पुलस्त्य उवाच
शार्ङ्गपाणीनमायान्तं दृष्ट्वाऽग्रे दानवेश्वरः ।
परिभ्राम्य गदां वेगान्मूर्धि साध्यमताडयत् ॥१॥
ताडितस्याथ गदया धर्मपुत्रस्य नारद ।
नेत्राभ्यामपतद वारि वह्निवर्षनिभं भुवि ॥२॥
मूर्धिं नारायणस्यापि सा गदा दानवार्पिता ।
जगाम शतधा ब्रह्मञ्शैलश्रृङ्गे यथाऽशनिः ॥३॥
ततो निवृत्य दैत्येन्द्रः समास्थाय रथं द्रुतम् ।
आदाय कार्मुकं वीरस्तूणाद बाणं समाददे ॥४॥
आनम्य चापं वेगेन गार्द्धपत्राञ्शिलीमुखान् ।
मुमोच साध्याय तदा क्रोधान्धकारिताननः ॥५॥
तानापतत एवाशु बाणांश्चन्द्रार्द्धसन्निभान् ।
चिच्छेद बाणैरपरैर्निर्बिभेद च दानवम् ॥६॥
ततो नारायणं दैत्यो दैत्यं नारायणः शरैः ।
आविध्येतां तदाऽन्योन्यं मर्मभिद्भिरजिह्मगैः ॥७॥
ततोऽम्बरे संनिपातो देवानामभवन्मुने ।
दिदृक्षूणां तदा युद्धं लघु चित्रं च सुष्ठु च ॥८॥
ततः सुराणां दुन्दुभ्यस्त्ववाद्यन्त महास्वनाः ।
पुष्पवर्षमनौपम्यं मुमुचुः साध्यदैत्ययोः ॥९॥
ततः पश्यत्सु देवेषु गगनस्थेषु तावुभौ ।
अयुध्येतां महेष्वासौ प्रेक्षकप्रीतिवर्द्धनम् ॥१०॥
बबन्धतुस्तदाकाशं तावुभौ शरवृष्टिभिः ।
दिशश्च विदिशश्चैव छादयेतां शरोत्करैः ॥११॥
ततो नारायणश्चापं समाकृष्य महामुने ।
बिभेद मार्गणैस्तीक्ष्णैः प्रह्लादं सर्वमर्मसु ॥१२॥
तथा दैत्येश्वरः क्रुद्धश्चापमानस्य वेगवान् ।
बिभेद हदये बाह्वोर्वदने च नरोत्तमम् ॥१३॥
ततोऽस्यतो दैत्यपतेः कार्मुकं मुष्टिबन्धनात् ।
चिच्छेदैकेन बाणेन चन्द्रार्धाकारवर्चसा ॥१४॥
अपास्यत धनुश्छिन्नं चापमादाय चापरम् ।
अधिज्यं लाघवात् कृत्वा ववर्ष निशिताञ्शरान् ॥१५॥
तानप्यस्य शरान् साध्यश्छित्त्वा बाणैरवारयत् ।
कार्मुकं च क्षुरप्रेण चिच्छेद पुरुषोत्तमः ॥१६॥
छिन्नं छिन्नं धनुर्दैत्यस्त्वन्यदन्यत्समाददे ।
समादत्ते तदा साध्यो मुने चिच्छेद लाघवात् ॥१७॥
संछिन्नेष्वथ चापेषु जग्राह दितिजेश्वरः ।
परिघं दारुणं दीर्घं सर्वलोहमयं दृढम् ॥१८॥
परिगृह्याथ परिघं भ्रामयामास दानवः ।
भ्राम्यमाणं स चिच्छेद नाराचेन महामुनिः ॥१९॥
छिन्ने तु परिघे श्रीमान् प्रह्लादो दानवेश्वरः ।
मुदगरं भ्राम्य वेगेन प्रचिक्षेप नराग्रजे ॥२०॥
तमापतन्तं बलवान् मार्गणैर्दशभिर्मुने ।
चिच्छेद दशधा साध्यः स छिन्नो न्यपतद् भुवि ॥२१॥
मुदगरे वितथे जाते प्रासमाविध्य वेगवान् ।
प्रचिक्षेप नराग्र्याय तं च चिच्छेद धर्मजः ॥२२॥
प्रासे छिन्ने तो दैत्यः शक्तिमादाय चिक्षिपे ।
तां च चिच्छेद बलवान् क्षुरप्रेण महातपाः ॥२३॥
छिन्नेषु तेषु शस्त्रेषु दानवोऽन्यन्महद्धनुः ।
समादाय ततो बाणैरवतस्तार नारद ॥२४॥
ततो नारायणो देवो दैत्यनाथं जगदगुरुः ।
नाराचेन जघानाथ हदये सुरतापसः ॥२५॥
संभिन्नहदयो ब्रह्मन् देवेनाद्भुतकर्मणा ।
निपपात रथोपस्थे तमपोवाह सारथिः ॥२६॥
स संज्ञां सुचिरेणैव प्रतिलभ्य दितीश्वरः ।
सुदृढं चापमादाय भूयो योद्धुमुपागतः ॥२७॥
तमागतं संनिरीक्ष्य प्रत्युवाच नराग्रजः ।
गच्छ दैत्येन्द्र योत्स्यामः प्रातस्त्वाह्निकमाचर ॥२८॥
एवमुक्तो दितीशस्तु साध्येनाद्भुतकर्मणा ।
जगाम नैमिषारण्यं क्रियां चक्रे तदाह्निकीम् ॥२९॥
एवं युध्यति देवे च प्रह्लादो ह्यसुरो मुने ।
रात्रौ चिन्तयते युद्धे कथं जेष्यामि दाम्भिकम् ॥३०॥
एवं नारायणेनाऽसौ सहायुध्यत नारद ।
दिव्यं वर्षसहस्त्रं तु दैत्यो देवं न चाजयत् ॥३१॥
ततो वर्षसहस्त्रान्ते ह्यजिते पुरुषोत्तमे ।
पीतवाससमभ्येत्य दानवो वाक्यमब्रवीत् ॥३२॥
किमर्थं देवदेवेश साध्यं नारायणं हरिम् ।
विजेतुं नाऽद्य शक्नोमि एतन्मे कारणं वद ॥३३॥
पीतवासा उवाच
दुर्जयोऽसौ महाबाहुस्त्वया प्रह्लाद धर्मजः ।
साध्यो विप्रवरो धीमान् मृधे देवासुरैरपि ॥३४॥
प्रह्लाद उवाच
यद्यसौ दुर्जयो देव मया साध्यो रणाजिरे ।
तत्कथं यत्प्रतिज्ञातं तदसत्यं भविष्यति ॥३५॥
हीनप्रतिज्ञो देवेश कथं जीवेत मादृशः ।
तस्मात्तवाग्रतो विष्णो करिष्ये कायशोधनम् ॥३६॥
पुलस्त्य उवाच
इत्येवमुक्त्वा वचनं देवाग्रे दानवेश्वरः ।
शिरः स्नातस्तदा तस्थौ गृणन् ब्रह्म सनातनम् ॥३७॥
ततो दैत्यपतिं विष्णुः पीतवासाऽब्रवीद्वचः ।
गच्छ जेष्यसि भक्त्या तं न युद्धेन कथंचन ॥३८॥
प्रह्लाद उवाच
मया जितं देवदेव त्रैलोक्यमपि सुव्रत ।
जितोऽयं त्वत्प्रसादेन शक्रः किमुत धर्मजः ॥३९॥
असौ यद्यजयो देव त्रैलोक्येनापि सुव्रतः ।
न स्थातुं त्वत्प्रसादेन शक्यं किमु करोम्यज ॥४०॥
पीतवासा उवाच
सोऽहं दानवशार्दूल लोकानां हितकाम्यया ।
धर्मं प्रवर्त्तापयितुं तपश्चर्यां समास्थितः ॥४१॥
तस्माद्यदिच्छसि जयं तमाराधय दानव ।
तं पराजेष्यसे भक्त्या तस्माच्छुश्रूष धर्मजम् ॥४२॥
पुलस्त्य उवाच
इत्युक्तः पीतवासेन दानवेन्द्रो महात्मना ।
अब्रवीद्वचनं हष्टः समाहूयाऽन्धकं मुने ॥४३॥
प्रह्लाद उवाच
दैत्याश्च दानवाश्चैव परिपाल्यास्त्वयान्धक ।
मयोत्सृष्टमिदं राज्यं प्रतीच्छस्व महाभुज ॥४४॥
इत्येवमुक्तो जग्राह राज्यं हैरण्यलोचनिः ।
प्रह्लादोऽपि तदाऽगच्छत् पुण्यं बदरिकाश्रमम् ॥४५॥
दृष्ट्वा नारायणं देवं नरं च दितिजेश्वरः ।
कृताञ्जलिपुटो भूत्वा ववन्दे चरणौ तयोः ॥४६॥
तमुवाच महातेजा वाक्यं नारायणोऽव्ययः ।
किमर्थं प्रणतोऽसीह मामजित्वा महासुर ॥४७॥
प्रह्लाद उवाच
कस्त्वां जेतुं प्रभो शक्तः कस्त्वत्तः पुरुषोऽधिकः ।
त्वं हि नारायणोऽनन्तः पीतवासा जनार्दनः ॥४८॥
त्वं देवः पुण्डरीकाक्षस्त्वं विष्णुः शार्ङ्गचापधृक् ।
त्वमव्ययो महेशानः शाश्वतः पुरुषोत्तमः ॥४९॥
त्वां योगिनश्चिन्तयन्ति चार्चयन्ति मनीषिणः ।
जपन्ति स्नातकास्त्वां च यजन्ति त्वां च याज्ञिकाः ॥५०॥
त्वमच्युतो हषीकेशश्चक्रपाणिर्धराधरः ।
महामीनो हयशिरास्त्वमेव वरकच्छपः ॥५१॥
हिरण्याक्षरिपुः श्रीमान् भगवानथ सूकरः ।
मत्पितुर्नाशनकरो भवानपि नृकेसरी ॥५२॥
ब्रह्मा त्रिनेत्रोऽमरराड् हुताशः प्रेताधिपो नीरपतिः समीरः ।
सूर्यो मृगाङ्कोऽचलजङ्गमाद्यो भवान् विभो नाथ खगेन्द्रकेतो ॥५३॥
त्वं पृथ्वी ज्योतिराकाशं जलं भूत्वा सहस्त्रशः ।
त्वया व्याप्तं जगत्सर्वं कस्त्वां जेष्यति माधव ॥५४॥
भक्त्या यदि हषीकेश तोषमेषि जगदगुरो ।
नान्यथा त्वं प्रशक्योऽसि जेतुं सर्वगताव्यय ॥५५॥
भगवानुवाच
परितुष्टोऽस्मि ते दैत्य स्तवेनानेन सुव्रत ।
भक्त्या त्वनन्यया चाहं त्वया दैत्य पराजितः ॥५६॥
पराजितश्च पुरुषो दैत्य दण्डं प्रयच्छति ।
दण्डार्थं ते प्रदास्यामि वरं वृणु यमिच्छसि ॥५७॥
प्रह्लाद उवाच
नारायणं वरं याचे यं त्वं मे दातुमर्हसि ।
तन्मे पापं लयं यातु शारीरं मानसं तथा ॥५८॥
वाचिकं च जगन्नाथ यत्त्वया सह युध्यतः ।
नरेण यद्यप्यभवद् वरमेतत्प्रयच्छ मे ॥५९॥
नारायण उवाच
एवं भवतु दैत्येन्द्र पापं ते यातु संक्षयम् ।
द्वितीयं प्रार्थय वरं तं ददामि तवासुर ॥६०॥
प्रह्लाद उवाच
या या जायेत मे बुद्धिः सा सा विष्णो त्वदाश्रिता ।
देवार्चने च निरता त्वच्चित्ता त्वत्परायणा ॥६१॥
नारायण उवाच
एवं भविष्यत्यसुर वरमन्यं यमिच्छसि ।
तं वृणीष्व महाबाहो प्रदास्याम्यविचारयन् ॥६२॥
प्रह्लाद उवाच
सर्वमेव मया लब्धं त्वत्प्रसादादधोक्षज ।
त्वत्पादपङ्कजाभ्यां हि ख्यातिरस्तु सदा मम ॥६३॥
नारायण उवाच
एवमस्त्वपरं चास्तु नित्यमेवाक्षयोऽव्ययः ।
अजरश्चामरश्चापि मत्प्रसादाद भविष्यसि ॥६४॥
गच्छस्व दैत्यशार्दूल स्वमावासं क्रियारतः ।
न कर्मबन्धो भवतो मच्चित्तस्य भविष्यति ॥६५॥
प्रशासयदमून् दैत्यान् राज्यं पालय शाश्वतम् ।
स्वजातिसदृशं दैत्य कुरु धर्ममनुत्तमम् ॥६६॥
पुलस्त्य उवाच
इत्युक्तो लोकनाथेन प्रह्लादो देवमब्रवीत् ।
कथं राज्यं समादास्ये परित्यक्तं जगदगुरो ॥६७॥
तमुवाच जगत्स्वामी गच्छ त्वं निजमाश्रयम् ।
हितोपदेष्टा दैत्यानां दानवानां तथा भव ॥६८॥
नारायणेनैवमुक्तः स तदा दैत्यनायकः ।
प्रणिपत्य विभुं तुष्टो जगाम नगरं निजम् ॥६९॥
दुष्टः सभाजितश्चापि दानवैरन्धकेन च ।
निमन्त्रितश्च राज्याय न प्रत्यैच्छत्स नारद ॥७०॥
राज्यं परित्यज्य महाऽसुरेन्द्रो नियोजयन् सत्पथि दानवेन्द्रान् ।
ध्यायन् स्मरन् केशवमप्रमेयं तस्थौ तदा योगविशुद्धदेहः ॥७१॥
एवं पुरा नारद दानवेन्द्रो नारायणेनोत्तमपूरुषेण ।
पराजितश्चापि विमुच्य राज्यं तस्थौ मनो धातरि सन्निवेश्य ॥७२॥