लोमहर्षण उवाच
निस्तेजसोऽसुरान् दृष्ट्वा समस्तानसुरेश्वरः ।
प्रह्लादमथ पप्रच्छ बलिरात्मपितामहम् ॥१॥
बालिरुवाच
तात निस्तेजसो दैत्या निर्दग्ध इव वह्निना ।
किमेते सहसैवाद्य ब्रह्मदण्डहता इव ॥२॥
दुरिष्टं किं तु दैत्यानां किं कृत्या विधिनिर्मिता ।
नाशायैषां समुदभूता येन निस्तेजसोऽसुराः ॥३॥
लोमहर्षण उवाच
इत्यसुरवरस्तेन पृष्टः पौत्रेण ब्राह्मणाः ।
चिरं ध्यात्वा जगादेदमसुरं तं तदा बलिम् ॥४॥
प्रह्लाद उवाच
चलन्ति गिरयो भूमिर्जहाति सहसा धृतिम् ।
सद्यः समुद्राः क्षुभिता दैत्या निस्तेजसः कृताः ॥५॥
सूर्योदये यथा पूर्वं तथा गच्छन्ति न ग्रहाः ।
देवानां च परा लक्ष्मीः कारणेनानुमीयते ॥६॥
महदेतन्महाबाहो कारणं दानवेश्वर ।
न ह्यल्पमिति मन्तव्यं त्वया कार्यं कथंचन ॥७॥
लोमहर्षण उवाच
इत्युक्त्वा दानवपतिं प्रह्लादः सोऽसुरोत्तमः ।
अत्यर्थभक्तो देवेशं जगाम मनसा हरिम् ॥८॥
स ध्यानपथगं कृत्व प्रह्लादश्च मनोऽसुरः ।
विचारयामास ततो यथा देवो जनार्दनः ॥९॥
स ददर्शोदरेऽदित्याः प्रह्लादो वामनाकृतिम् ।
तदन्तश्च वसून रुद्रानश्विनौ मरुतस्तथा ॥१०॥
साध्यान् विश्वे तथादित्यान् गन्धर्वोरगराक्षसा ।
विरोचनं च तनयं बलिं चासुरनायकम् ॥११॥
जम्भं कुजम्भं नरकं बाणमन्यांस्तथासुरान् ।
आत्मानमुर्वी गगनं वायुं वारि हुताशनम् ॥१२॥
समुद्राद्रिसरिदद्वीपान् सरांसि च पशून् महीम् ।
वयोमनुष्यानखिलांस्तथैव च सरीसृपान् ॥१३॥
समस्तलोकस्त्रष्टारं ब्रह्माणां भवमेव च ।
ग्रहनक्षत्रताराश्च दक्षाद्यांश्च प्रजापतीन् ॥१४॥
सम्पश्यन विस्मयाविष्टः प्रकृतिस्थः क्षणात् पुनः ।
प्रह्लादः प्राह दैत्येन्द्रं बलिं वैरोचनिं ततः ॥१५॥
तत्संज्ञातं मया सर्वं यदर्थं भवतामियम् ।
तेजसो हानिरुत्पन्ना श्रृण्वन्तु तदशेषतः ॥१६॥
देवदेवो जगद्योनिरयोनिर्जगदादिजः ।
अनादिरादिर्विश्वस्य वरेण्यो वरदो हरिः ॥१७॥
परावराणां परमः परापरसतां गतिः ।
प्रभुः प्रमाणं मानानां सप्तलोकगुरोर्गुरुः ।
स्थितिं कर्तुं जगन्नाथं सोऽचिन्त्यो गर्भतां गतः ॥१८॥
प्रभुः प्रभूणां परमः पराणामनादिमध्यो भगवाननन्तः ।
त्रैलोक्यमंशेन सनाथमेकः कर्तुं महात्माऽदितिजोऽवतीर्णः ॥१९॥
न यस्य रुद्रा न च पद्मयोनिनेंन्द्रो न सूर्येन्दुमरीचिमिश्राः ।
जानन्ति दैत्याधिप यत्स्वरुपं स वासुदेवः कलयावतीर्णः ॥२०॥
यमक्षरं वेदविदो वदन्ति विशन्ति यं ज्ञानविधूतपापाः ।
यस्मिन् प्रविष्टा न पुनर्भवन्ति तं वासुदेवं प्रणमामि देवम् ॥२१॥
भूतान्यशेषाणि यतो भवन्ति यथोर्मयस्तोयनिधेरजस्त्रम् ।
लयं च यस्मिन् प्रलये प्रयान्ति तं वासुदेवं प्रणतोऽस्म्यचिन्त्यम् ॥२२॥
न यस्य रुपं न बलं प्रभावो न च प्रतापः परमस्य पुंसः ।
विज्ञायते सर्वपितामहाद्यैस्तं वासुदेवं प्रणमामि नित्यम् ॥२३॥
रुपस्य चक्षुर्ग्रहणे त्वगेषा स्पर्शग्रहित्री रसना रसस्य ।
घ्राणं च गन्धग्रहणे नियुक्तं न घ्राणचक्षुः श्रवणादि तस्य ॥२४॥
स्वयंप्रकाशः परमार्थतो यः सर्वेश्वरो वेदितव्यः स युक्त्या ।
शक्यं तमीड्यमनघं च देवं ग्राह्यं नतोऽहं हरिमीशितारम् ॥२५॥
येनैकदंष्ट्रेण समुद्धतेयं धरा चला धारयतीह सर्वम् ।
शेते ग्रसित्वा सकलं जगद यस्तमीड्यमीशं प्रणतोऽस्मि विष्णुम् ॥२६॥
अंशावतीर्णेन च येन गर्भे हतानि तेजांसि महासुराणाम् ।
नमामि तं देवमनन्तमीशमशेषसंसारतरोः कुठारम् ॥२७॥
देवो जगद्योनिरयं महात्मा स षोडशांशेन महाऽसुरेन्द्राः ।
सुरेन्द्रमातुर्जठरं प्रविष्टो हतानि वस्तेन बलं वपूंषि ॥२८॥
बलिरुवाच
तात कोऽयं हरिर्नाम यतो नो भयमागतम् ।
सन्ति मे शतशो दैत्या वासुदेवबलाधिकाः ॥२९॥
विप्रचित्तिः शिबिः शङ्कुरयः शङ्कुस्तथैव च ।
हयशिरा अश्वशिरा भङ्गकारो महाहनुः ॥३०॥
प्रतापी प्रघशः शम्भुः कुक्कुराक्षश्च दुर्जयः ।
एते चान्ये च मे सन्ति दैतेया दानवास्तथा ॥३१॥
महाबला महावीर्या भूभारधरणक्षमाः ।
एषामेकैकशः कृष्णो न वीर्यार्द्धेन सम्मितः ॥३२॥
लोमहर्षण उवाच
पौत्रस्यैतद वचः श्रुत्वा प्रह्लादो दैत्यसत्तमः ।
सक्रोधश्च बलिं प्राह वैकुण्ठाक्षेपवादिनम् ॥३३॥
विनाशमुपयास्यन्ति दैत्या ये चापि दानवाः ।
येषां त्वमीदृशो राजा दुर्बुद्धिरविवेकवान् ॥३४॥
देवदेवं महाभागं वासुदेवमजं विभुम् ।
त्वामृते पापसंकल्प कोऽन्य एवं वदिष्यति ॥३५॥
य एते भवता प्रोक्ताः समस्ता दैत्यदानवाः ।
सब्रह्मकास्तथा देवाः स्थावरान्ता विभूतयः ॥३६॥
त्वं चाहं च जगच्चेदं साद्रिद्रुमनंदीवनम् ।
ससमुद्रद्वीपलोकोऽयं यश्चेदं सचराचरम् ॥३७॥
यस्याभिवाद्यवन्द्यस्य व्यापिनः परमात्मनः ।
एकांशांशकलाजन्म कस्तमेवं प्रवक्ष्यति ॥३८॥
ऋते विनाशाभिमुखं त्वामेकमविवेकिनम् ।
दुर्बुद्धिमजितात्मानं वृद्धानां शसनातिगम् ॥३९॥
शोच्योऽहं यस्य मे गेहे जातस्तव पिताऽधमः ।
यस्य त्वमीदृशः पुत्रो देवदेवावमानकः ॥४०॥
तिष्ठत्यनेकसंसारसंघातौघविनाशिनि ।
कृष्णे भक्तिरहं तावदवेक्ष्यो भवता न किम् ॥४१॥
न मे प्रियतरः कृष्णादपि देहोऽयमात्मनः ।
इति जानात्ययं लोको भवांश्च दितिनन्दन ॥४२॥
जानन्नपि प्रियतरं प्राणेभ्योऽपि हरिं मम ।
निन्दां करोषि तस्य त्वमकुर्वन् गौरवं मम ॥४३॥
विरोचनस्तव गुरुर्गुरुस्तस्याप्यहं बले ।
ममापि सर्वजगतां गुरुर्नारायणो हरिः ॥४४॥
निन्दां करोषि तस्मिंस्त्वं कृष्णे गुरुगुरोर्गुरौ ।
यस्मात् तस्मादिहैव त्वमैश्वर्याद भ्रंशमेष्यसि ॥४५॥
स देवो जगतां नाथो बले प्रभुर्जनार्दनः ।
नन्वहं प्रत्यवेक्ष्यस्ते भक्तिमानत्र मे गुरुः ॥४६॥
एतावन्मात्रमप्यत्र निन्दता जगतो गुरुम् ।
नापेक्षितस्त्वया यस्मात् तस्माच्छापं ददामि ते ॥४७॥
यथा मे शिरसश्छेदादिदं गुरुतरं बले ।
त्वयोक्तमच्युताक्षेपं राज्यभ्रष्टस्तथा पत ॥४८॥
यथा न कृष्णादपरः परित्राणं भवार्णवे ।
तथाऽचिरेण पश्येयं भवन्तं राज्यविच्युतम् ॥४९॥