पुलस्त्य उवाच
ततस्त्रिनेत्रस्य गतः प्रावृट्कालो घनोपरि ।
लोकानन्दकरी रम्या शरत् समभवन्मुने ॥१॥
त्यजन्ति नीलाम्बुधरा नभस्तलं वृक्षांश्च कङ्काः सरितस्तटानि ।
पद्माः सुगन्धं निलयानि वायसा रुरुर्विषाणं कलुषं जलाशयाः ॥२॥
विकासमायान्ति च पङ्कजानि चन्द्रांशवो भान्ति लताः सुपुष्पाः ।
नन्दन्ति हष्टान्यपि गोकुलानि सन्तश्च संतोषमनुव्रजन्ति ॥३॥
सरःसु पद्मा गगने च तारका जलाशयेष्वेव तथा पयांसि ।
सतां च चित्तं हि दिशां मुखैः समं वैमल्यमायान्ति शशाङ्ककान्तयः ॥४॥
एताद्वशे हरः काले मेघपृष्ठाधिवासिनीम् ।
सतीमादाय शैलेन्द्रं मन्दरं समुपाययौ ॥५॥
ततो मन्दरपृष्ठेऽसौ स्थितः समशिलातले ।
रराम शंभुर्भगवान् सत्या सह महाद्युतिः ॥६॥
ततो व्यतीते शरदि प्रतिबुद्धे च केशवे ।
दक्षः प्रजापतिश्रेष्ठो यष्टुमारभत क्रतुम् ॥७॥
द्वादशैव स चादित्याञ्शक्रादींश्च सुरोत्तमान् ।
सकश्यपान् समामन्त्र्य सदस्यान् समचीकरत् ॥८॥
अरुन्धत्या च सहितं वसिष्ठं शंसितव्रतम् ।
सहानसूययात्रिं च सह धृत्या च कौशिकम् ॥९॥
अहल्यया गौतमं च भरद्वाजममायया ।
चन्द्रया सहितं ब्रह्मन्नृषिमङ्गिरसं तथा ॥१०॥
आमन्त्र्य कृतवान्दक्षः सदस्यान् यज्ञसंसदि ।
विद्वान् गुणसंपन्नान् वेदवेदाङ्गपारगान् ॥११॥
धर्मं च स समाहूय भार्ययाऽहिंसया सह ।
निमन्त्र्य यज्ञवाटस्य द्वारपालत्वमादिशत् ॥१२॥
अरिष्टनेमिनं चक्रे इध्माहरणकारिणम् ।
भृगुं च मन्त्रसंस्कारे सम्यग् दक्षः प्रयुक्तवान् ॥१३॥
तथा चन्द्रमसं देवं रोहिण्या सहितं शुचिम् ।
धनानामाधिपत्ये च युक्तवान् हि प्रजापतिः ॥१४॥
जामातृदुहितृश्चैव दौहित्रांश्च प्रजापतिः ।
सशंकरां सतीं मुक्त्वा मखे सर्वान् न्यमन्त्रयत् ॥१५॥
नारद उवाच
किमथ लोकपतिना धनाध्यक्षो महेश्वरः ।
ज्येष्ठः श्रेष्ठो वरिष्ठोऽपि आद्योऽपि न निमन्त्रितः ॥१६॥
पुलस्त्य उवाच
ज्येष्ठः श्रेष्ठो वरिष्ठोऽपि आद्योऽपि भगवाञ्शिवः ।
कपालीति विदित्वेशो दक्षेण न निमन्त्रितः ॥१७॥
नारद उवाच
किमर्थं देवताश्रेष्ठः शूलपाणिस्त्रिलोचनः ।
कपाली भगवान् जातः कर्मणा केन शंकरः ॥१८॥
पुलस्त्य उवाच
श्रृणुष्वावहितो भूत्वा कथामेतां पुरातनीम् ।
प्रोक्तामादिपुराणे च ब्रह्मणाऽव्यक्तमूर्तिना ॥१९॥
पुरा त्वेकार्णवं सर्वं जगत्स्थावरजङ्गमम् ।
नष्टचन्द्रार्कनक्षत्रं प्रणष्टपवनानलम् ॥२०॥
अप्रतर्क्यमविज्ञेयं भावाभावविवर्जितम् ।
निमग्नपर्वततरु तमोभूतं सुदुर्दशम् ॥२१॥
तस्मिन् स शेते भगवान् निद्रां वर्षसहस्त्रिकीम् ।
रात्र्यन्ते सृजते लोकान् राजसं रुपमास्थितः ॥२२॥
राजसः पञ्चवदनो वेदवेदाङ्गपारगः ।
स्त्रष्टा चराचरस्यास्य जगतोऽद्भुतदर्शनः ॥२३॥
तमोमयस्तथैवान्यः समुदभूतस्त्रिलोचनः ।
शूलपाणिः कपर्दी च अक्षमालां च दर्शयन् ॥२४॥
ततो महात्मा ह्यसृहदहंकारं सुदारुणम् ।
येनाक्रान्तावुभौ देवौ तावेव ब्रह्मशंकरौ ॥२५॥
अहंकारावृतो रुद्रः प्रत्युवाच पितामहम् ।
को भवानिह संप्राप्तः केन सृष्टोऽसि मां वद ॥२६॥
पितामहोऽप्यहंकारात् प्रत्युवाचाथ को भवान् ।
भवतो जनकः कोऽन्न जननी वा तदुच्यताम् ॥२७॥
इत्यन्योन्यं पुरां ताभ्यां कलिप्रिय ।
परिवादोऽभवत् तत्र उत्पत्तिर्भवतोऽभवत् ॥२८॥
भवानप्यन्तरिक्षं हि जातमात्रस्तदोत्पतत् ।
धारयन्नतुलां वीणां कुर्वन् किलकिलाध्वनिम् ॥२९॥
ततो विनिर्जितः शंभुर्मानिना पद्मयोनिना ।
तस्थावधोमुखो दीनो ग्रहाक्रान्तो यथा शशी ॥३०॥
पराजिते लोकपतौ देवेन परमेष्ठिना ।
क्रोधान्धकारितं रुद्रं पञ्चमोऽथ मुखोऽब्रवीत् ॥३१॥
अहं ते प्रतिजानामि तमोमूर्ते त्रिलोचन ।
दिग्वासा वृषभारुढो लोकक्षयकरो भवान् ॥३२॥
इत्युक्तः शंकरः क्रुद्धो वदनं घोरचक्षुषा ।
निर्दग्धुकामस्त्वनिशं ददर्श भगवानजः ॥३३॥
ततास्त्रिनेत्रस्य समुद्भवन्ति वक्त्राणि पञ्चाथ सुदर्शनानि ।
श्वेतं च रक्तं कनकावदातं नीलंख तथा पिङ्गजटं च शुभ्रम् ॥३४॥
वक्त्राणि दृष्ट्वाऽकसमानि सद्यः पैतामहं वक्त्रमुवाच वाक्यम् ।
समाहतस्याथ जलस्य बुदबुदा भवन्ति किं तेषु पराक्रमोऽस्ति ॥३५॥
तच्छुत्वा क्रोधयुक्तेन शंकरेण महात्मना ।
नखाग्रेण शिरश्छिन्नं ब्राह्मं परुषवादिनम् ॥३६॥
तच्छिन्नं शंकरस्यैव सव्ये करतलेऽपतत् ।
पतते न कदाचिच्च तच्छंकरकराच्छिरः ॥३७॥
अथ क्रोधावृतेनापि ब्रह्मणाद्भुतकर्मणा ।
सृष्टस्तु पुरुषो धीमान् कवची कुण्डली शरी ॥३८॥
धनुष्पाणिर्महाबाहुर्बाणशक्तिधरोऽव्ययः ।
चतुर्भुजो महातूणी आदित्यसमदर्शनः ॥३९॥
स प्राह गच्छ दुर्बुद्धे मा त्वां शूलिन् निपातये ।
भवान् पापसमायुक्तः पापिष्ठं को जिघांसति ॥४०॥
इत्युक्तः शंकरस्तेन पुरुषेण महात्मना ।
त्रपायुक्तो जगामाथ रुद्रो बदरिकाश्रमम् ॥४१॥
नरनारायणस्थानं पर्वते हि हिमाश्रये ।
सरस्वती यत्र पुण्या स्यन्दते सरितां वरा ॥४२॥
तत्र गत्वा च तं दृष्ट्वा नारायणमुवाच ह ।
भिक्षां प्रयच्छ भगवन् महाकापालिकोऽस्मि भोः ॥४३॥
इत्युक्तो धर्मपुत्रस्तु रुद्रं वचनमब्रवीत् ।
सव्यं भुजं ताडयस्व त्रिशूलेन महेश्वर ॥४४॥
नारायणवचः श्रुत्वा त्रिशूलेन त्रिलोचनः ।
सव्यं नारायणभुजं ताडयामास वेगवान् ॥४५॥
त्रिशूलाभिहतान्मार्गात् त्रिस्त्रो धारा विनिर्ययुः ।
एका गगनमाक्रम्य स्थिता ताराभिमण्डिता ॥४६॥
द्वितीया न्यपतद् भूमौ तां जग्राह तपोधनः ।
अत्रिस्तस्मात् समुदभूतो दुर्वासा शंकरांशतः ॥४७॥
तृतीया न्यपतद्धारा कपाले रौद्रदर्शने ।
तस्माच्छिशुः समभवत् संनद्धकवचो युवा ॥४८॥
श्यामावदातः शरचापपाणिर्गर्जन्यथा प्रावृषि तोयदोऽसौ ।
इत्थं ब्रुवन् कस्य विशातयामि स्कन्धाच्छिरस्तालफलं यथैव ॥४९॥
तं शंकरोऽभ्येत्य वचो बभाषे चरं हि नारायणबाहुजातम् ।
निपातयैनं नर दुष्टवाक्यं ब्रह्मात्मजं सूर्यशतप्रकाशम् ॥५०॥
इत्येवमुक्तः स तु शंकरेण आद्यं धनुस्त्वाजगवं प्रसिद्धम् ।
जग्राह तूणानि तथाऽक्षयाणि युद्धाय वीरः स मतिं चकार ॥५१॥
ततः प्रयुद्धौ सुभृशं महाबलौ ब्रह्मात्मजो बाहुभवश्च शार्वः ।
दिव्यं सहस्त्रं परिवत्सराणां ततो हरोऽभ्येत्य विरञ्चिमूचे ॥५२॥
जितस्त्वदीयः पुरुषः पितामहं नरेण दिव्याद्भुतकर्मणा बली ।
महापृषत्कैरभिपत्य ताडितस्तदद्भुतं चेह दिशो दशैव ॥५३॥
ब्रह्मा तमीशं वचनं बभाषे नेहास्य जन्मान्यजितस्य शंभो ।
पराजितश्चेष्यतेऽसौ त्वदीयो नरो मदीयः पुरुषो महात्मा ॥५४॥
इत्येवमुक्त्वा वचनं त्रिनेत्रश्चिक्षेप सूर्ये पुरुषं विरिञ्चेः ।
नरं नरस्यैव तदा स विग्रहे चिक्षेप धर्मप्रभवस्य देवः ॥५५॥