लोमहर्षण उवाच
एवं स्तुतोऽथ भगवान् वासुदेव उवाच ताम् ।
अदृश्यः सर्वभूतानां तस्याः संदर्शने स्थितः ॥१॥
श्रीभगवानुवाच
मनोरथांस्त्वमदिते यानिच्छस्यभिवाञ्छितान् ।
तांस्त्वं प्राप्स्यसि धर्मज्ञे मत्प्रसादान्न संशयः ॥२॥
श्रृणु त्वं च महाभागे वरो यस्ते हदि स्थितः ।
मद्दर्शनं हि विफलं न कदाचिद भविष्यति ॥३॥
यश्चेह त्वदवने स्थित्वा त्रिरात्रं वै करिष्यति ।
सर्वे कामाः समृध्यन्ते मनसा यानिहेच्छति ॥४॥
दूरस्थोऽपि वनं यस्तु अदित्याः स्मरते नरः ।
सोऽपि याति परं स्थानं किं पुनर्निवसन् नरः ॥५॥
यश्चेह ब्राह्मणान् पञ्च त्रीन् वा द्वावेकमेव वा ।
भोजयेच्छ्रद्धया युक्तः स याति परमां गतिम् ॥६॥
अदितिरुवाच
यदि देव प्रसन्नस्त्वं भक्त्यां मे भक्तवत्सल ।
त्रैलोक्याधिपतिः पुत्रस्तदस्तु मम वासवः ॥७॥
हतं राज्यं हतश्चास्य यज्ञभाग इहासुरैः ।
त्वयि प्रसन्ने वरद तत् प्राप्नोतु सुतो मम ॥८॥
हतं राज्यं न दुःखाय मम पुत्रस्य केशव ।
प्रपन्नदायविभ्रंशो बाधां मे कुरुते हदि ॥९॥
श्रीभगवानुवाच
कृतः प्रसादो हि मया तव देवि यथेप्सितम् ।
स्वांशेन चैव ते गर्भे सम्भविष्यामि कश्यपात् ॥१०॥
तव गर्भे समुदभूतस्ततस्ते ये त्वरातयः ।
तानहं च हनिष्यामि निवृत्ता भव नन्दिनि ॥११॥
अदितिरुवाच
प्रसीद देवदेवेश नमस्ते विश्वभावन ।
नाहं त्वामुदरे वोढुमीश शक्ष्यामि केशव ।
यस्मिन् प्रतिष्ठितं सर्वं विश्वयोनिस्त्वमीश्वरः ॥१२॥
श्रीभगवानुवाच
अहं त्वां च वहिष्यामि आत्मानं चैव नन्दिनि ।
न च पीडां करिष्यामि स्वस्ति तेऽस्तु व्रजाम्यहम् ॥१३॥
इत्युक्त्वान्तर्हिते देवेऽदितिर्गर्भं समादधें ।
गर्भस्थिते ततः कृष्णे चचाल सकला क्षितिः ।
चकम्पिरे महाशैला जग्मुः क्षोभं महाब्धयः ॥१४॥
यतो यतोऽदितिर्याति ददाति पदमुत्तमम् ।
ततस्ततः क्षितिः खेदान्ननाम द्विजपुंगवाः ॥१५॥
दैत्यानामपि सर्वेषां गर्भस्थे मधुसूदने ।
बभूव तेजसो हानिर्यथोक्तं परमेष्ठिना ॥१६॥