ऋषय ऊचुः
ब्रूहि वामनमाहात्म्यमुत्पतिं च विशेषतः ।
यथा बलिर्नियमितो दत्तं राज्यं शतक्रतोः ॥१॥
लोमहर्षण उवाच
श्रृणुध्वं मुनयः प्रीता वामनस्य महात्मनः ।
उत्पत्तिं च प्रभावं च निवासं कुरुजाङ्गले ॥२॥
तदेव वंशं दैत्यानां श्रृणुध्वं द्विजसत्तमाः ।
यस्य वंशे समभवद बलिर्वैरोचनिः पुरा ॥३॥
दैत्यानामादिपुरुषो हिरण्यकशिपुः पुरा ।
तस्य पुत्रो महातेजाः प्रह्लादो नाम दानवः ॥४॥
तस्माद विरोचनो जज्ञे बलिर्जज्ञे विरोचनात् ।
हते हिरण्यकशिपौ देवानुत्साद्य सर्वतः ॥५॥
राज्यं कृतं च तेनेष्टं त्रैलोक्ये सचराचरे ।
कृतयत्नेषु देवेषु त्रैलोक्ये दैत्यतां गते ॥६॥
जये तथा बलवतोर्मयशम्बरयोस्तथा ।
शुद्धासु दिक्षु सर्वासु प्रवृत्ते धर्मकर्मणि ॥७॥
संप्रवृत्ते दैत्यपथे अयनस्थे दिवाकरे ।
प्रह्लादशम्बरमयैरनुह्नादेन चैव हि ॥८॥
दिक्षु सर्वासु गुप्ततासु गगने दैत्यपालिने ।
देवेषु मखशोभां च स्वर्गस्थां दर्शयत्सु च ॥९॥
प्रकृतिस्थे ततो लोके वर्तमाने च सत्पथे ।
अभावें सर्वपापानां धर्मभावे सदोत्थिते ॥१०॥
चतुष्पादे स्थिते धर्मे ह्यधर्मे पादविग्रहे ।
प्रजापालनयुक्तेषु भ्राजमानेषु राजसु ।
स्वधर्मसंप्रयुक्तेषु तथाश्रमनिवासिषु ॥११॥
अभिषिक्तो सुरैः सर्वैर्दैत्यराज्ये बलिस्तद ।
ह्नष्टेष्वसुरसंघेव नदत्सु मुदितेषु च ॥१२॥
अथाभ्युगपगता लक्ष्मीर्बलिं पद्मन्तप्रभा ।
पद्मोद्यतकआ दे \वी वरदा सुप्रविशिनी ॥१३॥
त्रिरुवाच
बले बलवतां श्रेष्ठ दैत्यराज महाघुते ।
प्रीताऽस्मि तव भद्रं ते देवराजपायणें ॥१४॥
यवया युधि विक्रम्य देवराज्यं पराजितम् ।
दृष्ट्वा ते परमं सत्त्वं ततोऽहं स्वयमागता ॥१५॥
नाश्चर्यं दानवव्याघ्र हिरण्यकशिपोः कुले ।
प्रसूतस्यासुरेन्द्रस्य तव कर्मेदमीदृशम् ॥१६॥
विशेषितस्त्वया राजन् दैत्येन्द्रः प्रपितामहः ।
येन भुक्तं हि निखिलं त्रैलोक्यमिदमव्ययम् ॥१७॥
एवमुक्त्वा तु सा देवी लक्ष्मीर्दैत्यनृपं बलिम् ।
प्रविष्टा वरदा सेव्या सर्वदेवमनोरमा ॥१८॥
तुष्टाश्च देव्यः प्रवराः ह्रीः कीर्तिर्द्युतिरेव च ।
प्रभा धृतिः क्षमा भूतिऋद्धिर्दिव्या महामतिः ॥१९॥
श्रुतिः स्मृतिरिडा कीर्तिः शान्तिः पुष्टिस्तथा क्रिया ।
सर्वाश्चाप्सरसो दिव्या नृत्तगीतविशारदाः ॥२०॥
प्रपद्यन्ते स्म दैत्येन्द्रं त्रैलोक्यं सचराचरम् ।
प्राप्तमैश्वर्यमतुलं बलिना ब्रह्मवादिना ॥२१॥