नारद उवाच
पुलस्त्य कथ्यतां तावद देव्या भूयः समुद्भवः ।
महत्कौतूहलं मेऽद्य विस्तराद् ब्रह्मवित्तम ॥१॥
पुलस्त्य उवाच
श्रूयतां कथयिष्यामि भूयोऽस्याः सम्भवं मुने ।
शुम्भासुरवधार्थाय लोकानां हितकाम्यया ॥२॥
या सा हिमवतः पुत्री भवेनोढा तपोधना ।
उमा नाम्ना च तस्याः सा कोशाज्जाता तु कौशिकी ॥३॥
सम्भूय विन्ध्यं गत्वा च भूयो भूतगणैर्वृता ।
शुम्भं चैव निशुम्भं च वधिष्यति वरायुधैः ॥४॥
नारद उवाच
ब्रह्मंस्त्वया समाख्याता मृता दक्षात्मजा सती ।
सा जाता हिमवत्पुत्रीत्येवं मे वक्तुमर्हसि ॥५॥
यथा च पार्वतीकोशात् समुद्भूता हि कौशिकी ।
यथा हतवती शुम्भं निशुम्भं च महासुरम् ॥६॥
कस्य चेमौ सुतौ वीरौ ख्यातौ शुम्भनिशुम्भकौ ।
एतद विस्तरतः सर्वं यथावद वक्तुमर्हसि ॥७॥
पुलस्त्य उवाच
एतत्ते कथयिष्यामि पार्वत्याः सम्भवं मुने ।
श्रृणुष्वावहितो भूत्वा स्कन्दोत्पत्तिं च शाश्वतीम् ॥८॥
रुद्रः सत्यां प्रणष्टायां ब्रह्मचारिव्रते स्थितः ।
निराश्रयत्वमापन्नस्तपस्तप्तुं व्यवस्थितः ॥९॥
स चासीद देवसेनानीदैत्यदर्पविनाशनः ।
शिवरुपत्वमास्थाय सैनापत्यं समुत्सृजत् ॥१०॥
ततो निराकृता देवाः सेनानाथेन शम्भुना ।
दानवेन्द्रेण विक्रम्य महिषेण पराजिताः ॥११॥
ततो जग्मुः सुरेशानं द्रष्टुं चक्रगदाधरम् ।
श्वेतद्वीपे महाहंसं प्रपन्नाः शरणं हरिम् ॥१२॥
तानागतान् सुरान् दृष्ट्वा ततः शक्रपुरोगमान् ।
विहस्य मेघगम्भीरं प्रोवाच पुरुषोत्तमः ॥१३॥
किं जितास्त्वसुरेन्द्रेणं महिषेण दुरात्मना ।
येन सर्वे समेत्यैवं मम पार्श्वमुपागताः ॥१४॥
तद युष्माकं हितार्थाय यद वदमि सुरोत्तमाः ।
तत्कुरुध्वं जयो येन समाश्रित्य भवेद्धि वः ॥१५॥
य एते पितरो दिव्यास्त्वग्निष्वास्त्वग्निष्वात्तेति विश्रुताः ।
अमीषां मानसी कन्या मेना नाम्नाऽस्ति देवताः ॥१६॥
तामाराध्य महातिथ्यां श्रद्धया परयाऽमराः ।
प्रार्थयध्वं सतीं मेनां प्रालेयाद्रेरिहार्थतः ॥१७॥
तस्यां सा रुपसंयुक्ता भविष्यति तपस्विनी ।
दक्षकोपाद यया मुक्तं मलवज्जीवितं प्रियम् ॥१८॥
सा शङ्करात् स्वतेजोंऽशं जनयिष्यति यं सुतम् ।
स हनिष्यति दैत्येन्द्रं महिषं सपदानुगम् ॥१९॥
तस्माद गच्छत पुण्यं तत् कुरुक्षेत्रं महाफलम् ।
तत्र पृथुदके तीर्थे पूज्यन्तां पितरोऽव्ययाः ॥२०॥
महातिथ्यां महापुण्ये यदि शत्रुपराभवम् ।
जिहासतात्मनः सर्वे इत्थं वै क्रियतामिति ॥२१॥
पुलस्त्य उवाच
इत्युक्त्वा वासुदेवेन देवाः शक्रपुरोगमाः ।
कृताञ्जलिपुटा भूत्वा पप्रच्छुः परमेश्वरम् ॥२२॥
देवा ऊचुः
कोऽयं कुरुक्षेत्र इति यत्र पुण्यं पृथूदकम् ।
उदभवं तस्य तीर्थस्य भगवान् प्रब्रवीतु नः ॥२३॥
केयं प्रोक्ता महापुण्या तिथीनामुत्तमा तिथिः ।
यस्यां हि पितरो दिव्याः पूज्याऽस्माभिः प्रयत्नतः ॥२४॥
ततः सुराणां वचनान्मुरारिः कैटभार्दनः ।
कुरुक्षेत्रोद्भवं पुण्यं प्रोक्तवांस्तां तिथीमपि ॥२५॥
श्रीभगवानुवाच
सोमवंशोद्भवो राजा ऋक्षो नाम महाबलः ।
कृतस्यादौ समभवदृक्षात् संवरणोऽभवत् ॥२६॥
स च पित्रा निजे राज्ये बाल एवाभिषेचितः ।
बाल्येऽपि धर्मनिरतो मद्भक्तैश्च सदाऽभवत् ॥२७॥
पुरोहितस्तु तस्यासीद वसिष्ठो वरुणात्मजः ।
स चास्याध्यापयामास साङ्गान् वेदानुदारधीः ॥२८॥
ततो जगाम चारण्यं त्वनध्याये नृपात्मजः ।
सर्वकर्मसु निक्षिप्य वसिष्ठं तपसां निधिम् ॥२९॥
ततो मृगयाव्याक्षेपाद एकाकी विजनं वनम् ।
वैभ्राजं स जगामाथ अथोन्मादनमभ्ययात् ॥३०॥
ततस्तु कौतुकाविष्टः सर्वर्तुकुसुमे वने ।
अवितृप्तः सुगन्धस्य समन्ताद व्यचरद वनम् ॥३१॥
स वनान्तं च ददृशे फुल्लकोकनदावृत्तम् ।
कह्लारपद्मकुमुदैः कमलेन्दीवरैरपि ॥३२॥
तत्र क्रीडन्ति सततमप्सरोऽमरकन्यकाः ।
तास्यां मध्यें ददर्शाथ कन्यां संवरणोऽधिकाम् ॥३३॥
दर्शनादेव स नृपः काममार्गणपीडितः ।
जातः सा च तमीक्ष्यैव कामबाणातुराऽभवत् ॥३४॥
उभौ तौ पीडितौ मोहं जग्मतुः काममार्गणैः ।
राजा चलासनो भूम्यां निपपात तुरंगमात् ॥३५॥
तमभ्येत्य महात्मानो गन्धर्वाः कामरुपिणः ।
सिषिचुर्वारिणाऽभ्येत्य लब्धसंज्ञोऽभवत् क्षणात् ॥३६॥
सा चाप्सरोभिरुत्पात्य नीता पितृकुलं निजम् ।
ताभिराश्वासिता चापि मधुरैर्वचनाम्बुभिः ॥३७॥
स चाप्यारुह्य तुरगं प्रतिष्ठानं पुरोत्तमम् ।
गतस्तु मेरुशिखरं कामचारी यथाऽमरः ॥३८॥
यदाप्रभृति सा दृष्ट्वा आर्क्षिणा तपती गिरौ ।
तदाप्रभृति नाश्नाति दिवा स्वपिति नो निशि ॥३९॥
ततः सर्वविदव्यग्रो विदित्वा वरुणात्मजः ।
तपतीतापितं वीरं पार्थिवं तपसां निधिः ॥४०॥
समुत्पत्य महायोगी गगनं रविमण्डलम् ।
विवेश देवं तिग्मांशुं ददर्श स्यन्दने स्थितम् ॥४१॥
तं दृष्ट्वा भास्करं देवं प्रणमद द्विजसत्तमः ।
प्रतिप्रणमितश्चासौ भास्करेणाविशद रथे ॥४२॥
ज्वलज्जटाकलापोऽसौ दिवाकरसमीपगः ।
शोभते वारुणिः श्रीमान् द्वितीय इव भास्करः ॥४३॥
ततः सम्पूजितोऽर्घार्भास्करेण तपोधनः ।
पृष्टश्चागमने हेतुं प्रत्युवाच दिवाकरम् ॥४४॥
समायातोऽस्मि देवेश याचितुं त्वां महाद्युते ।
सुतां संवरणस्यार्थे तस्य त्वं दातुमर्हसि ॥४५॥
ततो वसिष्ठाय दिवाकरेण निवेदिता सा तपती तनूजा ।
गृहागताय द्विजपुंगवाय राज्ञोऽर्थतः संवरणस्य देवाः ॥४६॥
सावित्रिमादाय ततो वसिष्ठः स्वमाश्रमं पुण्यमुपाजगाम ।
सा चापि संस्मृत्य नृपात्मजं तं कृताञ्जलिर्वारुणिमाह देवी ॥४७॥
तपत्युवाच
ब्रह्मन् मया खेदमुपेत्य यो हि सहाप्सरोभिः परिचारिकाभिः ।
दृष्टो ह्यरण्येऽमरगर्भतुल्यो नृपात्मजो लक्षणतोऽभिजाने ॥४८॥
पादौ शुभौ चक्रगदासिचिह्नौ जङ्घे तथोरु करिहस्तुतुल्यौ ।
कटिस्तथा सिंहकटिर्यथैव क्षामं च मध्यं त्रिबलीनिबद्धम् ॥४९॥
ग्रीवाऽस्य शङ्खाकृतिमादधाति भुजौ च पीनौ कठिनौ सुदीर्घौ ।
हस्तौ तथा पद्मदलोद्भवाङ्कौ छत्राकृतिस्तस्य शिरो विभाति ॥५०॥
नीलाश्च केशाः कुटिलाश्च तस्य कर्णो समांसौ सुसमा च नासा ।
दीर्घाश्च तस्याङ्गुलयः सुपर्वाः पदभ्यां कराभ्यां दशनाश्च शुभ्राः ॥५१॥
समुन्नतः षडभिरुदारवीर्यस्त्रिभिर्गभीरस्त्रिषु च प्रलम्बः ।
रक्तस्था पञ्चसु राजपुत्रः कृष्णश्चतुर्भिस्त्रिभिरानतोऽपि ॥५२॥
द्वाभ्यां च शुक्लः सुरभिश्चतुर्भिः दृश्यन्ति पद्मानि दशैव चास्य ।
वृतः स भर्ता भगवन् हि पूर्वं तं राजपुत्रं भुवि संविचिन्त्य ॥५३॥
ददस्व मां नाथ तपस्विनेऽस्मै गुणोपपन्नाय समीहिताय ।
नेहान्यकामां प्रवदन्ति सन्तो दातुं तथान्यस्य विभो क्षमस्व ॥५४॥
देवदेव उवाच
इत्येवमुक्तः सवितुश्च पुत्र्या ऋषिस्तदा ध्यानपरो बभूव ।
ज्ञात्वा च तत्रार्कसुतां सकामां मुदा युतो वाक्यमिदं जगाद ॥५५॥
स एव पुत्रि नृपतेस्तनूजो दृष्टः पुरा कामयसे यमद्य ।
स एव चायाति ममाश्रमं वै ऋक्षात्मजः संवरणो हि नाम्ना ॥५६॥
अथाजगाम स नृपस्य पुत्रस्तमाश्रमं ब्राह्मणपुंगवस्य ।
दृष्ट्वा वसिष्ठं प्रणिपत्य मूर्ध्ना स्थितस्त्वपश्यत् तपतीं नरेन्द्रः ॥५७॥
दृष्ट्वा च तां पद्मविशालनेत्रां तां पूर्वदृष्टामिति चिन्तयित्वा ।
पप्रच्छ केयं ललना द्विजेन्द्र स वारुणिः प्राह नराधिपेन्द्रम् ॥५८॥
इयं विवस्वददुहिता नरेन्द्र नाम्ना प्रसिद्धा तपती पृथिव्याम् ।
मया तवार्थाय दिवाकरोऽर्थितः प्रादान्मया त्वाश्रममानिनिन्ये ॥५९॥
तस्मात् समुत्तिष्ठ नरेन्द्र देव्याः पाणिं तपत्या विधिवद गृहाण ।
इत्येवमुक्तो नृपतिः प्रहष्टो जग्राह पाणिं विधिवत् तपत्याः ॥६०॥
सा तं पतिं प्राप्य मनोऽभिरामं सूर्यात्मजा शक्रसमप्रभावम् ।
रराम तन्वी भवनोत्तमेषु यथा महेन्द्रं दिवि दैत्यकन्या ॥६१॥