पुलस्त्य उवाच
एतन्मया पुण्यतमं पुराणं तुभ्यं तथा नारद कीर्तितं वै ।
श्रुत्वा च कीर्त्या परया समेतो भक्त्या च विष्णोः पदमभ्युपैति ॥१॥
यथा पापानि पूजन्ते गङ्गावारिविगाहनात् ।
तथा पुराणश्रवणाद दुरितानां विनाशनम् ॥२॥
न तस्य रोगा जायन्ते न विषं चाभिचारिकम् ।
शरीरे च कुले ब्रह्मन् यः श्रृणोति च वामनम् ॥३॥
श्रृणोति नित्यं विधिवच्च भक्त्या सम्पूजयन् यः प्रणतश्च विष्णुम् ।
स चाश्वमेधस्य सदक्षिणस्य फलं समग्रं परिहीनपापः ॥४॥
प्राप्नोति दत्तस्य सुवर्णभूमेरश्वस्य गोनागरथस्य चैव ।
नारी नरश्चापि च पादमेकं श्रृण्वन् शुचिः पुण्यतमः पृथिव्याम् ॥५॥
स्त्राने कृते तीर्थवरे सुपुण्ये गड्गाजलोए नैमिषपुष्करे वा ।
कोकामुखे यत् प्रवदन्ति विप्राः प्रयागमासाद्य च माघमासे ॥६॥
स तत्फलं प्राप्य च वामनस्य संकीर्तयन् नान्यमनाः पदं हि ।
गच्छेन्मया नारद तेऽद्य चोक्तं यद राजसूयस्य फलं प्रयच्छेत् ॥७॥
यद भूमिलोके सुरलोकभ्ये महत्सुखं प्राप्य नरः समग्रम् ।
प्राप्नोति चास्य श्रवणान्महर्षे सौत्रामणेर्नास्ति च संशयो मै ॥८॥
रत्नस्य दानस्य च यत्फलं भवेद् यत्सूर्यस्य चेन्दोर्ग्रहणे च राहोः ।
अन्नस्य दानेन फलं यथोक्तं बुभुक्षिते विप्रवरे च साग्निके ॥९॥
दुर्भिक्षसम्पीडितपुत्रभार्ये यामी सदा पोषणतत्परे च ।
देवाग्निविप्रर्षिरते च पित्रोः शुश्रूषके भ्रातरि ज्येष्ठसाम्ने ।
यत्तत्फलं सम्प्रवदन्ति देवाः स तत् फलं लभते चास्य पाठात् ॥१०॥
चतुर्दशं वामनमाहुरग्र्यं श्रुते च यस्याघचयाश्च नाशम् ।
प्रयान्ति नास्त्यत्र च संशयो मे महान्ति पापान्यपि नारदाशु ॥११॥
पाठात् संश्रवणाद विप्र श्रावणादपि कस्यचित् ।
सर्वपापानि नश्यन्ति वामनस्य सदा मुने ॥१२॥
इदं रहस्यं परमं तवोक्तं न वाच्यमेतद्धरिभक्तिवर्जिते ।
द्विजस्य निन्दारतिहीनदक्षिणे सहेतुवाक्यावृतपापसत्त्वे ॥१३॥
नमो नमः कारणवामनाय नारायणामितविक्रमाय ।
श्रीशार्ड्गचक्रासिगदाधराय नमोऽस्तु तस्मै पुरुषोत्तमाय ॥१४॥
इत्थं वदेद यो नियतं मनुष्यः कृष्णभावनः ।
तस्य विष्णुः पदं मोक्षं ददाति सुरपूजितः ॥१५॥
वाचकाय प्रदातव्यं गोभूस्वर्णविभूषणम् ।
वित्तशाठ्यं न कर्तव्यं कुर्वन् श्रवणनाशकम् ॥१६॥
त्रिसन्ध्यं च पठन श्रृण्वन् सर्वपापप्रणाशनम् ।
असूयारहितं विप्र सर्वसम्पत्प्रदायकम् ॥१७॥