ऋषय ऊचुः
वनानि सप्त नो ब्रूहि नव नद्यश्च याः स्मृताः ।
तीर्थानि च समग्राणि तीर्थस्त्रानफलं तथा ॥१॥
येन येन विधानेन यस्य तीर्थस्य यत् फलम् ।
तत् सर्वं विस्तरेणेह ब्रूहि पौराणिकोत्तम ॥२॥
लोमहर्षण उवाच
श्रृणु सप्त वनानीह कुरुक्षेत्रस्य मध्यतः ।
येषां नामानि पुण्यानि सर्वपापहराणि च ॥३॥
काम्यकं च वनं पुण्यं तथाऽदितिवनं महत् ।
व्यासस्य च वनं पुण्यं फलकीवनमेव च ॥४॥
तत्र सूर्यवनस्थानं तथा मधुवनं महत् ।
पुण्यं शीतवनं नाम सर्वकल्मषनाशनम् ॥५॥
वनान्येतानि वै सप्त नदीः श्रृणुत मे द्विजाः ।
सरस्वती नदी पुण्या तथा वैतरणी नदी ॥६॥
आपगा च महापुण्या गङ्गा मन्दाकिनी नदी ।
मधुस्त्रवा वासुनदी कौशिकी पापनाशिनी ॥७॥
दृषद्वती महापुण्या तथा हिरण्वती नदी ।
वर्षाकालवहाः सर्वां वर्जयित्वा सरस्वतीम् ॥८॥
एतसामुदकं पुण्यं प्रावृट्काले प्रकीर्तितम् ।
रजस्वलत्वमेतासां विद्यते न कदाचन ।
तीर्थस्य च प्रभावेण पुण्या ह्येताः सरिद्वराः ॥९॥
श्रृण्वन्तु मुनयः प्रीतास्तीर्थस्त्रानफलं महत् ।
गमनं स्मरणं चैव सर्वकल्मषनाशनम् ॥१०॥
रन्तुकं च नरो दृष्ट्वा द्वारपालं महाबलम् ।
यक्षं समभिवाद्यैव तीर्थयात्रां समाचरेत् ॥११॥
ततो गच्छेत विप्रेन्द्रा नाम्नाऽदितिवनं महत् ।
अदित्या यत्र पुत्रार्थं कृतं घोरं महत्तपः ॥१२॥
तत्र स्त्रात्वा च दृष्ट्वा च अदितिं देवमातरम् ।
पुत्रं जनयते शूरं सर्वदोषविवर्जितम् ।
आदित्यशतसंकाशं विमानं चाधिरोहति ॥१३॥
ततो गच्छेत विप्रेन्द्रा विष्णोः स्थानमनुत्तमम् ।
सवनं नाम विख्यातं यत्र संनिहितो हरिः ॥१४॥
विमले च नरः स्त्रात्वा दृष्ट्वा च विमलेश्वरम् ।
निर्मलं स्वर्गमायाति रुद्रलोकं च गच्छति ॥१५॥
हरिं च बलदेवं च एकत्राससमन्वितौ ।
दृष्टा मोक्षमवाप्नोति कलिकल्मषसम्भवैः ॥१६॥
ततः पारिप्लवं गच्छेत् तीर्थ त्रैलोक्यविश्रुतम् ।
तत्र स्त्रात्वा च दृष्ट्वा च ब्रह्माणं वेदसंयुतम् ।
ब्रह्मवेदफलं प्राप्य कौशिक्यां तीर्थसम्भवम् ।
संगमे च नरः स्नात्वा प्राप्नोति परमं पदम् ॥१८॥
धरण्यास्तीर्थमासाद्य सर्वपापविमोचनम् ।
क्षान्तियुक्तो नरः स्त्रात्वा प्राप्नोति परमं पदम् ॥१९॥
धरण्यामपराधानि कृतानि पुरुषेण वै ।
सर्वाणि क्षमते तस्य स्त्रानमात्रस्य देहिनः ॥२०॥
ततो दक्षाश्रमं गत्वा दृष्ट्वा दक्षेश्वरं शिवम् ।
अश्वमेधस्य यज्ञस्य फलं प्राप्नोति मानवः ॥२१॥
ततः शालूकिनीं गत्वा स्त्रात्वा तीर्थे द्विजोत्तमाः ।
हरिं हरेण संयुक्तं पूज्य भक्तिसमन्वितः ।
प्राप्नोत्यभिमताँल्लोकान् सर्वपापविवर्जितान् ॥२२॥
सर्पिर्दधि समासाद्य नागानां तीर्थमुत्तमम् ।
तत्र स्त्रानं नरः कृत्वा मुक्तो नागभयाद भवेत् ॥२३॥
ततो गच्छेत विप्रेन्द्रा द्वारपालं तु रन्तुकम् ।
तत्रोष्य रजनीमेकां स्त्रात्वा तीर्थवरे शुभे ॥२४॥
द्वितीयं पूजयेद यत्र द्वारपालं प्रयत्नतः ।
ब्राह्मणान् भोजयित्वा च प्रतिपत्य क्षमापयेत् ॥२५॥
तव प्रसादाद यक्षेन्द्र मुक्तो भवति किल्बिषैः ।
सिद्धिर्मयाभिलषिता तया सार्द्धं भवाम्यहम् ।
एवं प्रसाद्य यक्षेन्द्रं ततः पञ्चनदं व्रजेत् ॥२६॥
पञ्चनदाश्च रुद्रेण कृता दानवभीषणाः ।
तत्र सर्वेषु लोकेषु तीर्थं पञ्चनदं स्मृतम् ॥२७॥
कोटितीर्थानि रुद्रेण समाहत्य यतः स्थितम् ।
तेन त्रैलोक्यविख्यातं कोटितीर्थं प्रचक्षते ॥२८॥
तस्मिन् तीर्थे नरः स्त्रात्वा दृष्ट्वा कोटीश्वरं हरम् ।
पञ्चयज्ञानवाप्नोति नित्यं श्रद्धासमन्वितः ॥२९॥
तत्रैव वामनो देवः सर्वदेवैः प्रतिष्ठितः ।
तत्रापि च नरः स्नात्वा ह्यग्निष्टिमफलं लभेत् ॥३०॥
अश्विनोस्तीर्थमासाद्य श्रद्धावान् यो जितेन्द्रियः ।
रुपस्य भागी भवति यशस्वी च भवेन्नरः ॥३१॥
वाराहं तीर्थमाख्यातं विष्णुना परिकीर्तितम् ।
तस्मिन् स्त्रात्वा श्रद्दधानः प्राप्नोति परमं पदम् ॥३२॥
ततो गच्छेत विप्रेन्द्राः सोमतीर्थमनुत्तमम् ।
यत्र सोमेश्वरं दृष्ट्वा स्त्रात्वा तीर्थवरे शुभे ।
राजसूयस्य यज्ञस्य फलं प्राप्नोति मानवः ॥३४॥
व्याधिभिश्च विनिर्मुक्तः सर्वदोषविवर्जितः ।
सोमलोकमवाप्नोति तत्रैव रमते चिरम् ॥३५॥
भूतेश्वरं च तत्रैव ज्वालामालेश्वरं तथा ।
तावुभौ लिङ्गावभ्यर्च्य न भूयो जन्म चाप्नुयात ॥३६॥
एकहंसे नरः स्त्रात्वा गोसहस्त्रफलं लभेत् ।
कृतशौचं समासाद्य तीर्थसेवी द्विजोत्तमः ॥३७॥
पुण्डरीकमवाप्नोति कृतशौचो भवेन्नरः ।
ततो मुञ्जवटं नम महादेवस्य धीमतः ॥३८॥
उपोष्य रजनीमेकां गाणपत्यमवाप्नुयात् ।
तत्रैव च महाग्राही यक्षिणी लोकविश्रुता ॥३९॥
स्त्रात्वाऽभिगत्वा तत्रैव प्रसाद्य यक्षिणीं ततः ।
उपवासं च तत्रैव महापातकनाशनम् ॥४०॥
कुरुक्षेत्रस्य तद द्वारं विश्रुतं पुण्यवर्धनम् ।
प्रदक्षिणमुपावर्त्य ब्राह्मणान् भोजयेत ततः ।
पुष्करं च ततो गत्वा अभ्यर्च्य पितृदेवताः ॥४१॥
जामदग्न्येय रामेण आहतं तन्महात्मना ।
कृतकृत्यो भवेद राजा अश्वमेधं च विन्दति ॥४२॥
कन्यादानं च यस्तत्र कार्तिक्यां वै करिष्यति ।
प्रसन्ना देवतास्तस्य दास्यन्त्यभिमतं फलम् ॥४३॥
कपिलश्च महायक्षो द्वारपालः स्वयं स्थितः ।
विघ्नं करोति पापानां दुर्गतिं च प्रयच्छति ॥४४॥
पत्नी तस्य महायक्षी नाम्नोदूखलमेखला ।
आहत्य दुन्दुभिं तत्र भ्रमते नित्यमेव हि ॥४५॥
सा ददर्श स्त्रियं चैकां सपुत्रां पापदेशजाम् ।
तामुवाच तदा यक्षी आहत्य निशि दुन्दुभिम् ॥४६॥
युगन्धरे दधि प्राश्य उषित्वा चाच्युतस्थले ।
तद्वद भूतालये स्त्रात्वा सपुत्रा वस्तुमिच्छसि ॥४७॥
दिवा मया ते कथितं रात्रौ भक्ष्यामि निश्चित्तम् ।
एतच्छुत्वा तु वचनं प्रणिपत्य च यक्षिणीम् ॥४८॥
उवाच दीनया वाचा प्रसादं कुरु भामिनि ।
ततः सा यक्षिणी तां तु प्रोवाच कृपयान्विता ॥४९॥
यदा सूर्यस्य ग्रहणं कालेन भविता क्वचित् ।
सन्निहत्यां तदा स्त्रात्वा पूता स्वर्गं गमिष्यासि ॥५०॥