पुलस्त्य उवाच
ततः करतले रुद्रः कपाले दारुणे स्थिते ।
संतापमगमद् ब्रह्मंश्चिन्तया व्याकुलेन्द्रियः ॥१॥
ततः समागता रौद्रा नीलाञ्जनचयप्रभा ।
संरक्तमूर्द्धजा भीमा ब्रह्महत्या हरान्तिकम् ॥२॥
तामागतां हरो दृष्ट्वा पप्रच्छ विकरालिनीम् ।
काऽसि त्वमागता रौद्रे केनाप्यर्थेन तद्वद ॥३॥
कपालिनमथोवाच ब्रह्महत्या सुदारुणा ।
ब्रह्मवध्याऽस्मि सम्प्राप्ता मां प्रतीच्छ त्रिलोचन ॥४॥
इत्येवमुक्त्वा वचनं ब्रह्महत्या विवेश ह ।
त्रिशूलपाणिनं रुद्रं सम्प्रतापितविग्रहम् ॥५॥
ब्रह्महत्याभीभूतश्च शर्वो बदरिकाश्रमम् ।
आगच्छन्न ददर्शाथ नरनारायणावृषी ॥६॥
अदृष्ट्वा धर्मतनयौ चिन्ताशोकसमन्वितः ।
जगाम यमुनां स्नातुं साऽपि शुष्कजलाऽभवत् ॥७॥
कालिन्दीं शुष्कसलिलां निरीक्ष्य वृषकेतनः ।
प्लक्षजां स्नातुमगमदन्तर्द्धानं च सा गता ॥८॥
ततो नु पुष्करारण्यं मागधारण्यमेव च ।
सैन्धवारण्यमेवासौ गत्वा स्नातो यथेच्छया ॥९॥
तथैव नैमिषारण्यं धर्मारण्यं तथेश्वरः ।
स्नातो नैव च सा रौद्रा ब्रह्महत्या व्यमुञ्चत ॥१०॥
सरित्सु तीर्थेषु तथाश्रमेषु पुण्येषु देवायतनेषु शर्वः ।
समायुतो योगयुतोऽपि पापान्नावाप मोक्षं जलदध्वजोऽसौ ॥११॥
ततो जगाम निर्विण्णः शंकरः कुरुजाङ्गलम् ।
तत्र गत्वा ददर्शाथ चक्रपाणिं खगध्वजम् ॥१२॥
तं दृष्ट्वा पुण्डरीकाक्षं शङ्खचक्रगदाधरम् ।
कृताञ्जलिपुटो भूत्वा हरः स्तोत्रमुदीरयत् ॥१३॥
हर उवाच
नमस्ते देवतानाथ नमस्ते गरुडध्वज ।
शङ्खचक्रगदापाणे वासुदेव नमोऽस्तु ते ॥१४॥
नमस्ते निर्गुणानन्त अप्रतर्क्याय वेधसे ।
ज्ञानाज्ञान निरालम्ब सर्वालम्ब नमोऽस्तु ते ॥१५॥
रजोयुक्त नमस्तेऽस्तु ब्रह्ममूर्ते सनातन ।
त्वया सर्वमिदं नाथ जगत्सृष्टं चराचरम् ॥१६॥
सत्त्वाधिष्ठित लोकेश विष्णुमूर्ते अधोक्षज ।
प्रजापाल महाबाहो जनार्दन नमोऽस्तु ते ॥१७॥
तमोमूर्ते अहं ह्येष त्वदंशक्रोधसंभवः ।
गुणाभीयुक्त देवेश सर्वव्यापिन् नमोऽस्तु ते ॥१८॥
भूरियं त्वं जगन्नाथ जलाम्बरहुताशनः ।
वायुर्बुद्धिर्मनश्चापि शर्वरी त्वं नमोऽस्तु ते ॥१९॥
धर्मो यज्ञस्तपः सत्यमहिंसा शौचमार्जवम् ।
क्षमा दानं दया लक्ष्मीर्ब्रह्मचर्यं त्वमीश्वर ॥२०॥
त्वं साङ्गाश्चतुरो वेदास्त्वं वेद्यो वेदपारगः ।
उपवेदा भवानीश सर्वोऽसि त्वं नमोऽस्तु ते ॥२१॥
नमो नमस्तेऽच्युत चक्रपाणे नमोऽस्तु ते माधव मीनमूर्ते ।
लोके भवान् कारुणिको मतो मे त्रायस्व मां केशव पापबन्धात् ॥२२॥
ममाशुभं नाशय विग्रहस्थं यद् ब्रह्महत्याऽभिभवं बभूव ।
दग्धोऽस्मि नष्टोऽस्म्यसमीक्ष्यकारी पुनीहि तीर्थोऽसि नमो नमस्ते ॥२३॥
पुलस्त्य उवाच
इत्थं स्तुतश्चक्रधरः शंकरेण महात्मना ।
प्रोवाच भगवान् वाक्यं ब्रह्महत्याक्षयाय हि ॥२४॥
हरिरुवाच
महेश्वर श्रृणुष्वेमां मम वाचं कलस्वनाम् ।
ब्रह्महत्याक्षयकरीं शुभदां पुण्यवर्धनीम् ॥२५॥
योऽसौ प्राङ्मण्डले पुण्ये मदंशप्रभवोऽव्ययः ।
प्रयागे वसते नित्यं योगशायीति विश्रुतः ॥२६॥
चरणाद् दक्षिणात्तस्य विनिर्याता सरिद्वरा ।
विश्रुता वरणेत्येव सर्वपापहरा शुभा ॥२७॥
सव्यादन्या द्वितीया च असिरित्येव विश्रुता ।
ते उभे तु सरिच्छ्रेष्ठे लोकपूज्ये बभूवतुः ॥२८॥
ताभ्यां मध्ये तु यो देशस्तत्क्षेत्रं योगशायिनः ।
त्रैलोक्यप्रवरं तीर्थं सर्वपापप्रमोचनम् ।
न तादृशोऽस्ति गगने न भूम्यां न रसातले ॥२९॥
तत्रास्ति नगरी पुण्या ख्याता वाराणसी शुभा ।
यस्यां हि भोगिनोऽपीश प्रयान्ति भवतो लयम् ॥३०॥
विलासिनीनां रशनास्वनेन श्रुतिस्वनैर्ब्राह्मणपुंगवानाम् ।
शुचिस्वरत्वं गुरवो निशम्य हास्यादशासन्त मुहुर्मुहुस्तान् ॥३१॥
व्रजत्सु योषित्सु चतुष्पथेषु पदान्यलक्तारुणितानि दृष्ट्वा ।
ययौ शशी विस्मयमेव यस्यां किंस्वित् प्रयाता स्थलपदमिनीयम् ॥३२॥
तुङ्गानि यस्यां सुरमन्दिराणि रुन्धान्ति चन्द्रं रजनीमुखेषु ।
दिवाऽपि सूर्यं पवनाप्लुताभिर्दीर्घाभीरेवं सुपताकिकाभिः ॥३३॥
भृङ्गाश्च यस्यां शशिकान्तभित्तौ प्रलोभ्यमानाः प्रतिबिम्बितेषु ।
आलेख्ययोषिद्विमलाननाब्जेष्वीयुर्भ्रमान्नैव च पुष्पकान्तरम् ॥३४॥
परिभ्रमंश्चापि पराजितेषु नरेषु संमोहनलेखनेन ।
यस्यां जलक्रीडनसंगतासु न स्त्रीषु शंभो गृहदीर्घिकासु ॥३५॥
न चैव कश्चित् परमान्दिराणि रुणद्धि शंभो सहसा ऋतेऽक्षान् ।
न चाबलानां तरसा पराक्रमं करोति यस्यां सुरतं हि मुक्त्वा ॥३६॥
पाशग्रन्थिर्गजेन्द्राणां दानच्छेदो मदच्युतौ ।
यस्यां मानमदौ पुंसां करिणां यौवनागमे ॥३७॥
प्रियदोषाः सदा यस्यां कौशिका नेतरे जनाः ।
तारागणेऽकुलीनत्वं गद्ये वृत्तच्युतिर्विभो ॥३८॥
भूतिलुब्धा विलासिन्यो भुजंगपरिवारिताः ।
चन्द्रभूषितदेहाश्च यस्यां त्वमिव शंकर ॥३९॥
ईदृशायां सुरेशान वाराणस्यां महाश्रमे ।
वसते भगवाँल्लोलः सर्वपापहरो रविः ॥४०॥
दशाश्वमेधं यत्प्रोक्तं मदंशो यत्र केशवः ।
तत्र गत्वा सुरश्रेष्ठ पापमोक्षमवास्यसि ॥४१॥
इत्येवमुक्तो गरुडध्वजेन वृषध्वजस्तं शिरसा प्रणम्य ।
जगाम वेगाद् गरुडो यथाऽसौ वाराणसीं पापविमोचनाय ॥४२॥
गत्वा सुपुण्यां नगरीं सुतीर्थां दृष्ट्वा च लोलं सदशाश्वमेधम् ।
स्नात्वा च तीर्थेषु विमुक्तपापः स केशवं द्रष्टुमुपाजगाम ॥४३॥
केशवं शंकरो दृष्ट्वा प्रणिपत्येदमब्रवीत् ।
त्वत्प्रसादादधृषीकेश ब्रह्महत्या क्षयं गता ॥४४॥
नेदं कपालं देवेश मद्धस्तं परिमुञ्चति ।
कारणं वेद्मि न च तदेतन्मे वक्तुमर्हसि ॥४५॥
पुलस्त्य उवाच
महादेववचः श्रुत्वा केशवो वाक्यमब्रवीत् ।
विद्यते कारणं रुद्र तत्सर्वं कथयामि ते ॥४६॥
योऽसौ ममाग्रतो दिव्यो हदः पद्मोत्पलैर्युतः ।
एष तीर्थवरः पुण्यो देवगन्धर्वपूजितः ॥४७॥
एतस्मिन्प्रवरे तीर्थे स्नानं शंभो समाचर ।
स्नातमात्रस्य चाद्यैव कपालं परिमोक्ष्यति ॥४८॥
तत: कपाली लोके च ख्यातो रुद्र भविष्यसि ।
कपालमोचनेत्येवं तीर्थं चेदं भविष्यति ॥४९॥
पुलस्त्य उवाच
एवमुक्तः सुरेशेन केशवेन महेश्वरः ।
कपालमोचने सस्नौ वेदोक्तबिधिना मुने ॥५०॥
स्नातस्य तीर्थे त्रिपुरान्तकस्य परिच्युतं हस्ततलात् कपालम् ।
नाम्ना बभूवाथ कपालमोचनं तत्तीर्थवर्यं भगवत्प्रसादात् ॥५१॥