य शुचिर्भूत्वा इदं वचनमब्रवीत् ॥१२॥
यस्मात् तेनाविनीतेन मत्तो ह्यभयमुत्तमम् ।
गौरवं च तिरस्कृत्य च्युतधमाऽरजा कृता ॥१३॥
तस्मात् सराष्ट्रः सबलः सभृत्यो वाहनैः सह ।
सप्तरात्रान्तराद भस्म ग्राववृष्टया भविष्यति ॥१४॥
इत्येवमुक्त्वा मुनिपुङ्गवोऽसौ शप्त्वा स दण्डं स्वसुतामुवाच ।
त्वं पापमोक्षार्थमिहैव पुत्रि तिष्ठस्व कल्याणि तपश्चरन्ती ॥१५॥
शप्तेथं भगवाञ शुक्रो दण्डमिक्ष्वाकुनन्दनम् ।
जगाम शिष्यसहितः पातालं दानवालयम् ॥१६॥
दण्डोऽपि भस्मसाद भूतः सराष्ट्रबलवाहनः ।
महता ग्राववर्षेण सप्तरात्रान्तरे तदा ॥१७॥
एवं दण्डकारण्यं परित्यजन्ति देवताः ।
आलयं राक्षसानां तु कृतं देवेन शम्भुना ॥१८॥
एवं परकलत्राणि नयन्ति सुकृतीनपि ।
भस्मभूतान् प्राकृतांस्तु महान्तं च पराभवम् ॥१९॥
तस्मादन्धक दुर्बुद्धिर्न कार्या भवता त्वियम् ।
प्राकृताऽपि दहेन्नारी किमुताहोद्रिनन्दिनी ॥२०॥
शङ्करोऽपि न दैत्येश शक्यो जेतुं सुरासुरैः ।
द्रष्टुमप्यमितौजस्कः किमु योधयितुं रणे ॥२१॥
पुलस्त्य उवाच
इत्येवमुक्ते वचने क्रुद्धस्ताम्रेक्षणः श्वसन् ।
वाक्यमाह महातेजाः प्रह्लादं चान्धकासुरः ॥२२॥
किं ममासौ रणे योद्धुं शक्तस्त्रिणयनोऽसुर ।
एकाकी धर्मरहितो भस्मारुणितविग्रहः ॥२३॥
नान्धको बिभियादिन्द्रान्नामरेभ्यः कथंचन ।
स कथं वृषपत्राक्षाद बिभेति स्त्रीमुखेक्षकात् ॥२४॥
तच्छुत्वाऽस्य वचो घोरं प्रह्लादः प्राह नारद ।
न सम्यगुक्तं भवता विरुद्धं धर्मतोऽर्थतः ॥२५॥
हुताशनपतङ्गाभ्यां सिंहक्रोष्टुकयोरिव ।
गजेन्द्रमशकाभ्यां च रुक्मपाषाणयोरिव ॥२६॥
एतेषाभिरुदितं यावदन्तरमन्धक ।
तावदेवान्तरं चास्ति भवतो वा हरस्य च ॥२७॥
वारितोऽसि मया वीर भूयो भूयश्च वार्यसे ।
श्रृणुष्व वाक्यं देवर्षेरसितस्य महात्मनः ॥२८॥
यो धर्मशीलो जितमानरोषो विद्याविनीतो न परोपतापी ।
स्वदारतुष्टः परदारवजीं न तस्य लोके भयमस्ति किंचित् ॥२९॥
यो धर्महीनः कलहप्रियः सदा परोपतापी श्रुतिशास्त्रवर्जितः ।
परार्थदारेप्सुरवर्णसंगमी सुखं न विन्देत परत्र चेह ॥३०॥
धर्मान्वितोऽभूद भगवान् प्रभाकरः संत्यक्तरोषश्च मुनिः स वारुणिः ।
विद्याऽन्वितोऽभून्मनुरर्कपुत्रः स्वदारसंतुष्टमनास्त्वगस्त्यः ॥३१॥
एतानि पुण्यानि कृतान्यमीभिर्मया निबद्धानि कुलक्रमोक्त्या ।
तेजोऽन्विताः शापवरक्षमाश्च जाताश्च सर्वे सुरसिद्धपूज्याः ॥३२॥
अधर्मऽयुक्तोऽङ्गसुतो बभूव विभुश्च नित्यं कलहप्रियोऽभूत ।
परोपतापी नमुचिर्दुरात्मा पराबलेप्सुर्नहुषश्च राजा ॥३३॥
परार्थलिप्सुर्दितिजो हिरण्यदृक् मूर्खस्तु तस्याप्यनुजः सुदुर्मतिः ।
अवर्णसंगी यदुरुत्तमौजा एते विनष्टास्त्वनयात् पुरा हि ॥३४॥
तस्माद् धर्मो न संत्याज्यो धर्मो हि परमा गतिः ।
धर्महीना नरा यान्ति रौरवं नरकं महत् ॥३५॥
धर्मस्तु गदितः पुम्भिस्तारने दिवि चेह च ।
पतनाय तथाऽधर्म इह लोके परत्र च ॥३६॥
त्याज्यं धर्मान्वितैर्नित्यं परदारोपसेवनम् ।
नयन्ति परदारा हि नरकानेकविंशतिम् ।
सर्वेषामपि वर्णानामेष धर्मो ध्रुवोऽन्धक ॥३७॥
परार्थपरदारेषु यदा वाञ्छां करिष्यति ।
स याति नरकं घोरं रौरवं बहुलाः समाः ॥३८॥
एवं पुराऽसुरपते देवर्षिरसितोऽव्ययः ।
प्राह धर्मव्यवस्थानं खगेन्द्रायारुणाय हि ॥३९॥
तस्मात् सुदुरतो वर्जेत् परदारान् विचक्षणः ।
नयन्ति निकृतिप्रज्ञं परदाराः पराभवम् ॥४०॥
पुलस्त्य उवाच
इत्येवमुक्ते वचने प्रह्लादं प्राह चान्धकः ।
भवान् धर्मपरस्त्वेको नाहं धर्मं समाचरे ॥४१॥
इत्येवमुक्त्वा प्रह्लादमन्धकः प्राह शम्बरम् ।
गच्छ शम्बर शैलेन्द्रं मन्दरं वद शङ्करम् ॥४२॥
भिक्षो किमर्थं शैलेन्द्रं स्वर्गतुल्यं सकन्दरम् ।
परिभुञ्जसि केनाद्य तव दत्तो वदस्व माम् ॥४३॥
तिष्ठन्ति शासने मह्यं देवाः शक्रपुरोगमाः ।
तत् किमर्थं निवससे मामनादृत्य मन्दरे ॥४४॥
यदीष्टस्तव शैलेन्द्रः क्रियतां वचनं मम ।
येयं हि भवतः पत्नी सा मे शीघ्रं प्रदीयताम् ॥४५॥
इत्युक्तः स त दा तेन शम्बरो मन्दरं द्रुतम् ।
जगाम तत्र यत्रास्ते सह देव्या पिनाकधृक् ॥४६॥
गत्वोवाचान्धकवचो याथातथ्यं दनोः सुतः ।
तमुत्तरं हरः प्राह श्रृण्वत्या गिरिकन्यया ॥४७॥
ममायं मन्दरो दत्तः सहस्त्राक्षेण धीमता ।
तन्न शक्नोम्यहं त्यक्तुं विनाज्ञां वृत्रवैरिणः ॥४८॥
यच्चाब्रवीद दीयतां मे गिरिपुत्रीति दानवः ।
तदेषा यातु स्वं कामं नाहं वारयितुं क्षमः ॥४९॥
ततोऽब्रवीद गिरिसुता शम्बरं मुनिसत्तम ।
ब्रूहि गत्वान्धकं वीर मम वाक्यं विपश्चितम् ॥५०॥
अहं पताका संग्रामे भवानीशश्च देविनौ ।
प्राणद्यूतं परिस्तीर्य जो जेष्यति स लप्स्यते ॥५१॥
इत्येवमुक्तो मतिमाञ शम्बरोऽन्धकमागमत् ।
समागम्याब्रवीद वाक्यं शर्वगौर्योश्च भाषितम् ॥५२॥
तच्छुत्वा दानवपतिः क्रोधदीप्तेक्षणः श्वसन् ।
समाहूयाब्रवीद वाक्यं दुर्योधनमिदं वचः ॥५३॥
गच्छ शीघ्रं महाबाहो भेरीं सान्नाहिकीं दृढाम् ।
ताडयस्व सुविश्रब्धं दुःशीलामिव योषितम् ॥५४॥
समादिष्टोऽन्धकेनाथ भेरीं दुर्योधनो बलात् ।
ताडयामास वेगेन यथा प्राणेन भूयसा ॥५५॥
सा ताडिता बलवता भेरी दुर्योधनेन हि ।
सत्वरं भैरवं रावं रुराव सुरभी यथा ॥५६॥
तस्यास्तं स्वरमाकर्ण्य सर्व एव महासुराः ।
समायाताः सभां तूर्णं किमेतदिति वादिनः ॥५७॥
याथातथ्यं च तान् सर्वानाह सेनापतिर्बली ।
ते चापि बलिनां श्रेष्ठाः सन्नद्धा युद्धकाङ्क्षिणः ॥५८॥
सहान्धका निर्ययुस्ते गजैरुष्ट्रैर्हयै रथैः ।
अन्धको रथमास्थाय पञ्चनल्वप्रमाणातः ॥५९॥
त्र्यम्बकं स पराजेतुं कृतबुद्धिर्विनिर्ययौ ।
जम्भः कुजम्भो हुण्डश्च तुहुण्डः शम्बरो बलिः ॥६०॥
बाणः कार्तस्वरो हस्ती सूर्यशत्रुर्महोदरः ।
अयः शंकुः शिबिः शाल्वो वृषपर्वा विरोचनः ॥६१॥
हयग्रीवः कालनेमिः संह्लादः कालनाशनः ।
शरभः शलभश्चैव विप्रचित्तिश्च वीर्यवान् ॥६२॥
दुर्योधनश्च पाकश्च विपाकः कालशम्बरौ ।
एते चान्ये च बहवो महावीर्या महाबलाः ।
प्रजग्मुरुत्सुका योद्धुं नानायुधधरा रणे ॥६३॥
इत्थं दुरात्मा दनुसैन्यपालस्तदान्धको योद्धुमना हरेण ।
महाचलं मन्दरमभ्युपेयिवान् स कालपाशावसितो हि मन्दधीः ॥६४॥