पुलस्त्य उवाच
हरोऽपि शम्बरे याते समाहूयाथ नन्दिनम् ।
प्राहामन्त्रय शैलादीन् ये स्थितास्तव शासने ॥१॥
ततो महेशवचनान्नन्दी तूर्णतरं गतः ।
उपस्पृश्य जलं श्रीमान् सस्मार गणनायकान् ॥२॥
नन्दिना संस्मृताः सर्वे गणनाथाः सहस्त्रशः ।
समुत्पत्य त्वरायुक्ताः प्रणतास्त्रिदशेश्वरम् ॥३॥
आगतांश्च गणान्नन्दी कृताञ्जलिपुटोऽव्ययः ।
सर्वान् निवेदयामास शङ्कराय महात्मने ॥४॥
नन्द्युवाच
यानेतान् पश्यसे शम्भो त्रिनेत्राञ्जटिलाञ्शुचीन् ।
एते रुद्रा इति ख्याताः कोटय एकादशैव तु ॥५॥
वानरास्यान् पश्यसे यान् शार्दूलसमविक्रमान् ।
एतेषां द्वारपालास्ते मन्नामानो यशोधनाः ॥६॥
षण्मुखानपश्यसे यांश्च शक्तिपाणीञ्शिखिध्वजान् ।
षट् च षष्टिस्तथा कोटयः स्कन्दनाम्नः कुमारकान् ॥७॥
एतावत्यस्तथा कोटयः शाखा नाम षडाननाः ।
विशाखास्तावदेवोक्ता नैगमेयाश्च शङ्कर ॥८॥
सप्तकोटिशतं शम्भो अमी वै प्रमथोत्तमाः ।
एकैकं प्रति देवेश तावत्यो ह्यपि मातरः ॥९॥
भस्मारुणितदेहाश्च त्रिनेत्राः शूलपाणयः ।
एते शैवा इति प्रोक्तास्तव भक्ता गणेश्वराः ॥१०॥
तथा पाशुपताश्चान्ये भस्मप्रहरणा विभो ।
एते गणास्त्वसंख्याताः सहायार्थं समागताः ॥११॥
पिनाकधारिणो रौद्रा गणाः कालमुखापरे ।
तव भक्ताः समायाता जटामण्डलिनोऽद्भुताः ॥१२॥
खटवाङ्गयोधिनो वीरा रक्तचर्मसमावृत्ताः ।
इमे प्राप्ता गणा योद्धुं महाव्रतिन उत्तमाः ॥१३॥
दिग्वाससो मौनिनश्च घण्टाप्रहरणास्तथा ।
निराश्रया नाम गणाः समायाता जगदगुरो ॥१४॥
सार्धद्विनेत्राः पद्माक्षाः श्रीवत्साङ्कितवक्षसः ।
समायाताः खरारुढा वृषभध्वजिनोऽव्ययाः ॥१५॥
महापाशुपता नाम चक्रशूलधरास्तथा ।
भैरवो विष्णुना सार्द्धमभेदेनार्चितो हि यैः ॥१६॥
इमे मृगेन्द्रवदनाः शूलबाणधनुर्धराः ।
गणास्त्वद्रोमसम्भूता वीरभद्रपुरोगमाः ॥१७॥
एते चान्ये च बहवः शतशोऽथ सहस्त्रशः ।
सहायार्थं तवायाता यथा प्रीत्यादिशस्व तान् ॥१८॥
ततोऽभ्येत्य गणाः सर्वे प्रणेमुर्वृषभध्वजम् ।
तान् करेणैव भगवान् समाश्वास्योपवेशयत् ॥१९॥
महापाशुपतान् दृष्ट्वा समुत्थाय महेश्वरः ।
सम्परिष्वजताध्यक्षांस्ते प्रणेमुर्महेश्वरम् ॥२०॥
ततस्तदद्भुततमं दृष्ट्वा सर्वे गणेश्वराः ।
सुचिरं विस्मिताक्षाश्च वैलक्ष्यमगमत् परम् ॥२१॥
विस्मिताक्षान् गणान् दृष्ट्वा शैलादिर्योगिनां वरः ।
प्राह प्रहस्य देवेशं शूलपाणिं गणाधिपम् ॥२२॥
विस्मितामी गणा देव सर्व एव महेश्वर ।
महापाशुपतानां हि यत् त्वयालिङ्गनं कृतम् ॥२३॥
तदेतेषां महादेव स्फुटं त्रैलोक्यविन्दकम् ।
रुपं ज्ञानं विवेकं च वदस्व स्वेच्छया विभो ॥२४॥
प्रमथाधिपतेर्वाक्यं विदित्वा भूतभावनः ।
बभाषे तान् गणान् सर्वान् भवाभावविचारिणः ॥२५॥
रुद्र उवाच
भवद्भिर्भक्तिसंयुक्तैर्हरो भावेन पूजितः ।
अहंकारविमूढैश्च निन्दद्भिर्वैष्णवं पदम् ॥२६॥
तेनाज्ञानेन भवतोनादृत्यानुविरोधिताः ।
योऽहं स भगवान् विष्णुर्विष्णुर्यः सोऽहमव्ययः ॥२७॥
नावयोर्वै विशेषोऽस्ति एका मूर्तिर्द्विधा स्थिता ।
तदमीभिर्नरव्याघ्रैर्भक्तिभावयुतैर्गणैः ॥२८॥
यथाहं वै परिज्ञातो न भवद्भिस्तथा ध्रुवम् ।
येनाहं निन्दितो नित्यं भवद्भिर्मूढबुद्धिभिः ॥२९॥
तेन ज्ञानं हि वै नष्टं नातस्त्वालिङ्गिता मया ।
इत्येवमुक्ते वचने गणाः प्रोचुर्महेश्वरम् ॥३०॥
कथं भवान् यथैक्येन संस्थितोऽस्ति जनार्दनः ।
भवान् हि निर्मलः शुद्धः शान्तः शुक्लो निरञ्जनः ॥३१॥
स चाप्यञ्जनसंकाशः कथं तेनेह युज्यते ।
तेषां वचनमर्थाढयं श्रुत्वा जीमूतवाहनः ॥३२॥
विहस्य मेघगम्भीरं गणानिदमुवाच ह ।
श्रूयतां सर्वमाख्यास्ये स्वयशोवर्द्धनं वचः ॥३३॥
न त्वेव योग्या यूयं हि महाज्ञानस्य कर्हिचित् ।
अपवादभयाद गुह्यं भवतां हि प्रकाशये ॥३४॥
प्रियत्वं मयि चैतेन यन्मच्चित्तास्तु नित्यशः ।
एकरुपात्मकं देहं कुरुध्वं यत्नमास्थिताः ॥३५॥
पयसां हविषाद्यैश्च स्त्रपनेन प्रयत्नतः ।
चन्दनादिभिरेकाग्रैर्न मे प्रीतिः प्रजायते ॥३६॥
यत्नात् क्रकचमादाय छिन्दध्वं मम विग्रहम् ।
नरकार्हा भवद्भक्ता रक्षामि स्वयशोऽर्थतः ॥३७॥
माऽयं वदिष्यते लोको महान्तमपवादिनम् ।
यथा पतान्ति नरके हरभक्तास्तपस्विनः ॥३८॥
व्रजन्ति नरकं घोरमित्येवं परिवादिनः ।
अतोऽर्थ न क्षिपाम्यद्य भवतो नरकेऽद्भुते ॥३९॥
यन्निन्दध्वं जगन्नाथं पुष्कराक्षं च मन्मयम् ।
स चैव भगवाञ्शर्वः सर्वव्यापी गणेश्वरः ॥४०॥
न तस्य सदृशो लोके विद्यते सचराचरे ।
श्वेतमूर्तिः स भगवान् पीतो रक्तोऽञ्जनप्रभः ॥४१॥
तस्मात् परतरं लोके नान्यद धर्मं हि विद्यते ।
सात्त्विकं राजसं चैव तामसं मिश्रकं तथा ।
स एव धत्ते भगवान् सर्वपूज्यः सदाशिवः ॥४२॥
शङ्करस्य वचः श्रुत्वा शैवाद्याः प्रमथोत्तमाः ।
प्रत्यूचुर्भगवन् ब्रूहि सदाशिवविशेषणम् ॥४३॥
तेषां तद भाषितं श्रुत्वा प्रमथानामथेश्वरः ।
दर्शयामास तद्रूपं सदाशैवं निरञ्जनम् ॥४४॥
ततः पश्यन्ति हि गणाः तमीशं वै सहस्त्रशः ।
सहस्त्रवक्त्रचरणं सहस्त्रभुजमीश्वरम् ॥४५॥
दण्डपाणिं सुदुर्दृश्यं लोकैर्व्याप्तं समन्ततः ।
दण्डसंस्थाऽस्य दृश्यन्ते देवप्रहरणास्तथा ॥४६॥
तत एकमुखं भूयो ददृशुः शङ्करं गणाः ।
रौद्रैश्च वैष्णवैश्चैव वृतं चिह्नैः सहस्त्रशः ॥४७॥
अर्द्धेन वैष्णववपुरर्द्धेन हरविग्रहः ।
खगध्वजं वृषारुढं खगारुढं वृषध्वजम् ॥४८॥
यथा यथा त्रिनयनो रुपं धत्ते गुणाग्रणीः ।
तथा तथा त्वजायन्त महापाशुपता गणाः ॥४९॥
ततोऽभवच्चैकरुपी शङ्करो बहुरुपवान् ।
द्विरुपश्चाभवद योगी एकरुपोऽप्यरुपवान् ।
क्षणाच्छ्वेतः क्षणाद रक्तः पीतो नीलः क्षणादपि ॥५०॥
मिश्रको वर्णहीनश्च महापाशुपतस्तथा ।
क्षणाद भवति रुद्रेन्द्रः क्षणाच्छम्भुः प्रभाकरः ॥५१॥
क्षणार्द्धाच्छङ्करो विष्णुः क्षणाच्छर्वः पितामः ।
ततस्तद्भुततमं दृष्ट्वा शैवादयो गणाः ॥५२॥
अजानन्त तदैक्येन ब्रह्मविष्ण्वीशभास्करान् ।
यदाऽभिन्नममन्यन्त देवदेवं सदाशिवम् ॥५३॥
तदा निर्धूतपापास्ते समजायन्त पार्षदाः ।
तेष्वेवं धूतपापेषु अभिन्नेषु हरीश्वरः ॥५४॥
प्रीतात्मा विबभौ शम्भुः प्रीतियुक्तोऽब्रवीद वचः ।
परितुष्टोऽस्मि वः सर्वे ज्ञानेनानेन सुव्रताः ॥५५॥
वृणुध्वं वरमानन्त्यं दास्ये वो मनसेप्सितम् ।
ऊचुस्ते देहि भगवन् वरमस्माकमीश्वर ।
भिन्नदृष्टयुद्भवं पापं यत्तद भ्रंशं प्रयातु नः ॥५६॥
पुलस्त्य उवाच
बाढमित्यब्रवीच्छर्वश्चके निर्धूतकल्मषान् ।
सम्परिष्वजताव्यक्तस्तान् सर्वान् गणयूथपान् ॥५७॥
इति विभुना प्रणतार्तिहरेण गणपतयो वृषमेघरथेन ।
श्रुतिगदितानुगमेनेव मन्दरं गिरिमवतत्य समध्यवसन्तम् ॥५८॥
आच्छादितो गिरिवरः प्रमथैर्घनाभैराभाति शुक्लतनुरीश्वरपादजुष्टः ।
नीलाजिनातततनुः शरदभ्रवर्णो यद्वद विभाति बलवान् वृषभो हरस्य ॥५९॥