पुलस्त्य उवाच
मासि चाश्वयुजे ब्रह्मन् यदा पद्मं जगत्पतेः ।
नाभ्या निर्याति हि तदा देवेष्वेतान्यथोऽभवन् ॥१॥
कंदर्पस्य कराग्रे तु कदम्बश्चारुदर्शनः ।
तेन तस्य परा प्रीतिः कदम्बेन विवर्द्धते ॥२॥
यक्षाणामधिपस्यापि मणिभद्रस्य नारद ।
वटवृक्षः समभवत् तस्मिंस्तस्य रतिः सदा ॥३॥
महेश्वरस्य हदये धत्तूरविटपः शुभः ।
संजातः स च शर्वस्य रतिकृत् तस्य नित्यशः ॥४॥
ब्रह्मणो मध्यतो देहाज्जातो मरकतप्रभः ।
खदिरः कण्टकी श्रेयानभवद्विश्वकर्मणः ॥५॥
गिरिजायाः करतले कुन्दगुल्मस्त्वजायत ।
गणाधिपस्य कुम्भस्थो राजते सिन्धुवारकः ॥६॥
यमस्य दक्षिणे पार्श्वे पालाशो दक्षिणोत्तरे ।
कृष्णोदुम्बरको रुद्राज्जातः क्षोभकरो वृषः ॥७॥
स्कन्दस्य बन्धुजीवस्तु रवेरश्वत्थ एव च ।
कात्यायन्याः शमी जाता बिल्वो लक्ष्म्याः करेऽभवत् ॥८॥
नागानां पतये ब्रह्मञ्छरस्तम्बो व्यजायत ।
वासुकेर्विस्तृते पुच्छे पृष्ठे दूर्वा सितासिता ॥९॥
साध्यानां हदये जातो वृक्षो हरितचन्दनः ।
एवं जातेषु सर्वेषु तेन तत्र रतिर्भवेत् ॥१०॥
तत्र रम्ये शुभे काले या शुक्लैकादशी भवेत् ।
तस्यां सम्पूजयेद विष्णुं तेन खण्डोऽस्य पूर्यते ॥११॥
पुष्पैः पत्रैः फलैर्वापि गन्धवर्णरसान्वितैः ।
ओषधीभिश्च मुख्याभीर्यावत्स्याच्छरदागमः ॥१२॥
घृतं तिला ब्रीहियवा हिरण्यकनकादि यत् ।
मणिमुक्ताप्रवालानि वस्त्राणि विविधानि च ॥१३॥
रसानि स्वादुकट्वम्लकषायलवणानि च ।
तिक्तानि च निवेद्यानि तान्यखण्डानि यानि हि ॥१४॥
तत्पूजार्थं प्रदातव्यं केशवाय महात्मने ।
यदा संवत्सरं पूर्णमखण्डं भवते गृहे ॥१५॥
कृतोपवासो देवर्षे द्वितीयेऽहन्ति संयतः ।
स्नानेन तेन स्नायीत येनाखण्डं हि वत्सरम् ॥१६॥
सिद्धार्थकैस्तिलैर्वापि तेनैवोद्वर्तनं स्मृतम् ।
हविषा पद्मनाभस्य स्नानमेव समाचरेत् ।
होमे तदेव गदितं दाने शक्तिर्निजा द्विज ॥१७॥
पूजयेताथ कुसुमैः पादादारभ्य केशवम् ।
धूपयेद विविधं धूपं येन स्याद् वत्सरं परम् ॥१८॥
हिरण्यरत्नवासोभिः पूजयेत जगदगुरुम् ।
रागखाण्डवचोष्याणि हविष्याणि निवेदयेत् ॥१९॥
ततः संपूज्य देवेशं पद्मनाभं जगदगुरुम् ।
विज्ञापयेन्मुनिश्रेष्ठ मन्त्रेणानेन सुव्रत ॥२०॥
नमोऽस्तु ते पद्मनाभ पद्माधव महाद्युते ।
धर्मार्थकाममोक्षाणि त्वखण्डानि भवन्तु मे ॥२१॥
विकासिपद्मपत्राक्ष यथाऽखण्डोसि सर्वतः ।
तेन सत्येन धर्माद्या अखण्डाः सन्तु केशव ॥२२॥
एवं संवत्सरं पूर्णं सोपवासो जितेन्द्रियः ।
अखण्डं पारयेद ब्रह्मन् व्रतं वै सर्ववस्तुषु ॥२३॥
अस्मिंश्चीर्णे व्रते व्यक्तं परितुष्यन्ति देवताः ।
धर्मार्थकामम्मोक्षाद्यास्त्वक्षयाः सम्भवन्ति हि ॥२४॥
एतानि ते मयोक्तानि व्रतान्युक्तानि कामिभिः ।
प्रवक्ष्याम्यधुना त्वेतद्वैष्णवं पञ्जरं शुभम् ॥२५॥
नमो नमस्ते गोविन्द चक्रं गृह्य सुदर्शनम् ।
प्राच्यां रक्षस्व मां विष्णो त्वामहं शरणं गतः ॥२६॥
गदां कौमोदकीं गृह्य पद्मनाभामितद्युते ।
याम्यां रक्षस्व मां विष्णो त्वामहं शरणं गतः ॥२७॥
हलमादाय सौनन्दं नमस्ते पुरुषोत्तम ।
प्रतीच्यां रक्श मे विष्णो भवन्तं शरणं गतः ॥२८॥
मुसलं शातनं गृह्य पुण्डरीकाक्ष रक्ष माम् ।
उत्तरस्यां जगन्नाथ भवन्तं शरणं गतः ॥२९॥
शार्ङ्गमादाय च धनुरस्त्रं नारायणं हरे ।
नमस्ते रक्ष रक्षोघ्न ऐशान्याम शरणं गतः ॥३०॥
पाञ्चजन्यं महाशङ्खमन्तर्बोध्यं च पङ्कजम् ।
प्रगृह्य रक्ष मां विष्णो आग्नेय्यां यज्ञसूकर ॥३१॥
चर्म सूर्यशतं गृह्य खङ्गं चन्द्रमसं तथा ।
नैऋत्यां मां च रक्षस्व दिव्यमूर्ते नृकेसरिन् ॥३२॥
वैजयन्तीं प्रगृह्य त्वं श्रीवत्सं कण्ठभूषणम् ।
वायव्यां रक्ष मां देव अश्वशीर्ष नमोऽस्तु ते ॥३३॥
वैनतेयं समारुह्य अन्तरिक्षे जनार्दन ।
मां त्वं रक्षाजित सदा नमस्ते त्वपराजित ॥३४॥
विशालाक्षं समारुह्य रक्ष मां त्वं रसातले ।
अकूपार नमस्तुभ्यं महामोह नमोऽस्तु ते ॥३५॥
करशीर्षाडघ्रिपर्वेषु तथाऽष्टबाहुपञ्जरम् ।
कृत्वा रक्षस्व मां देव नमस्ते पुरुषोत्तम ॥३६॥
एतदुक्तं भगवता वैष्णवं पञ्जरं महत् ।
पुरा रक्षार्थमीशेन कात्यायन्या द्विजोत्तम ॥३७॥
नाशयामास सा यत्र दानवं महिषासुरम् ।
नमरं रक्तबीजं च तथान्यान् सुरकण्टकान् ॥३८॥
नारद उवाच
काऽसौ कात्यायनी नाम या जघ्ने महिषासुरम् ।
नमरं रक्तबीजं च तथाऽन्यान् सुरकण्टकान् ॥३९॥
कश्चासौ महिषो नाम कुले जातश्च कस्य सः ।
कश्चासौ रक्तबीजाख्यो नमरः कस्य चात्मजः ।
एतदविस्तरतस्तात यथासद वक्तुमर्हसि ॥४०॥
पुलस्त्य उवाच
श्रूयतां संप्रवक्ष्यामि कथां पापप्रणाशिनीम् ।
सर्वदा वरदा दुर्गा येयं कात्यायनी मुने ॥४१॥
पुराऽसुरवरौ रौद्री जगत्क्षोभकरावुभौ ।
रम्भश्चैव करम्भश्च द्वावास्तां सुमहाबली ॥४२॥
तावपुत्रौ च देवर्षे पुत्रार्थं तेपतुस्तपः ।
बहून् वर्षगणान दैत्यो७उ स्थितो पञ्चनदे जले ॥४३॥
तत्रैको जलमध्यस्थो द्वितीयोऽप्यग्निपञ्चमी ।
करम्भश्चैव रम्भश्च यक्षं मालवटं प्रति ॥४४॥
एकं निमग्नं सलिले ग्राहरुपेण वासवः ।
चरणाभ्यां समादाय निजघान यथेच्छया ॥४५॥
ततो भ्रातरि नष्टे च रम्भः कोपपरिप्लुतः ।
वह्नौ स्वशीर्षं संक्षिप्य होतुमैच्छन् महाबलः ॥४६॥
ततः प्रगृह्य केशेषु खङ्गं च रविसप्रभम् ।
छेत्तुकामो निजं शीर्षं वह्निना प्रतिषेधितः ॥४७॥
उक्तश्च मा दैत्यवर नाशयात्मानमात्मना ।
दुस्तरा परवध्याऽपि स्ववध्याऽप्यतिदुस्तरा ॥४८॥
यच्च प्रार्थयसे वीर तद्ददामि यथेप्सितम् ।
मा म्रियस्व मृतस्येह नष्टा भवति वै कथा ॥४९॥
ततोऽब्रवीद वचो रम्भो वरं चेन्मे ददासि हि ।
त्रैलोक्यविजयी पुत्रः स्यान्मे त्वत्तेजसाऽधिकः ॥५०॥
अजेयो दैवतैः सर्वैः पुंभिर्दैत्यैश्च पावक ।
महाबलो वायुरिव कामरुपी कृतास्त्रवित् ॥५१॥
तं प्रोवाच कविर्ब्रह्मन् बाढमेवं भविष्यति ।
यस्यां चित्तं समालम्बि करिष्यसि ततः सुतः ॥५२॥
इत्येवमुक्तो देवेन वह्निना दानवो ययौ ।
द्रष्टुं मालवटं यक्षं यक्षैश्च परिवारितम् ॥५३॥
तेषां पद्मनिधिस्तत्र वसते नान्यचेतनः ।
गजाश्च महिषाश्चाश्वा गावोऽजाविपरिप्लुताः ॥५४॥
तान् दृष्ट्वैव तदा चक्रे भावं दानवपार्थिवः ।
महिष्यां रुपयुक्तायां त्रिहायण्यां तपोधन ॥५५॥
सा समागाच्च दैत्येन्द्रं कामयन्ती तरस्विनी ।
स चापि गमनं चक्रे भवितव्यप्रचोदितः ॥५६॥
तस्यां समभवद गर्भस्तां प्रगृह्याथ दानवः ।
पातालं प्रविवेशाथ ततः स्वभवनं गतः ॥५७॥
दृष्टश्च दानवैः सर्वैः परित्यक्तश्च बन्धुभिः ।
अकार्यकारकेत्येवं भूयो मालवटं गतः ॥५८॥
साऽपि तेनैव पतिना महिषी चारुदर्शना ।
समं जगाम तत् पुण्यं यक्षमण्डलमुत्तमम् ॥५९॥
ततस्तु वसतस्तस्य श्यामा सा सुषुवे मुने ।
अजीजनत् सुतं शुभ्रं महिषं कामरुपिणम् ॥६०॥
एतामृतुमती जातां महिषोऽन्यो ददर्श ह ।
सा चाभ्यगाद दितिवरं रक्षन्ती शीलमात्मनः ॥६१॥
तमुन्नामितनासं च महिषं वीक्ष्य दानवः ।
खङ्गं निष्कृष्य तरसा महिषं समुपाद्रवत् ॥६२॥
तेनापि दैत्यस्तीक्ष्णाभ्यां श्रृङ्गाभ्यां हदि ताडितः ।
निर्भिन्नहदयो भूमौ निपपात ममार च ॥६३॥
मृते भर्तरि सा श्यामा यक्षाणां शरणं गता ।
रक्षिता गुह्यकैः साध्वी निवार्य महिषं ततः ॥६३॥
ततो निवारितो यक्षैर्हयारिर्मदनातुरः ।
निपपात सरो दिव्यं ततो दैत्योऽभवन्मृतः ॥६५॥
नमरो नाम विख्यातो महाबलपराक्रमः ।
यक्षानाश्रित्य तस्थौ च कालयन् श्वापदान् मुने ॥६६॥
स च दैत्येश्वरो यक्षैर्मालवटपुरस्सरैः ।
चितामारोपितः सा च श्यामा तं चारुहत पतिम् ॥६७॥
ततोऽग्निमध्यादुत्तस्थौ पुरुषो रौद्रदर्शनः ।
व्यद्रावयत् स तान् यक्षान् खङ्गपाणिर्भयंकरः ॥६८॥
ततो हतास्तु महिषाः सर्व एव महात्मना ।
ऋते संरक्षितारं हि महिषं रम्भनन्दन ॥६९॥
स नामतः स्मृतो दैत्यो रक्तबीजो महामुने ।
योऽजयत सर्वतो देवान् सेन्द्ररुद्रार्कमारुतान् ॥७०॥
एवं प्रभावा दनुपुंगवास्ते तेजोऽधिकस्तत्र बभौ हयारिः ।
राज्येऽभीषिक्तश्च महाऽसुरेन्द्रैर्विनिर्जितैः शम्बरतारकाद्यैः ॥७१॥
अशक्नुवद्भिः सहितैश्च देवैः सलोकपालैः सहुताशभास्करैः ।
स्थानानि त्यक्तानि शशीन्द्रभास्करैर्धर्मश्च दूरे प्रतियोजितश्च ॥७२॥