नारद उवाच
यानेतान् भगवान् प्राह कामिभिः शशिनं प्रति ।
आराधनाय देवाभ्यां हरीशाभ्यां वदस्व तान् ॥१॥
पुलस्त्य उवाच
श्रृणुष्व कामिभिः प्रोक्तान् व्रतान् पुण्यान् कलिप्रिय ।
आराधनाय शर्वस्य केशवस्य च धीमतः ॥२॥
यदा त्वाषाढी संयाति व्रजते चोत्तरायणम् ।
तदा स्वपिति देवेशो भोगिभोगे श्रियः पतिः ॥३॥
प्रतिसुप्ते विभौ तस्मिन् देवगन्धर्वगुह्यकाः ।
देवानां मातरश्चापि प्रसुप्ताश्चाप्यनुक्रमात् ॥४॥
नारद उवाच
कथयस्व सुरादीनां शयने विधिमुत्तमम् ।
सर्वमनुक्रमेणैव पुरस्कृत्य जनार्दनम् ॥५॥
पुलस्त्य उवाच
मिथुनाभिगते सूर्ये शुक्लपक्षे तपोधन ।
एकादश्यां जगत्स्वामी शयनं परिकल्पयेत् ॥६॥
शेषाहिभोगपर्यङ्कं कृत्वा सम्पूज्य केशवम् ।
कृत्वोपवीतकं चैव सम्यक्सम्पूज्य वै द्विजान् ॥७॥
अनुज्ञां ब्राह्मणेभ्यश्च द्वादश्यां प्रयतः शुचिः ।
लब्ध्वा पीताम्बरधरः स्वस्तिनिद्रां समानयेत् ॥८॥
त्रयोदश्यां ततः कामः स्वपते शयने शुभे ।
कदम्बानां सुगन्धानां कुसुमैः परिकल्पिते ॥९॥
चतुर्दश्यां ततो यक्षाः स्वपन्ति सुखशीतले ।
सौवर्णपङ्कजकृते सुखास्तीर्णोपधनके ॥१०॥
पौर्णमास्यामुमानाथः स्वपते चर्मसंस्तरे ।
वैयाघ्रे च जटाभारं समुद्रग्रन्थ्यान्यचर्मणा ॥११॥
ततो दिवाकरो राशिं संप्रयाति च कर्कटम् ।
ततोऽमराणां रजनी भवति दक्षिणायनम् ॥१२॥
ब्रह्मा प्रतिपदि तथा नीलोत्पलमयेऽनघ ।
तल्पे स्वपिति लोकानां दर्शयन् मार्गमुत्तमम् ॥१३॥
विश्वकर्मा द्वितीयायां तृतीयायां गिरेः सुता ।
विनायकश्चतुर्थ्यां तु पञ्चम्यामपि धर्मराट् ॥१४॥
षष्ठ्यां स्कन्दः प्रस्वपिति सप्तम्यां भगवान् रविः ।
कात्यायनी तथाष्टम्यां नवम्यां कमलालया ॥१५॥
दशम्यां भुजगेन्द्राश्च स्वपन्ते वायुभोजनाः ।
एकादश्यां तु कृष्णायां साध्या ब्रह्मन् स्वपन्ति च ॥१६॥
एष क्रमस्ते गदितो नभादौ स्वपने मुने ।
स्वपत्सु तत्र देवेषु प्रावृट्कालः समाययौ ॥१७॥
कङ्काः समं बलाकाभिरारोहन्ति नभोत्तमान् ।
वायसाश्चापि कुर्वन्ति नीडानि ऋषिपुंगव ।
वायसाश्च स्वपन्त्येते ऋतौ गर्भभरालसाः ॥१८॥
यस्यां तिथ्यां प्रस्वपिति विश्वकर्मा प्रजापतिः ।
द्वितीया सा शुभा पुण्या अशून्यशयनोदिता ॥१९॥
तस्यां तिथावर्च्य हरि श्रीवत्साङ्ग्कं चतुर्भुजम् ।
पर्यङ्कस्थं समं लक्ष्या गन्धपुष्पादिभिर्मुने ॥२०॥
ततो देवाय शय्यायां फलानि प्रक्षिपेत क्रमात् ।
सुरभीणि निवेद्येत्थं विज्ञाप्यो मधुसूदनः ॥२१॥
यथा हि लक्ष्म्या न वियुज्यसे त्वं त्रिविक्रमानन्त जगान्निवास ।
तथा त्वशून्यं शयनं सदैव अस्माकमेवेह तव प्रसादात् ॥२२॥
यथा त्वशून्यंख तव देव तल्पं समं हि लक्ष्म्या वरदाच्युतेश ।
सत्येन तेनामितवीर्य विष्णो गार्हस्थ्यनाशो मम नास्तु देव ॥२३॥
इत्युच्चार्य प्रणम्येशं प्रसाद्य च पुनः पुनः ।
नक्तं भुञ्जीत देवर्षे तैलक्षारविवर्जितम् ॥२४॥
द्वितीयेऽह्नि द्विजाग्र्याय फलान् दद्याद विचक्षणः ।
लक्ष्मीधरः प्रीयतां मे इत्युच्चार्य निवेदयेत् ॥२५॥
अनेन तु विधानेन चातुर्मास्यव्रतं चरेत् ।
यावद वृश्चिकराशिस्थः प्रतिभाति दिवाकरः ॥२६॥
ततो विबुध्यन्ति सुराः क्रमशः क्रमशो मुने ।
तुलास्थेऽर्के हरिः कामः शिवः पश्चाद्विबुध्यते ॥२७॥
तत्र दानं द्वितीयायां मूर्तिर्लक्ष्मीधरस्य तु ।
सशय्यास्तरणोपेता यथा विभवमात्मनः ॥२८॥
एष व्रतस्तु प्रथमः प्रोक्तस्तव महामुने ।
यस्मिंश्चीर्णे वियोगस्तु न भवेदिह कस्यचित ॥२९॥
नभस्ये मासि च तथा या स्यात्कृष्णाष्टमी शुभा ।
युक्ता मृगशिरेणैव सा तु कालाष्टमी स्मृता ॥३०॥
तस्यां सर्वेषु लिङ्गेषु तिथौ स्वपिति शंकरः ।
वसते संनिधाने तु तत्र पूजाऽक्षया स्मृता ॥३१॥
तत्र स्नायीत वै विद्वान् गोमूत्रेण जलेन च ।
स्नातः संपूजयेत् पुष्पैर्धत्तूरस्य त्रिलोचनम् ॥३२॥
धूपं केसरनिर्यासं नैवेद्यं मधुसर्पिषी ।
प्रीयतां मे विरुपाक्षस्त्वित्युच्चार्य च दक्षिणाम् ॥३३॥
तद्वदाश्चयुजे मासि उपवासी जितेन्द्रियः ।
नवम्यां गोमयस्नानं कुर्यात्पूजां तु पङ्कजैः ।
धूपयेत् सर्जनिर्यासं नैवेद्यं मधुमोदकैः ॥३४॥
कृतोपवासस्त्वष्टम्यां नवम्यां स्नानमाचरेत् ।
प्रीयतां मे हिरण्याक्षो दक्षिण सतिला स्मृता ॥३५॥
कार्तिके पयसा स्नानं करवीरेण चार्चनम् ।
धूपं श्रीवासनिर्यासं नैवेद्यं मधुपायसम् ॥३६॥
सनैवेद्यं च रजतं दातव्यं दानमग्रजे ।
प्रीयतां भगवान् स्थाणुरिति वाच्यमनिष्ठुरम् ॥३७॥
कृत्वोपवासमष्टम्यां नवम्यां स्नानमाचरेत् ।
मासि मार्गशिर स्नानं दध्नार्चा भद्रया स्मृता ॥३८॥
धूपं श्रीवृक्षनिर्यासं नैवेद्यं मधुनोदनम् ।
संनिवेद्या रक्तशालिर्दक्षिणा परिकीर्तिता ।
नमोऽस्तु प्रीयतां शर स्त्विति वाच्यं च पण्डितैः ॥३९॥
पौषे स्नानं च हविषा पूजा स्यात्तगरैः शुभैः ।
धूपो मधुकनिर्यासो नैवेद्यं मधु शष्कुली ॥४०॥
समुद्गा दक्षिणा प्रोक्ता प्रीणनाय जगद्गुरोः ।
वाच्यं नमस्ते देवेश त्र्यम्बकेति प्रकीर्तयेत् ॥४१॥
माघे कुशोदकस्नानं मृगमदेन चार्चनम् ।
धूपः कदम्बनिर्यासो नैवेद्यं सतिलोदनम् ॥४२॥
पयोभक्तं सनैवेद्यं सरुक्मं प्रतिपादयेत् ।
प्रीयतां मे महादेव उमापतिरितीरयेत् ॥४३॥
एवमेव समुद्दिष्टं षडभिर्मासैस्तु पारणम् ।
पारणान्ते त्रिनेत्रस्य स्नपनं कारयेत्क्रमात् ॥४४॥
गोरोचनायाः सहिता गुडेन देवं समालभ्य च पूजयेत ।
प्रीयस्व दीनोऽस्मि भवन्तमीश मच्छोकनाशं प्रकुरुष्व योग्यम् ॥४५॥
ततस्तु फाल्गुने मासि कृष्णाष्टम्यां यतव्रत ।
उपवासं समुदितं कर्तव्यं द्विजसत्तम ॥४६॥
द्वितीयेऽह्नि ततः स्नानं पञ्चगव्येन कारयेत् ।
पूजयेत्कुन्दकुसुमैर्धूपयेच्चन्दनं त्वपि ॥४७॥
नैवेद्यं सघृतं दद्यात् ताम्रपात्रे गुडोदनम् ।
दक्षिणां च द्विजातिभ्यो नैवेद्यसहितां मुने ।
वासोयुगं प्रीणयेच्च रुद्रमुच्चार्य नामतः ॥४८॥
चैत्रे चोदुम्बरफलैः स्नानं मन्दारकार्चनम् ।
गुग्गुलं महिषाख्यं च घृताक्तं धूपयेद बुधः ॥४९॥
समोदकं तथा सर्पिः प्रीणनं विनिवेदयेत् ।
दक्षिणा च सनैवेद्यं मृगाजिनमुदाहतम् ॥५०॥
नाट्येश्वर नमस्तेऽस्तु इदमुच्चार्य नारद ।
प्रीणनं देवनाथाय कुर्याच्छ्रद्धासमवन्वितः ॥५१॥
वैशाखे स्नानमुदितं सुगन्धकुसुमाम्भसा ।
पूजनं शंकरस्योक्तं चूतमञ्जरिभिर्विभो ॥५२॥
धूपं सर्जाज्ययुक्तं च नैवेद्यं सफलं घृतम् ।
नामजप्यमपीशस्य कालघ्नेति विपश्चिता ॥५३॥
जलकुम्भान् सनैवेद्यान् ब्राह्मणाय निवेदयेत् ।
सोपवीतान् सहान्नाद्यांस्तच्चित्तैस्तत्परायणैः ॥५४॥
ज्येष्ठे स्नानं चामलकैः पूजार्ककुसुमैस्तथा ।
धूपयेत्तत्त्रिनेत्रं च आयत्यां पुष्टिकारकम् ॥५५॥
सक्तूंश्च सघृतान् देवे दध्नाक्तान् विनिवेदयेत् ।
उपानद्युगलं छत्रं दानं दद्याच्च भक्तिमान् ॥५६॥
नमस्ते भगनेत्रघ्न पूष्णो दशननाशन ।
इदमुच्चारयेदभक्त्या प्रीणनाय जगत्पतेः ॥५७॥
आषाढे स्नानमुदितं श्रीफलैरर्चनं तथा ।
धत्तूरकुसुमैः शुक्लैर्धूपयेत् सिल्हकं तथा ॥५८॥
नैवेद्याः सघृताः पूपाः दक्षिणा सघृता यवाः ।
नमस्ते दक्षयज्ञघ्न इदमुच्चैरुदीरयेत् ॥५९॥
श्रावणे मृगभोज्येन स्ननं कृत्वाऽर्चयेद्धरम् ।
श्रीवृक्षपत्रैः सफलैर्धूपं दद्यात् तथागुरुम् ॥६०॥
नैवेद्यं सघृतं दद्याद दधि पूपान् समोदकान् ।
दध्योदनं सकृसरं माषधानाः सशष्कुलीः ॥६१॥
दक्षिणां श्वेतवृषभं धेनुं च कपिलां शुभाम् ।
कनकं रक्तवसनं प्रदद्याद ब्राह्मणाय हि ।
गङ्गाधरेति जप्तव्यं नाम शंभोश्च पण्डितैः ॥६२॥
अमीभिः षडभिरपरैर्मासैः पारणमुत्तमम् ।
एवं संवत्सरं पूर्णं सम्पूज्य वृषभध्वजम् ।
अक्षयाँल्लभते कामान् महेश्वरवचो यथा ॥६३॥
इदमुक्तं व्रतं पुण्यं सर्वाक्षयकरं शुभम् ।
स्वयं रुद्रेण देवर्षे तत्तथा न तदन्यथा ॥६४॥