दण्ड उवाच
चित्राङ्गदायास्त्वरजे तत्र सत्या यथासुखम् ।
स्मरन्त्याः सुरथं वीरं महान् कालः समभ्यगात् ॥१॥
विश्वकर्माऽपि मुनिना शप्तो वानरतां गतः ।
न्यपतन्मेरुशिखराद भूपृष्ठं विधिचोदितः ॥२॥
वनं घोरं सुगुल्माढ्यं नदीं शालूकिनीमनु ।
शाल्वेयं पर्वतश्रेष्ठं समावसाति सुन्दरी ॥३॥
तत्रासतोऽस्य सुचिरं फलमूलान्यथाश्नतः ।
कालोऽत्यगाद वरारोहे बहुवर्षगणो वने ॥४॥
एकदा दैत्यसार्दूलः कन्दराख्यः सुतां प्रियाम् ।
प्रतिगृह्य समभ्यगात् ख्यातां देववतीमिति ॥५॥
तां च तद वनमायान्तीं समं पित्रा वराननाम् ।
ददर्श वानरश्रेष्ठः प्रजग्राह बलात् करे ॥६॥
ततो गृहीतां कपिना स दैत्यः स्वसुतां शुभे ।
कन्दरो वीक्ष्य संक्रुद्धः खङ्गमुद्यम्य चाद्रवत् ॥७॥
तमापतन्तं दैत्येन्द्रं दृष्ट्वा शाखामृगो बली ।
तथैव सह चार्वङ्या हिमाचलमुपागतः ॥८॥
ददर्श च महादेवं श्रीकण्ठं यमुनातटे ।
तस्याविदूरे गहनमातश्मं ऋषिवर्जितम् ॥९॥
तस्मिन् महाश्रमे पुण्ये स्थाप देववतीं कपिः ।
न्यमज्जत स कालिन्द्यां पश्यतो दानवस्य हि ॥१०॥
सोऽजानत् तां मृतां पुत्रीं समं शाखामृगेण हि ।
जगाम च महातेजाः पातालं निलयं निजम् ॥११॥
स चापि वानरो देव्या कालिन्द्या वेगतो हतः ।
नीतः शिवीति विख्यातं देशं शुभजनावृत्तम् ॥१२॥
ततस्तीर्त्वाऽथ वेगेन स कपिः पर्वतं प्रति ।
गन्तुकामो महातेजा यत्र न्यस्ता सुलोचना ॥१३॥
अथापश्यत् समायान्तमञ्जनं गुह्यकोत्तमम् ।
नन्दयन्त्या समं पुत्र्या गत्वा जिगामिषुः कपिः ॥१४॥
तां दृष्ट्वाऽमन्यत श्रीमान् सेयं देववती ध्रुवम् ।
तन्मे वृथा श्रमो जातो जलमज्जनसम्भवः ॥१५॥
इति संचिन्तयन्नेव समाद्रवत सुन्दरीम् ।
सा तद्भयाच्च न्यपतन्नदीं चैव हिरण्वतीम् ॥१६॥
गुह्यको वीक्ष्य तनयां पतितामापगाजले ।
दुःखशोकसमाक्रान्तो जगामाञ्जनपर्वतम् ॥१७॥
तत्रासौ तप आस्थाय मौनव्रतधरः शुचिः ।
समास्ते वै महातेजाः संवत्सरगणान् बहून् ॥!८॥
नन्दयन्त्यपि वेगेन हिरण्वत्याऽपवाहिता ।
नीता देशं महापुन्यं कौशलं साधुभिर्युतम् ॥१९॥
गच्छन्तो सा च रुदती ददृशे वटपादपम् ।
प्ररोहप्रावृततनुं जटाधरमिवेश्वरम् ॥२०॥
तं दृष्ट्वा विपुलच्छायं विशश्राम वरानना ।
उपविष्टा शिलापट्टे ततो वाचं प्रशुश्रुवे ॥२१॥
न सोऽस्ति पुरुषः कश्चिद यस्यं ब्रूयात् तपोधनम् ।
यथा स तनयस्तुभ्यमुद्वद्धो वटपादपे ॥२२॥
सा श्रुत्वा तां तदा वाणीं विस्पष्टाक्षरसंयुताम् ।
तिर्यगूर्ध्वमधश्चैव समन्तादवलोकयत् ॥२३॥
ददृशे वृक्षशिखरे शिशुं पञ्चाब्दिकं स्थितम् ।
पिङ्गलाभिर्जटाभिस्तु उद्वद्धं यत्नतः शुभे ॥२४॥
तं विद्रुवन्तं दृष्टैव नन्दयन्ती सुदुःखिता ।
प्राह केनासि बद्धस्त्वं पापिना वद बालक ॥२५॥
स तामाह महाभागे बद्धोऽस्मि कपिना वटे ।
जटास्वेवं सुदुष्टेन जीवामि तपसो बलात् ॥२६॥
पुरोन्मत्तपुरेत्येव तत्र देवो महेश्वरः ।
तत्रास्ति तपसो राशिः पिता मम ऋतध्वजः ॥२७॥
तस्यास्मि जपमानस्य महायोगं महात्मनः ।
जातोऽलिवृन्दसंयुक्तः सर्वशास्त्रविशारदः ॥२८॥
ततो मामब्रवीत् तातो नाम कृत्वा शुभानने ।
जाबालीति परिख्याय तच्छृणुष्व शुभानने ॥२९॥
पञ्चवर्षसहस्त्राणि बाल एव भविष्यसि ।
दशवर्षसहस्त्राणि कुमारत्वे चरिष्यसि ॥३०॥
विंशतिं यौवनस्थायी वीर्येण द्विगुणं ततः ।
पञ्चवर्षशतान् बालो भोक्ष्यसे बन्धनं दृढम् ॥३१॥
दशवर्षशतान्येव कौमारे कायपीडनम् ।
यौवने परमान् भोगान् द्विजसहस्त्रसमास्तथा ॥३२॥
चत्वारिंशच्छतान्येव वार्धके क्लेशमुत्तमम् ।
लप्स्यस्से भूमिशय्याढ्यं कदन्नाशनभोजनम् ॥३३॥
इत्येवमुक्तः पित्राऽहं बालः पञ्चाब्ददेशिकः ।
विचरामि महीपृष्ठं गच्छन् स्त्रातुं हिरण्वतीम् ॥३४॥
ततोऽपश्यं कपिवरं सोऽवदन्मां क्व यास्यसि ।
इमां देववतीं गुह्यं मूढ न्यस्तां महाश्रमे ॥३५॥
ततोऽसौ मां सभादाय विस्फुरन्तं प्रयत्नतः ।
वटाग्रेऽस्मिन्नुदबबन्ध जटाभिरपि सुन्दरि ॥३६॥
तथा च रक्षा कपिना कृता भीरु निरन्तरैः ।
लतापाशैर्महायन्त्रमधस्ताद दुष्टबुद्धिना ॥३७॥
अभेद्योऽयमनाक्रम्य उपरिष्टात् तथाप्यधः ।
दिशां मुखेषु सर्वेषु कृतं यन्त्रं लतामयम् ॥३८॥
संयम्य मां किपिवरः प्रयातोऽमरपर्वतम् ।
यथेच्छया मया दृष्टमेतत ते गदितं शुभे ॥३९॥
भवती का महारण्ये ललना परिवर्जिता ।
समायाता सुचार्वङ्गी केन सार्थेन मां वद ॥४०॥
साऽब्रवीदञ्जनो नाम गुह्यकेन्द्रः पिता मम ।
नन्दयन्तीति मे नाम प्रम्लोचागर्भसम्भवा ॥४१॥
तत्र मे जातके प्रोक्तमृषिणा मुदगलेन हि ।
इयं नरेन्द्रमहिषी भविष्यति न संशयः ॥४२॥
तद्वाक्यसमकालं च व्यनदद देवदुन्दुभिः ।
शिवा चाशिवनिर्घोषा ततो भूयोऽब्रवीन्मुनिः ॥४३॥
न संदेहो नरतेर्महाराज्ञी भविष्यति ।
महान्तं संशयं घोरं कन्याभावे गमिष्यसि ।
ततो जगाम स ऋषिरेवमुक्त्वा वचोऽद्भुतम् ॥४४॥
पिता मामपि चादाय समागन्तुमथैच्छत ।
तीर्थं ततो हिरण्वत्यास्तीरात् कपिरथोत्पतत् ॥४५॥
तद्भयाच्च मया ह्यात्मा क्षिप्तः सागरगाजले ।
तयाऽस्मि देशमानीता इमं मानुषवर्जितम् ॥४६॥
श्रुत्वा जाबालिरथ तद वचनं वै तयोदितम् ।
प्राह सुन्दरि गच्छस्व श्रीकण्ठं यमुनातटे ॥४७॥
तत्रागच्छति मध्याह्ने मत्पिता शर्वमर्चितुम् ।
तस्मै निवेदयात्मानं तत्र श्रेयोऽधिलप्स्यसे ॥४८॥
ततस्तु त्वरिता काले नन्दयन्ती तपोनिधिम् ।
परित्राणार्थमगमद्धिमाद्रेर्यमुनां नदीम् ॥४९॥
सा त्वदीर्घेण कालेन कन्दमूलफलाशना ।
सम्प्राप्ता शङ्करस्थानं यत्रागच्छति तापसः ॥५०॥
ततः सा देवदेवेशं श्रीकण्ठं लोकवन्दितम् ।
प्रतिवन्द्य ततोऽपश्यदक्षरांस्तान्महामुने ॥५१॥
तेषामर्थं हि विज्ञाय सा तदा चारुहासिनी ।
तज्जाबाल्युदितं श्लोकमलिखच्चान्यमात्मनः ॥५२॥
मुद्गलेनास्मि गदिता राजपत्नी भविष्यति ।
सा चावस्थामिमां प्राप्ता कश्चिन्मां त्रातुमीश्वरः ॥५३॥
इत्युल्लिख्य शिलापट्टे गता स्नातुं यमस्वसाम् ।
ददृशे चाश्रमवरं मत्तकोकिलनादितम् ॥५४॥
ततोऽमन्यत सात्रर्षिर्नूनं तिष्ठति सत्तमः ।
इत्येवं चिन्तयन्ती सा सम्प्रविष्टा महाश्रमम् ॥५५॥
ततो ददर्श देवाभां स्थितां देववतीं शुभाम् ।
संशुष्कास्यां चलन्नेत्रां परिम्लानामिवाब्जिनीम् ॥५६॥
सा चापतन्तीं ददृशे यक्षजां दैत्यनन्दिनी ।
केयमित्येव संचिन्त्य समुत्थाय स्थिताभवत् ॥५७॥
ततोऽन्योन्यं समालिङ्ग्य गाढं गाढं सुहत्तया ।
पप्रच्छतुस्तथान्योऽन्यं कथयामासतुस्तदा ॥५८॥
ते परिज्ञाततत्त्वार्थे अन्योन्यं ललनोत्तमे ।
समासीने कथाभिस्ते नानारुपाभिरादरात् ॥५९॥
एतस्मिन्नन्तरे प्राप्तः श्रीकण्ठं स्त्रातुमादरात् ।
स तत्त्वज्ञो मुनिश्रेष्ठो अक्षराण्यवलोकयन् ॥६०॥
स दृष्ट्वा वाचयित्वा च तमर्थमधिगम्य च ।
मुहूर्तं ध्यानमास्थाय व्यजानाच्च तपोनिधिः ॥६१॥
ततः सम्पूज्य देवेशं त्वरया स ऋतध्वजः ।
अयोध्यामगमत् क्षिप्रं द्रष्टुमिक्ष्वाकुमीश्वरम् ॥६२॥
तं दृष्ट्वा नृपतिश्रेष्ठं तापसो वाक्यमब्रवीत् ।
श्रूयतां नरशार्दूल विज्ञप्तिर्मम पार्थिव ॥६३॥
मम पुत्रो गुणैर्युक्तः सर्वशास्त्रविशारदः ।
उदबद्धः कपिना राजन् विषयान्ते तवैव हि ॥६४॥
तं हि मोचयितुं नान्यः शक्तस्त्वत्तनयादृते ।
शकुनिर्नाम राजेन्द्र स ह्यस्त्रविधिपारगः ॥६५॥
तन्मुनेर्वाक्यमाकर्ण्य पिता मम कृशोदरि ।
आदिदेश प्रियं पुत्रं शकुनिं तापसान्वये ॥६६॥
ततः स प्रहितः पित्रा भ्राता मम महाभुजः ।
सम्प्राप्तो बन्धनोद्देशं समं हि परमर्षिणा ॥६७॥
दृष्ट्वा न्यग्रोधमत्युच्चं प्ररोहास्तृतदिङ्मुखम् ।
ददर्श वृक्षशिखरे उद्वद्धमृषिपुत्रकम् ॥६८॥
तांश्च सर्वांल्लतापाशान दृष्टवान् स समन्ततः ।
दृष्ट्वा स मुनिपुत्रं तं स्वजटासंयतं वटे ॥६९॥
धनुरादाय बलवानधिज्यं स चकार ह ।
लाघवादृषिपुत्रं तं रक्षंश्चिच्छेद मार्गणैः ॥७०॥
कपिना यत् कृतं सर्वं लतापाशं चतुर्दिशम् ।
पञ्चवर्षशते काले गते शक्तस्तदा शरैः ॥७१॥
लताच्छन्नं ततस्तूर्णमारुरोह मुनिर्वटम् ।
प्राप्तं स्वपितरं दृष्ट्वा जाबालिः संयताऽपि सन् ॥७२॥
आदरात् पितरं मूर्ध्ना ववन्दे तु विधानतः ।
सम्परिष्वज्य स मुनिर्मूर्ध्न्याघ्राय सुतं ततः ॥७३॥
उन्मोचयितुमारब्धो न शशाक सुसंयतम् ।
ततस्तूर्णं धनुर्न्यस्य बाणांश्च शकुनिर्बली ॥७४॥
आरुरोह वटं तूर्णं जटा मोचयितुं तदा ।
न च शक्नोति संच्छन्नं दृढं कपिवरेण हि ॥७५॥
यदा न शकितास्तेन सम्प्रमोचयितुं जटाः ।
तदाऽवतीर्णः शकुनिः सहितः परमर्षिणा ॥७६॥
जग्राह च धनुर्बाणांश्चकार शरमण्डपम् ।
लाघवादर्द्धचन्द्रैस्तां शाखां चिच्छेद स त्रिधा ॥७७॥
शाखया कृत्तया चासौ भारवाही तपोधनः ।
शरसोपानमार्गेण अवतीर्णोऽथ पादपात् ॥७८॥
तस्मिंस्तदा स्वे तनये ऋतध्वजस्त्राते नरेन्द्रस्य सुतेन धन्विना ।
जाबालिना भारवहेन संयुतः समाजगामाथ नदीं स सूर्यजाम् ॥७९॥