नारद उवाच
भगवँल्लोकनाथाय विष्णवे विषमेक्षणः ।
किमर्थमायुधं चक्रं दत्तवाँल्लोकपूजितम् ॥१॥
पुलस्त्य उवाच
श्रृणुष्वावहितो भूत्वा कथामेतां पुरातनीम् ।
चक्रप्रदानसम्बद्धां शिवमाहात्म्यवर्धिनीम् ॥२॥
आसीद द्विजातिप्रवरो वेदवेदाङ्गपारगः ।
गृहाश्रमी महाभागो वीतमन्युरिति स्मृतः ॥३॥
तस्यात्रेयी महाभागा भार्यासीच्छीलसम्मता ।
पतिव्रता पतिप्राणा धर्मशीलेति विश्रुता ॥४॥
तस्यामस्य महर्षेस्तु ऋतुकालाभिगामिनः ।
सम्बभूव सुतः श्रीमान् उपमन्युरिति स्मृतः ॥५॥
तं माता मुनिशार्दूल शालिपिष्टरसेन वै ।
पोषयामास वदती क्षीरमेत् सुदुर्गता ॥६॥
सोऽजानानोऽथ क्षीरस्य स्वादुतां पय इत्यथ ।
सम्भावनामप्यकरोच्छालिपिष्टरसेऽपि हि ॥७॥
स त्वेकदा समं पित्रा कुत्रचिद् द्विजवेश्मनि ।
क्षीरौदनं च बुभुजे सुस्वादु प्राणपुष्टिदम् ॥८॥
स लब्ध्वानुपमं स्वादं क्षीरस्य ऋषिदारकः ।
मात्रा दत्तं द्वितीयेऽह्नि नादत्ते पिष्टवारि तत् ॥९॥
रुरोदाथ ततो बाल्यात् पयोऽर्थी चातको यथा ।
तं माता रुदती प्राह वाष्पगदगदया गिरा ॥१०॥
उमापतौ पशुपतौ शूलधारिणि शङ्करे ।
अप्रसन्ने विरुपाक्षे कुतः क्षीरेण भोजनम् ॥११॥
यदीच्छसि पयो भोक्तुं सद्यः पुष्टिकरं सुत ।
तदाराधय देवेशं विरुपाक्षं त्रिशूलिनम् ॥१२॥
तस्मिंस्तुष्टे जगद्धाम्नि सर्वकल्याणदायिनि ।
प्राप्यतेऽमृतपायित्वं किं पुनः क्षीरभोजनम् ॥१३॥
तन्मातुर्वचनं श्रुत्वा वीतमन्युसुतोऽब्रवीत् ।
कोऽयं विरुपाक्ष इति त्वयाराध्यस्तु कीर्तितः ॥१४॥
ततः सुतं धर्मशीला धर्माढ्यं वाक्यमब्रवीत् ।
योऽयं विरुपाक्ष इति श्रूयतां कथयामि ते ॥१५॥
आसीन्महासुरपतिः श्रीदाम इति विश्रुतः ।
तेनाक्रम्य जगत्सर्वं श्रीर्नीता स्ववशं पुरा ॥१६॥
निःश्रीकास्तु त्रयो लोकाः कृतास्तेन दुरात्मना ।
श्रीवत्सं वासुदेवस्य हर्तुमैच्छन्महाबलः ॥१७॥
तमस्य दुष्टं भगवानभिप्रायं जनार्दनः ।
ज्ञात्वा तस्य वधाकाङ्क्षी महेश्वरमुपागमत् ॥१८॥
एतस्मिन्नन्तरे शम्भुर्योगमूर्तिधरोऽव्ययः ।
तस्थौ हिमाचलप्रस्थमाश्रित्य श्लक्ष्णभूतलम् ॥१९॥
अथाभ्येत्य जगन्नाथं सहस्त्रशिरसं विभुम् ।
आराधयामास हरिः स्वयमात्मानमात्मना ॥२०॥
साग्रं वर्षसहस्त्रं तु पादाङ्गुष्ठेन तस्थिवान् ।
गृणंस्तत्परमं ब्रह्म योगिज्ञेयमलक्षणम् ॥२१॥
ततः प्रीतः प्रभुः प्रादाद् विष्णवे परमं वरम् ।
प्रत्यक्षं तैजसं श्रीमान् दिव्यं चक्रं सुदर्शनम् ॥२२॥
तद् दत्त्वा देवदेवाय सर्वभूतभयप्रदम् ।
कालचक्रनिभं चक्रं शङ्करो विष्णुमब्रवीत् ॥२३॥
वरायुधोऽयं देवेश सर्वायुधनिबर्हणः ।
सुदर्शनो द्वादशारः षण्णाभिर्द्वियुगो जवी ॥२४॥
आरासंस्थास्त्वमी चास्य देवा मासाश्च राशयः ।
शिष्टानां रक्षणार्थाय संस्थिता ऋतवश्च षट् ॥२५॥
अग्निः सोमस्तथा मित्रो वरुणोऽथ शचीपतिः ।
इन्द्राग्नी चाप्यथो विश्वे प्रजापतय एव च ॥२६॥
हनूमांश्चाथ बलवान् देवो धन्वन्तरिस्तथा ।
तपश्चैव तपस्यश्च द्वादशैते प्रतिष्ठिताः ।
चैत्राद्याः फाल्गुनान्ताश्च मासास्तत्र प्रतिष्ठिताः ॥२७॥
त्वमेवमाधाय विभो वरायुधं शत्रुं सुराणां जहि मा विशड्किथाः ।
अमोघ एषोऽमरराजपूजितो धृतो मया नेत्रगतस्तपोबलात् ॥२८॥
इत्युक्तः सम्भुना विष्णुः भवं वचनमब्रवीत् ।
कथं शम्भो विजानीयाममोघो मोघ एव वा ॥२९॥
यद्यमोघो विभो चक्रः सर्वत्राप्रतिघस्तव ।
जिज्ञासार्थं तवैवेह प्रक्षेप्स्यामि प्रतीच्छ भोः ॥३०॥
तद्वाक्यं वासुदेवस्य निशम्याह पिनाकधृक् ।
यद्येवं प्रक्षिपस्वेति निर्विशङ्केन चेतसा ॥३१॥
तन्महेशानवचनं श्रुत्वा विष्णुः सुदर्शनम् ।
मुमोच तेजो जिज्ञासुः शङ्करम्प्रति वेगवान् ॥३२॥
मुरारिकरविभ्रष्टं चक्रमभ्येत्य शूलिनम् ।
त्रिधा चकार विश्वेशं यज्ञेशं यज्ञयाजकम् ॥३३॥
हरं हरिस्त्रिधाभूतं दृष्ट्वा कृत्तं महाभुजः ।
व्रीडोपप्लुतदेहस्तु प्रणिपातपरोऽभवत् ॥३४॥
पादप्रणामावनतं वीक्ष्य दामोदरं भवः ।
प्राह प्रीतिपरः श्रीमानुत्तिष्ठेति पुनः पुनः ॥३५॥
प्राकृतोऽयं महाबाहो विकारश्चक्रनेमिना ।
निकृत्तो न स्वभावो मे सोऽच्छेद्योऽदाह्य एव च ॥३६॥
तद्यदेतानि चक्रेण त्रीणि भागानि केशव ।
कृतानि तानि पुण्यानि भविष्यन्ति न संशयः ॥३७॥
हिरण्याक्षः स्मृतो ह्येकः सुवर्णाक्षस्तथा परः ।
तृतीयश्च विरुपाक्षस्त्रयोऽमी पुण्यदा नृणाम् ॥३८॥
उत्तिष्ठ गच्छस्व विभो निहन्तुममरार्दनम् ।
श्रीदाम्नि निहते विष्णो नन्दयिष्यन्ति देवताः ॥३९॥
इत्येवमुक्तो भगवान् हरेण गरुडध्वजः ।
गत्वा सुरगिरिप्रस्थं श्रीदामानं ददर्श ह ॥४०॥
तं दृष्ट्वा देवदर्पघ्नं दैत्यं देववरो हरिः ।
मुमोच चक्रं वेगाढ्यं हतोऽसीति ब्रुवन्मुहुः ॥४१॥
ततस्तु तेनाप्रतिपौरुषेण चक्रेण दैत्यस्य शिरो निकृत्तम् ।
संछिन्नशीर्षो निपपात शैलाद् वज्राहतं शैलशिरो यथैव ॥४२॥
तस्मिन् हते देवरिपौ मुरारिरीशं समाराध्य विरुपनेत्रम् ।
लब्ध्वा च चक्रं प्रवरं महायुधं जगाम देवो निलयं पयोनिधिम् ॥४३॥
सोऽयं पुत्र विरुपाक्षो देवदेवो महेश्वरः ।
तमाराधय चेत् साधो क्षीरेणेच्छसि भोजनम् ॥४४॥
तन्मातुर्वचनं श्रुत्वा वीतमन्युसुतो बली ।
तमाराध्य विरुपाक्षं प्राप्तः क्षीरेण भोजनम् ॥४५॥
एवं तवोक्तं परमं पवित्रं संछेदनं शर्वतनोः पुरा वै ।
तत्तीर्थवर्यं स महासुरो वै समाससादाथ सुपुण्यहेतोः ॥४६॥