दण्डक उवाच
एतस्मिन्नन्तरे बाले यक्षासुरसुते शुभे ।
समागते हरं द्रष्टुं श्रीकण्ठं योगिनां वरम् ॥१॥
ददृशाते परिम्लानसंशुष्ककुसुमं विभुम् ।
बहुनिर्माल्यसंयुक्तं गते तस्मिन् ऋतध्वजे ॥२॥
ततस्तं वीक्ष्य देवेशं ते उभे अपि कन्यके ।
स्त्रापयेतां विधानेन पूजयेतामहर्निशम् ॥३॥
ताभ्यां स्थिताभ्यां तत्रैव ऋषिरभ्यागमद वनम् ।
द्रष्टुं श्रीकण्ठमव्यक्तं गालवो नाम नामतः ॥४॥
स दृष्ट्वा कन्यकायुग्मं कस्येदमिति चिन्तयन् ।
प्रविवेश शुचिः स्त्रात्वा कालिन्द्या विमले जले ॥५॥
ततोऽनुपूजयामास श्रीकण्ठं गालवो मुनिः ।
गायेते सुस्वरं गीतं यक्षासुरसुते ततः ॥६॥
ततः स्वरं समाकर्ण्य गालवस्ते अजानत ।
गन्धर्वकन्यके चैते संदेहो नात्र विद्यते ॥७॥
सम्पूज्य देवमीशानं गालवस्तु विधानतः ।
कृतजप्यः समध्यास्ते कन्याभ्यामभिवादितः ॥८॥
ततः पप्रच्छ स मुनिः कन्यके कस्य कथ्यताम् ।
कुलालङ्कारकरणे भक्तियुक्ते भवस्य हि ॥९॥
तमूचतुर्मुनिश्रेष्ठं याथातथ्यं शुभानने ।
जातो विदितवृत्तान्तो गालवस्तपतां वरः ॥१०॥
समुष्य तत्र रजनीं ताभ्यां सम्पूजितो मुनिः ।
प्रातरुत्थाय गौरीशं सम्पूज्य च विधानतः ॥११॥
ते उपेत्याब्रवीद्यास्ये पुष्करारण्यमुत्तमम् ।
आमन्त्रयामि वां कन्ये समनुज्ञातुमर्हथः ॥१२॥
ततस्ते ऊचतुर्ब्रह्मन् दुर्लभं दर्शनं तव ।
किमर्थं पुष्करारण्यं भवान् यास्यत्यथादरात् ॥१३॥
ते उवाच महातेजा महत्कार्यसमन्वितः ।
कार्तिकी पुण्यदा भाविमासान्ते पुष्करेषु हि ॥१४॥
ते ऊचतुर्वयं यामो भवान् यत्र गमिष्यति ।
न त्वया स्म विना ब्रह्मन्निह स्थातुं हि शक्नुवः ॥१५॥
बाढमाह ऋषिश्रेष्ठस्ततो नत्वा महेश्वरम् ।
गते ते ऋषिणा सार्द्ध पुष्करारण्यमादरात् ॥१६॥
तथाऽन्ये ऋषयस्तत्र समायाताः सहस्त्रशः ।
पार्थिवा जानपद्याश्च मुक्त्वैकं तमृतध्वजम् ॥१७॥
ततः स्त्राताश्च कार्तिक्यामृषयः पुष्करेष्वथ ।
राजानश्च महाभागा नाभागेक्ष्वाकुसंयुताः ॥१८॥
गालवोऽपि समं ताभ्यां कन्यकाभ्यामवातरत् ।
स्त्रातुं स पुष्करे तीर्थे मध्यमे धनुषाकृतौ ॥१९॥
निमग्नश्चापि ददृशे महामत्स्यं जलेशयम् ।
बह्वीभिर्मत्स्यकन्याभिः प्रीयमाणं पुनः पुनः ॥२०॥
स ताश्चाह तिमिर्मुग्धा यूयं धर्मं न जानथ ।
जनापवादं घोरं हि न शक्तः सोढुमुल्बणम् ॥२१॥
तास्तमूचुर्महामत्स्यं किं न पश्यसि गालवम् ।
तापसं कन्यकाभ्यां वै विचरन्तं यथेच्छया ॥२२॥
यद्यसावपि धर्मात्मा न बिभेति तपोधनः ।
जनापवादात् तत्किं त्वं बिभेषि जलमध्यगः ॥२३॥
ततस्ताश्चाह स तिमिर्नैष वेत्ति तपोधनः ।
रागान्धो नापि च भयं विजानाति सुबालिशः ॥२४॥
तच्छुत्वा मत्स्यवचनं गालवो व्रीडया युतः ।
नोत्ततार निमग्नोऽपि तस्थौ स विजितेन्द्रियः ॥२५॥
स्त्रात्वा ते अपि रम्भोरु समुत्तीर्य तटे स्थिते ।
प्रतीक्षन्त्यौ मुनिवरं तद्दर्शनसमुत्सुके ॥२६॥
वृत्ता च पुष्करे यात्रा गता लोका यथागतम् ।
ऋषयः पार्थिवाश्चान्ये नाना जानपदास्तदा ॥२७॥
तत्र स्थितैका सुदती विश्वकर्मतनूरुहा ।
चित्राङ्गदा सुचार्वङ्गी वीक्षन्ती तनुमध्यमे ॥२८॥
ते स्थिते चापि वीक्षन्त्यौ प्रतीक्षन्त्यौ च गालवम् ।
संस्थिते निर्जने तीर्थे गालवोऽन्तर्जले तथा ॥२९॥
ततोऽभ्यागाद वेदवती नाम्ना गन्धर्वकन्यका ।
पर्जन्यतनया साध्वी घृताचीगर्भसम्भवा ॥३०॥
सा चाभ्येत्य जले पुण्ये स्त्रात्वा मध्यमपुष्करे ।
ददर्श कन्यात्रितयमुभयोस्तटयोः स्थितम् ॥३१॥
चित्राङ्गदामथाभ्येत्य पर्यपृच्छदनिष्ठुरम् ।
कासि केन च कार्येण निर्जने स्थितवत्यसि ॥३२॥
सा तामुवाच पुत्रीं मां विन्दस्व सुरवर्धकेः ।
चित्राङ्गदेति सुश्रोणि विख्यातां विश्वकर्मणः ॥३३॥
साहमभ्यागता भद्रे स्त्रातुं पुण्यां सरस्वतीम् ।
नैमिषे काञ्चनाक्षीं तु विख्यातां धर्ममातरम् ॥३४॥
तत्रागताथ राज्ञाऽहं दृष्ट्वा वैदर्भकेण हि ।
सुरथेन स कामार्तो मामेव शरणं गतः ॥३५॥
मयात्मा तस्य दत्तश्च सखीभीर्वार्यमाणया ।
ततः शप्ताऽस्मि तातेन वियुक्तास्मि च भूभुजा ॥३६॥
मर्तुं कृतमतिर्भद्रे वारिता गुह्यकेन च ।
श्रीकण्ठमगमं द्रष्टुं ततो गोदावरं जलम् ॥३७॥
तस्मादिमं समायाता तीर्थप्रवरमुत्तमम् ।
न चापि दृष्टः सुरथः स मनोह्वादनः पतिः ॥३८॥
भवती चात्र का बाले वृत्ते यात्राफलेऽधुना ।
समागता हि तच्छंस मम सत्येन भामिनि ॥३९॥
साब्रवीच्छूयतां याऽस्मि मन्दभाग्या कृशोदरी ।
यथा यात्राफले वृते समायाताऽस्मि पुष्करम् ॥४०॥
पर्जन्यस्य घृताच्यां तु जाता वेदवतीति हि ।
रममाणा वनोद्देशे दृष्टाऽस्मि कपिना सखि ॥४१॥
स चाभ्येत्याब्रवीत् का त्वं यासि देववतीति हि ।
आनीतास्याश्रमात् केन भूपृष्ठान्मेरुपर्वतम् ॥४२॥
ततो मयोक्तो नैवास्मि कपे देववतीत्यहम् ।
नाम्ना वेदवतीत्येवं मेरोरपि कृताश्रया ॥४३॥
ततस्तेनातिदुष्टेन वानरेण ह्यभीद्रुता ।
समारुढास्मि सहसा बन्धुजीवं नगोत्तमम् ॥४४॥
तेनापि वृक्षस्तरसा पादाक्रान्तस्त्वभज्यत ।
ततोऽस्य विपुलां शाखां समालिङ्ह्य स्थिता त्वहम् ॥४५॥
ततः प्लवङ्गमो वृक्षं प्राक्षिपत् सागराम्भसि ।
सह तेनैव वृक्षेण पतितास्म्यहमाकुला ॥४६॥
ततोऽम्बरतलाद वृक्षं निपतन्तं यदृच्छया ।
ददृशुः सर्वभूतानि स्थावराणि चराणि च ॥४७॥
ततो हाहाकृतं लोकैर्मां पतन्तीं निरीक्ष्य हि ।
ऊचुश्च सिद्धगन्धर्वाः कष्टं सेयं महात्मनः ॥४८॥
इन्द्रद्युम्नस्य महिषी गदिता ब्रह्मणा स्वयम् ।
मनोः पुत्रस्य वीरस्य सहस्त्र्रक्रतुयाजिनः ॥४९॥
तां वाणीं मधुरां श्रुत्वा मोहमस्म्यागता ततः ।
न च जाने स केनापि वृक्षश्छिन्नः सहस्त्रधा ॥५०॥
ततोऽस्मि वेगाद बलिना हतानलसखेन हि ।
समानीतास्म्यहमिमं त्वं दृष्टा चाद्य सुन्दरि ॥५१॥
तदुत्तिष्ठस्व गच्छावः पृच्छावः क इमे स्थिते ।
कन्यके अनुपश्ये हि पुष्करस्योत्तरे तटे ॥५२॥
एवमुक्त्वा वराङ्गी सा तया सुतनुकन्यया ।
जगाम कन्यके द्रष्टुं प्रष्टुं कार्यसमुत्सुका ॥५३॥
ततो गत्वा पर्यपृच्छत ते ऊचतुरुभे अपि ।
याथातथ्यं तयोस्ताभ्यां स्वमात्मानं निवेदितम् ॥५४॥
ततस्ताश्चतुरोपीह सप्तगोदावरं जलम् ।
सम्प्राप्य तीर्थे तिष्ठन्ति अर्चन्त्यो हाटकेश्वरम् ॥५५॥
ततो बहून् वर्षगणान् बभ्रमुस्ते जनास्त्रयः ।
तासामर्थाय शकुनिर्जाबालिः स ऋतध्वजः ॥५६॥
भारवाही ततः खिन्नो दशाब्दशतिके गते ।
काले जगाम निर्वेदात् समं पित्रा तु शाकलम् ॥५७॥
तस्मिरपतिः श्रीमानिन्द्रद्युम्नो मनोः सुतः ।
समध्यास्ते स विज्ञाय सार्घपात्रो विनिर्ययौ ॥५८॥
सम्यक् सम्पूजितस्तेन सजाबालिऋतध्वजः ।
स चेक्ष्वाकुसुतो धीमान् शकुनिर्भ्रातृजोऽर्चितः ॥५९॥
ततो वाक्यं मुनिः प्राह इन्द्रद्युम्नमृतध्वजः ।
राजन् नष्टाऽबलास्माकं नन्दयन्तीति विश्रुता ॥६०॥
तस्यार्थे चैव वसुधा अस्माभिरटिता नृप ।
तस्मादुत्तिष्ठ मार्गस्व साहाय्यं कर्तुमर्हसि ॥६१॥
अथोवाच नृपो ब्रह्मन् ममापि ललनोत्तमा ।
नष्टा कृतश्रमस्यापि कस्याहं कथयामि ताम् ॥६२॥
आकाशात् पर्वताकारः पतनामो नगोत्तमः ।
सिद्धानां वाक्यमाकर्ण्य बाणैश्छिन्नः सहस्त्रधा ॥६३॥
न चैव सा वरारोहा विभिन्ना लाघवान्मया ।
न च जानामि सा कुत्र तस्माद् गच्छामि मार्गितुम् ॥६४॥
इत्येवमुक्त्वा स नृपः समुत्थाय त्वरान्वितः ।
स्यन्दनानि द्विजाभ्यां स भ्रातृपुत्राय चार्पयत् ॥६५॥
तेऽधिरुह्य रथांस्तूर्णं मार्गन्ते वसुधां क्रमात् ।
बदर्याश्रममासाद्य ददृशुस्तपसां निधिम् ॥६६॥
तपसा कर्शितं दीनं मलपङ्कजटाधरम् ।
निः श्वासायासपरमं प्रथमे वयसि स्थितम् ॥६७॥
तमुपेत्याब्रवीद राजा इन्द्रद्युम्नो महाभुजः ।
तपस्विन् यौवने घोरमास्थितोऽसि सुदुश्चरम् ॥६८॥
तपः किमर्थं तच्छंस किमभिप्रेतमुच्यताम् ।
सोऽब्रवीत् को भवान् ब्रूहि ममात्मानं सुहत्तया ॥६९॥
परिपृच्छसि शोकार्तं परिखिन्नं तपोऽन्वितम् ।
स प्राह राजाऽस्मि विभो तपस्विञ्शाकले पुरे ॥७०॥
मनोः पुत्रः प्रियो भ्राता इक्ष्वाकोः कथितं तव ।
स चास्मै पूर्वचरितं सर्वं कथितवान् नृपः ॥७१॥
श्रुत्वा प्रोवाच राजर्षिर्मा मुञ्चस्व कलेवरम् ।
आगच्छ यामि तन्वङ्गीं विचेतुं भ्रातृजोऽसि मे ॥७२॥
इत्युक्त्वा सम्परिष्वज्य नृपं धमनिसंततम् ।
समारोप्य रथं तूर्णं तापसाभ्यां न्यवेदयत् ॥७३॥
ऋतध्वजः सपुत्रस्तु तं दृष्ट्वा पृथिवीपतिम् ।
प्रोवाच राजन्नेह्येहि करिष्यामि तव प्रियम् ॥७४॥
यासौ चित्राङ्गदा नाम त्वया दृष्ट्वा हि नैमिषे ।
सप्तगोदावरं तीर्थं सा मयैव विसर्जिता ॥७५॥
तदागच्छथ गच्छामः सौदेवस्यैव कारणात् ।
तत्रास्माकं समेष्यन्ति कन्यास्तिस्त्रस्तथापराः ॥७६॥
इत्येवमुक्त्वा स ऋषिः समाश्चास्य सुदेवजम् ।
शकुनिं स ऋषिः समाश्चास्य सुदेवजम् ।
शकुनिं पुरतः कृत्वा सेन्द्रद्युम्नः सपुत्रकः ॥७७॥
स्यन्दनेनाश्वयुक्तेन गन्तुं समुपचक्रमे ।
सप्तगोदावरं तीर्थं यत्र ताः कन्यका गताः ॥७८॥
एतस्मिन्नन्तरे तन्वी घृताची शोकसंयुता ।
विचचारोदयगिरिं विचिन्वन्ती सुतां निजाम् ॥७९॥
तमाससाद च कपिं पर्यपृच्छत् तथाप्सराः ।
किं बाला न त्वया दृष्टा कपे सत्यं वदस्व माम् ॥८०॥
तस्यास्तद वचनं श्रुत्वा स कपिः प्राह बालिकाम् ।
दृष्टा देववती नाम्ना मया न्यस्ता महाश्रमे ॥८१॥
कालिन्द्या विमले तीर्थे मृगपक्षिसमन्विते ।
श्रीकण्ठायतनस्याग्रे मया सत्यं तवोदितम् ॥८२॥
सा प्राह वानरपते नाम्ना वेदवतीति सा ।
न हि देववती ख्याता तदागच्छ व्रजावहे ॥८३॥
घृताच्यास्तद्वचः श्रुत्वा वानरस्त्वरितक्रमः ।
पृष्ठतोऽस्याः समागच्छन्नदीमन्वेव कौशिकीम् ॥८४॥
ते चापि कौशिकीं प्राप्ता राजर्षिप्रवरास्त्रयः ।
द्वितयं तापसाभ्यां च रथैः परमवेगिभिः ॥८५॥
अवतीर्य रथेभ्यस्ते स्त्रातुमभ्यागमन् नदीम् ।
घृताच्यपि कपिः प्रायाद दृष्टो जाबालिना तथा ।
दृष्टैव पितरं प्राह पार्थिवं च महाबलम् ॥८७॥
स एव पुनरायाति वानरस्तात वेगवान् ।
पूर्वं जटास्वेव बलाद्येन बद्धोऽसि पादपे ॥८८॥
तज्जाबालिवचः श्रुत्वा शकुनिः क्रोधसंयुतः ।
सशरं धनुरादाय इदं वचनमब्रवीत् ॥८९॥
ब्रह्मन् प्रदीयतां मह्यमाज्ञां तात वदस्व माम् ।
यावदेनं निहन्म्यद्य शरेणैकेन वानरम् ॥९०॥
इत्येवमुक्ते वचने सर्वभूतहिते रतः ।
महर्षिः शकुनिं प्राह हेतुयुक्तं वचो महत् ॥९१॥
न कश्चित्तात केनापि बध्यते हन्यतेऽपि वा ।
बधबन्धौ पूर्वकर्मवश्यौ नृपतिनन्दन ॥९२॥
इत्येवमुक्त्वा शकुनिमृषिर्वानरमब्रवीत् ।
एह्येति वानरास्माकं साहाय्यं कर्तुमर्हसि ॥९३॥
इत्येवमुक्तो मुनिना बाले स कपिकुञ्जरः ।
कृताञ्जलिपुटो भूत्वा प्रणिपत्येदमब्रवीत् ।
ममाज्ञा दीयतां ब्रह्मञ् शाधि किं करवाण्यहम् ॥९४॥
इत्युक्ते प्राह स मुनिस्तं वानरपतिं वचः ।
मम पुत्रस्त्वयोद्वद्धो जटासु वटपादपे ॥९५॥
न चोन्मोचयितुं वृक्षाच्छक्नुयामोऽपि यत्नतः ।
तदनेन नरेन्द्रेण त्रिधा कृत्वा तु शाखिनः ॥९६॥
शाखां वहति मत्सूनुः शिरसा तां विमोचय ।
दशवर्षशतान्यस्य शाखां वै वहतोऽगमन् ॥९७॥
न च सोऽस्ति पुमान् कश्चिद् यो ह्युन्मोचयितुं क्षमः ।
स ऋषेर्वाक्यमाकर्ण्य कपिर्जाबालिनो जटाः ॥९८॥
शनैरुन्मोचयामास क्षणादुन्मोचिताश्च ताः ।
ततः प्रीतो मुनिश्रेष्ठो वरदोऽभूदृतध्वजः ॥९९॥
कपिं प्राह वृणीष्व त्वं वरं यन्मनसेप्सितम् ।
ऋतध्वजवचः श्रुत्वा इमं वरमयाचत ॥१००॥
विश्वकर्मा महातेजाः कपित्वे प्रतिसंस्थितः ।
ब्रह्मन् भवान् वरं मह्यं यदि दातुमिहेच्छति ॥१०१॥
तत्स्वदत्तो महाघोरो मम शापो निवर्त्यताम् ।
चित्राङ्गदायाः पितरं मां त्वष्टारं तपोधन ॥१०२॥
अभिजानीहि भवतः शापाद्वानरतां गतम् ।
सुबहूनि च पापानि मया यानि कृतानि हि ॥१०३॥
कपिचापल्यदोषेण तानि मे यान्तु संक्षयम् ।
ततो ऋतध्वजः प्राह शापस्यान्तो भविष्यन्ति ॥१०४॥
यदा घृताच्यां तनयं जनिष्यसि महाबलम् ।
इत्येवमुक्तः संहष्टः स तदा कपिकुञ्जरः ॥१०५॥
स्त्रातुं तूर्णं महानद्यामवतीर्णः कृशोदरि ।
ततस्तु सर्वे क्रमशः स्त्रात्वाऽर्च्य पितृदेवताः ॥१०६॥
जग्मुर्हष्टा रथेभ्यस्ते घृताची दिवमुत्पतत् ।
तमन्वेव महावेगः स कपिः प्लवतां वरः ॥१०७॥
ददृशे रुपसम्पन्नां घृताचीं स प्लवङ्गमः ।
सापि तं बलिना श्रेष्ठं दृष्टैव कपिकुञ्जरम् ॥१०८॥
ज्ञात्वाऽथ विश्वकर्माणं कामयामास कामिनी ।
ततोऽनुपर्वतश्रेष्ठे ख्याते कोलाहले कपिः ॥१०९॥
रमयामास तां तन्वीं सा च तं वानरोत्तमम् ।
एवं रमन्तौ सुचिरं सम्प्राप्तौ विन्ध्यपर्वतम् ॥११०॥
रथैः पञ्चापि तत्तीर्थं सम्प्राप्तास्ते नरोत्तमाः ।
मध्याह्नसमये प्रीताः सप्तगोदावरं जलम् ॥१११॥
प्राप्य विश्रामहेत्वर्थमवतेरुस्त्वरान्विताः ।
तेषां सारथयश्चाश्वान् स्त्रात्वा पीतोदकाप्लुतान् ॥११२॥
रमणीये वनोद्देशे प्रचारार्थे समुत्सृजन् ।
शाङ्वलाढ्येषु देशेषु मुहूर्त्तादेव वाजिनः ॥११३॥
तृप्ताः समाद्रवन् सर्वे देवायतनमुत्तमम् ।
तुरङ्गखुरनिर्घोषं श्रुत्वा ता योषितां वराः ॥११४॥
किमेतदिति चोक्त्वैव प्रजग्मुहाटकेश्वरम् ।
आरुह्य बलभीं तास्तु समुदैक्षन्त सर्वशः ॥११५॥
अपश्यंस्तीर्थसलिले स्त्रायमानान् नरोत्तमान् ।
ततश्चित्राङ्गदा दृष्ट्वा जटामण्डलधारिणम् ।
सुरथं हसती प्राह संरोहत्पुलका सखीम् ॥११६॥
योऽसौ युवा नीलघनप्रकाशः संदृश्यते दीर्घभुजः सुरुपः ।
सोमराज कामराज रञ्जक अञ्जनराजकन्याहदचल -
वसते समुद्रशायिन् गजमुख घण्टेश्वर गोकर्ण ब्रह्मयोने
सहस्त्रवक्त्राक्षिचरण हाटकेश्वर नमोऽस्तु ते ॥
एतस्मिन्नन्तरे प्राप्ताः सर्व एवर्षिपार्थिवाः ।
द्रष्टुं त्रैलोक्यकर्तारं त्र्यम्बकं हाटकेश्वरम् ॥१२१॥
समारुढाश्च सुस्त्राता ददृशुर्योषितश्च ताः ।
स्थितास्तु पुरतस्तस्य गायन्त्यो गेयमुत्तमम् ॥१२२॥
ततः सुदेवतनयो विश्वकर्मसुतां प्रियाम् ।
दृष्ट्वा हषितचित्तस्तु संरोहत्पुलको बभौ ॥१२३॥
ऋतध्वजोऽपि तन्वङ्गीं दृष्ट्वा चित्राङ्गदां स्थिताम् ।
प्रत्यभिज्ञाय योगात्मा बभौ मुदितमानसः ॥१२४॥
ततस्तु सहसाऽभ्येत्य देवेशं हाटकेश्वरम् ।
सम्पूजयन्तस्त्र्यक्षं ते स्तुवन्तः संस्थिताः क्रमात् ॥१२५॥
चित्राङ्गदापि तान् दृष्ट्वा ऋतध्वजपुरोगमान् ।
समं ताभिः कृशाङ्गीभिरभ्युत्थायाभ्यवादयत् ॥१२६॥
स च ताः प्रतिनन्द्यैव समं पुत्रेण तापसः ।
समं नृपतिभिर्हष्टः संविवेश यथासुखम् ॥१२७॥
ततः कपिवरः प्राप्तो घृताच्या सह सुन्दरि ।
स्त्रात्वा गोदावरीतीर्थे दिदृक्षुहाटकेश्वरम् ॥१२८॥
ततोऽपश्यत् सुतां तन्वीं घृताची शुभदर्शनाम् ।
साऽपि तां मातरे दृष्ट्वा हष्टाऽभूद्वरवर्णिनी ॥१२९॥
ततो घृताची स्वां पुत्रीं परिष्वज्य न्यपीडयत् ।
स्नेहात् सवाष्पनयनां मुहुस्तां परिजिघ्रती ॥१३०॥
ततो ऋतध्वजः श्रीमान् कपिं वचनमब्रवीत् ।
गच्छानेतुं गुह्यकं त्वमञ्जनाद्रौ महाञ्जनम् ॥१३१॥
पातालादपि दैत्येशं वीरं कन्दरमालिनम् ।
स्वर्गाद गन्धर्वराजानं पर्जन्यं शीघ्रमानय ॥१३२॥
इत्येवमुक्ते मुनिना प्राह देववती कपिम् ।
गालवं वानरश्रेष्ठ इहानेतुं त्वमर्हसि ॥१३३॥
इत्येवमुक्ते वचने कपिर्मारुतविक्रमः ।
गत्वाऽञ्जनं समामन्त्र्य जगामामरपर्वतम् ॥१३४॥
पर्जन्यं तत्र चामन्त्र्य प्रेषयित्वा महाश्रमे ।
सप्तगोदावरे तीर्थे पातालमगमत् कपिः ॥१३५॥
तत्रामन्त्र्य महावीर्यं कपिः कन्दरमालिनम् ।
पातालादभिनिष्क्रम्यं महीं पर्यचरज्जवी ॥१३६॥
गालवं तपसो योनिं दृष्ट्वा माहिष्मतीमनु ।
समुत्पत्यानयच्छीघ्रं सप्तगोदावरं जलम् ॥१३७॥
तत्र स्त्रात्वा विधानेन सम्प्राप्तो हाटकेश्वरम् ।
ददृशे नन्दयन्ती च स्थितां देववतीमपि ॥१३८॥
तं दृष्ट्वा गालवं चैव समुत्थायाभ्यवादयत् ।
स चार्चिष्यन्महादेवं महर्षीनभ्यवादयत् ।
ते चापि नृपतिश्रेष्ठास्तं सम्पूज्य तपोधनम् ॥१३९॥
प्रहर्षमतुलं गत्वा उपविष्टा यथासुखम् ।
तेषूपविष्टेषु तदा वानरोपनिमन्त्रिताः ॥१४०॥
समायाता महात्मानो यक्षगन्धर्वदानवाः ।
तानागतान् समीक्ष्यैव पुत्र्यस्ताः पृथुलोचनाः ॥१४१॥
स्त्रेहार्द्रनयनाः सर्वास्तदा सस्वजिरे पितृन् ।
नन्दयन्त्यादिका दृष्ट्वा सपितृका वरानना ॥१४२॥
सवाष्यनयना जाता विश्वकर्मसुता तदा ।
अथ तामाह स मुनिः सत्यं सत्यध्वजो वचः ॥१४३॥
मा विषादं कृथाः पुत्रि पिताऽयं तव वानरः ।
सा तदव चनमाकर्ण्य व्रीडोपहतचेतना ॥१४४॥
कथं तु विश्वकर्माऽसौ वानरत्वं गतोऽधुना ।
दुष्पुत्र्यां मयि जातायां तस्मात् त्यक्ष्ये कलेवरम् ॥१४५॥
इति संचिन्त्य मनसा ऋतध्वजमुवाच ह ।
परित्रायस्व मां ब्रह्मन् पापोपहतचेतनाम् ॥१४६॥
पितृघ्नी मर्तृमिच्छामि तदनुज्ञातुमर्हसि ।
अथोवाच मुनिस्तन्वीं मा विषादं कृथाधुना ॥१४७॥
भाव्यस्य नैव नाशोऽस्ति तन्मा त्याक्षीः कलेवरम् ।
भविष्यति पिता तुभ्यं भूयोऽप्यमरवर्द्धकिः ॥१४८॥
जातेऽपत्ये घृताच्यां तु नात्र कार्या विचारणा ।
इत्येवमुक्ते वचने मुनिना भावितात्मना ॥१४९॥
घृताची तां समभ्येत्य प्राह चित्राङ्गदां वचः ।
पुत्रि त्यजस्व शोकं त्वं मासैर्दशभिरात्मजः ॥१५०॥
भविष्यति पितुस्तुभ्य्णं मत्सकाशान्न संशयः ।
इत्येवमुक्ता संहष्टा बभौ चित्राङ्गदा तदा ॥१५१॥
प्रतीक्षन्ती सुचार्वङ्गी विवाहे पितृदर्शनम् ।
सर्वास्ता अपि तावन्तं कालं सुतनुकन्यकाः ॥१५२॥
प्रत्यैक्षन्त विवाहं हि तस्या एव प्रियेप्सया ।
ततो दशसु मासेषु समतीतेष्वथाप्सराः ॥१५३॥
तस्मिन् गोदावरीर्थे प्रसूता तनयं नलम् ।
जातेऽपत्ये कपित्वाच्च विश्वकर्माप्यमुच्यत ॥१५४॥
समभ्येत्य प्रियां पुत्रीं पर्यष्वजत चादरात् ।
ततः प्रीतेन मनसा सस्मार सुरवर्द्धकिः ॥१५५॥
सुराणामधिपं शक्रं सहैव सुरकिन्नरैः ।
त्वष्टाऽथ संस्मृतः शक्रो मरुदगणवृतस्तदा ॥१५६॥
सुरैः सरुद्रैः सम्प्राप्तस्तत्तीर्थं हाटकाह्वयम् ।
समायातेषु देवेषु गन्धर्वेष्वप्सरस्सु च ॥१५७॥
इन्द्रद्युम्नो मुनिश्रेष्ठमृतध्वजमुवाच ह ।
जाबालेर्दीयतां ब्रह्मन् सुता कन्दरमालिनः ॥१५८॥
गृह्णातु विधिवत् पाणिं दैतेय्यास्तनयस्तव ।
नन्दयन्तीं च शकुनिः परिणेतुं स्वरुपवान् ॥१५९॥
ममेयं वेदवत्यस्तु त्वाष्ट्रेयी सुरथस्य च ।
बाढमित्यब्रवीद्धष्टो मुनिर्मनुसुतं नृपम् ॥१६०॥
ततोऽनुचक्रुः संह्नष्टा विवाहविधिमुत्तमम् ।
ऋत्विजोऽभूद गालवस्तु हुत्वा हव्यं विधानतः ॥१६१॥
गायन्ते तत्र गन्धर्वा नृत्यन्तेऽप्सरसस्तथा ।
आदौ जाबालिनः पाणिर्गृहीतो दैत्यकन्यया ॥१६२॥
इन्द्रद्युम्नेन तदनु वेदवत्या विधानतः ।
ततः शकुनिना पाणिर्गृहीतो यक्षकन्यया ॥१६३॥
चित्राङ्गदायाः कल्याणि सुरथः पाणिमग्रहीत् ।
एवं क्रमाद विवाहस्तु निर्वृत्तस्तनुमध्यमें ॥१६४॥
वृत्ते मुनिर्विवाहे तु शक्रादीन प्राह दैवतान् ।
अस्मिंस्तीर्थे भवदभिस्तु सप्तगोदावरे सदा ॥१६५॥
स्थेयं विशेषतो मासमिमं माधवमुत्तमम् ।
बाढमुक्त्वा सुराः सर्वे जग्मुर्हष्टा दिवं क्रमात् ॥१६६॥
मुनयो मुनिमादाय सपुत्रं जग्मुरादरात् ।
भार्याश्चादाय राजानः स्वं स्वं नगरमागताः ॥१६७॥
प्रहष्टाः सुखिनस्तस्थुः भुञ्जते विषयान् प्रियान् ।
चित्राङ्गदायाः कल्याणि एवं वृत्तं पुरा किल ।
तन्मां कमलपत्राक्षि भजस्व ललनोत्तमे ॥१६८॥
इत्येवमुक्त्वा नरदेवसूनुस्तां भूमिदेवस्य सुतां वरोरुम् ।
स्तुवन्मृगाक्षीं मृदुना क्रमेण सा चापि वाक्यं नृपतिं बभाषे ॥१६९॥