ब्रह्मोवाच
परदाराभिगमनं पापीयांसोपसेवनम् ।
पारुष्यं सर्वभूतानां प्रथमं नरकं स्मृतम् ॥१॥
फलस्तेयं महापापं फलहीन तथाऽटनम् ।
छेदनं वृक्षजातीनां द्वितीयं नरकं स्मृतम् ॥२॥
वर्ज्यादानं तथा दुष्टमवध्यवधबन्धनम् ।
विवादमर्थहेतूत्थं तृतीयं नरकं स्मृतम् ॥३॥
भयदं सर्वसत्त्वानां भवभूतिविनाशनम् ।
भ्रंशनं निजधर्माणां चतुर्थं नरकं स्मृतम् ॥४॥
मारणं मित्रकौटिल्यं मिथ्याऽभिशपनं च यत् ।
मिष्टैकाशनमित्युक्तं पञ्चमं तु नृपाचनम् ॥५॥
पत्रफलादिहरणं यमनं योगनाशनम् ।
यानयुग्यस्य हरणं षष्ठमुक्तं नृपाचनम् ॥६॥
राजभागहरं मूढं राजजायानिवेषणम् ।
राज्ये त्वहितकारित्वं सप्तमं निरयं स्मृतम् ॥७॥
लुब्धत्वं लोलुपत्वं च लब्धधर्मार्थनाशनम् ।
लालासंकीर्णमेवोक्तमष्टमं नरकं स्मृतम् ॥८॥
विप्रोष्यं ब्रह्महरणं ब्राह्मणानां विनिन्दनम् ।
विरोधं बन्धुभीश्चोक्तं नवमं नरपाचनम् ॥९॥
शिष्टाचारविनाशं च शिष्टद्वेषं शिशोर्वधम् ।
शास्त्रस्तेयं धर्मनाशं दशमं परिकीर्त्तितम् ॥१०॥
षडङ्गनिधनं घोरं षाडगुण्यप्रतिषेधनम् ।
एकादशममेवोक्तं नरकं सद्भिरुत्तमम् ॥११॥
सत्सु नित्यं सदा वैरमनाचारमसत्क्रिया ।
संस्कारपरिहीनत्वमिदं द्वादशमं स्मृतम् ॥१२॥
हानिर्धर्मार्थकामनामपवर्गस्य हारणम् ।
संभेदः संविदामेतत् त्रयोदशममुच्यते ॥१३॥
कृपणं धर्महीनं च यद वर्ज्यं यच्च वह्निदम् ।
चतुर्द्दशममेवोक्तं नरकं तद विगर्हितम् ॥१४॥
अज्ञानं चाप्यसूयत्वमशौचमशुभावहम् ।
स्मृतं तत् पञ्चदशममसत्यवचनानि च ॥१५॥
आलस्यं वै षोडशममाक्रोशं च विशेषतः ।
सर्वस्य चाततायित्वमावासेष्वग्निदीपनम् ॥१६॥
इच्छा च परादारेषु नरकाय निगद्यते ।
ईर्ष्याभावश्च सत्येषु उदवृत्तं तु विगर्हितम् ॥१७॥
एतैस्तु पापैः पुरुषः पुन्नामाद्यैर्न संशयः ।
संयुक्तः प्रीणयेद देवं संतत्या जगतः पतिम् ॥१८॥
प्रीतः सृष्टया तु शुभया स पापाद येन मुच्यते ।
पुन्नामनरकं घोरं विनाशयति सर्वतः ॥१९॥
एतस्मात् कारणात् साध्य सुतः पुत्रेति गद्यते ।
अतः परं प्रवक्ष्यामि शेषपापस्य लक्षणम् ॥२०॥
ऋणं देवर्षिभूतानां मनुष्याणां विशेषतः ।
पितृणां च द्विजश्रेष्ठ सर्ववर्णेषु चैकता ॥२१॥
ओंकारादपि निर्वृत्तिः पापकार्यकृतश्च यः ।
मत्स्यादश्च महापापमगम्यागमनं तथा ॥२२॥
घृतादिविक्रयं घोरं चण्डालादिपरिग्रहः ।
स्वदेषाच्छादनं पापं परदोषप्रकाशनम् ॥२३॥
मत्सरित्वं वाग्दुष्टत्वं निष्ठुरत्वं तथा परम् ।
टाकित्वं तालवादित्वं नाम्ना वाचाऽप्यधर्मजम् ॥२४॥
दारुणत्वमधार्मिक्यं नरकावहमुच्यते ।
एतैश्च पापैः संयुक्तः प्रीणयेद यदि शङ्करम् ॥२५॥
ज्ञानधिकमशेषेण शेषपापं जयेत् ततः ।
शारीरं वाचिकं यत् तु मानसं कायिकं तथा ॥२६॥
पितृमातृकृतं यच्च कृतं यच्चाश्रितैर्नरैः ।
भ्रातृभीर्बान्धवैश्चापि तस्मिञ्जन्मनि धर्मज ॥२७॥
तत्सर्वं विलयं याति स धर्मः सुतशिष्ययोः ।
विपरीते भवेत् साध्य विपरीतः पदक्रमः ॥२८॥
तस्मात् पुत्रश्च शिष्यश्च विधातव्यौ विपश्चिता ।
एतदर्थमभिष्याय शिष्याच्छ्रेष्ठतरः हि पुत्रकः ॥२९॥
पुलस्त्य उवाच
पितामहवचः श्रुत्वा साध्यः प्राह तपोधनः ।
त्रिः सत्यं तब पुत्रोऽहं देव योगं वदस्व मे ॥३०॥
तमुवाच महायोगी त्वन्मातापितरौ यदि ।
दास्येते च ततः सूनुर्दायादो मेऽसि पुत्रक ॥३१॥
सनत्कुमारः प्रोवाच दायादपरिकल्पना ।
येयं हि भवता प्रोक्तां तां मे व्याख्यातुमर्हसि ॥३२॥
तदुक्तं साध्यमुख्येन वाक्यं श्रुत्वा पितामह्यः ।
प्राह प्रहस्य भगवाञ्श्रृणु वत्सेति नारद ॥३॥
ब्रह्मोवाच
औरसः क्षेत्रजश्चैव दत्तः कृत्रिम एव च ।
गूढोत्पन्नोऽपविद्धश्च दायादा बान्धवास्तु षट् ॥३४॥
अमीष्बु षट्सु पुत्रेषु ऋणपिण्डधनक्रियाः ।
गोत्रसाम्यं कुले वृत्तिः प्रतिष्ठा शाश्वती तथा ॥३५॥
कानीनश्च सहोढश्च क्रीतः पौनर्भवस्तथा ।
स्वयंदत्तः पारशवः षड्दायादबान्धवाः ॥३६॥
अमीभिऋणपिण्डादिकथा नैवेह विद्यते ।
नामधारका एवेह न गोत्रकुलसंमताः ॥३७॥
तत तस्य वचनं श्रुत्वा ब्रह्मणः सनकाग्रजः ।
उवाचैषां विशेषं मे ब्रह्मन् व्याख्यातुमर्हसि ॥३८॥
ततोऽब्रवीत् सुरपतिर्विशेषं श्रृणु पुत्रक ।
औरसो यः स्वयं जातः प्रतिबिम्बमिवात्मनः ॥३९॥
क्लीबोन्मत्ते व्यसनिनि पत्यौ तस्याज्ञया तु या ।
भार्या ह्यनातुरा पुत्रं जनयेत् क्षेत्रजस्तु सः ॥४०॥
मातापितृभ्यां यो दत्तः स दत्तः परिगीयते ।
मित्रपुत्रं मित्रदत्तं कृत्रिमं प्राहुरुत्तमाः ॥४१॥
न ज्ञायते गृहे केन जातस्त्विति स गूढकः ।
बाह्यतः स्वयमानीतः सोऽपविद्धः प्रकीर्तितः ॥४२॥
कन्याजातस्तु कानीनः सगर्भोढः सहोढकः ।
मूल्यैर्गृहीतः क्रीतः स्याद् द्विविधः स्यात् पुनर्भवः ॥४३॥
दत्त्वैकस्य च या कन्या हत्वाऽन्यस्य प्रदीयते ।
तज्जातस्तनयो ज्ञेयो लोके पौनर्भवो मुने ॥४४॥
दुर्भिक्षे व्यसने चापि येनात्मा विनिवेदितः ।
स स्वयंदत्त इत्युक्तस्तथान्यः कारणान्तरैः ॥४५॥
ब्राह्मणस्य सुतः शूद्र्यां जायते यस्तु सुव्रत् ।
ऊढायां वाप्यनूढायां स पारशव उच्यते ॥४६॥
एतस्मात् कारणात् पुत्र न स्वयं दातुमर्हसि ।
स्वमात्मानं गच्छ शीघ्रं पितरौ समुपाह्वय ॥४७॥
ततः स मातपितरौ सस्मार वचनाद विभोः ।
तावाजग्मतुरीशानं द्रष्टुं वै दम्पती मुने ॥४८॥
धर्मोऽहिंसा च देवेशं प्रणिपत्य न्यषीदताम् ।
उपविष्टौ सुखासीनौ साध्यो वचनमब्रवीत् ॥४९॥
सनत्कुमार उवाच
योगं जिगमिषुस्तात ब्रह्माणं समचूचुदम् ।
स चोक्तवान् मां पुत्रार्थे तस्मात् त्वं दातुमर्हसि ॥५०॥
तावेवमुक्तौ पुत्रेण योगाचार्यं पितामहम् ।
उक्तवन्तौ प्रभोऽयं हि आवयोस्तनयस्तव ॥५१॥
अद्यप्रभृत्ययं पुत्रस्तव ब्रह्मन् भविष्यति ।
इत्युक्त्वा जग्मतुस्तूर्णं येनैवाभ्यागतौ यथा ॥५२॥
पितामहोऽपि तं पुत्रं साध्यं सद्विनयान्वितम् ।
सनत्कुमारं प्रोवाच योगं द्वादशपत्रकम् ॥५३॥
शिखासंस्थं तु ओङ्कारं मेषोऽस्य शिरसि स्थितः ।
मासो वैशाखनामा च प्रथमं पत्रकं स्मृतम् ॥५४॥
नकारो मुखसंस्थो हि वृषस्तत्र प्रकीर्तितः ।
ज्येष्ठमासश्च तत्पत्रं द्वितीयं परिकीर्तितम् ॥५५॥
मोकारो भुजयोर्युग्मं मिथुनस्तत्र संस्थितः ।
मासो आषाढनामा च तृतीयं पत्रकं स्मृतम् ॥५६॥
भकारं नेत्रयुगलं तत्र कर्कटकः स्थितः ।
मासः श्रावण इत्युक्तश्चतुर्थं पत्रकं स्मृतम् ॥५६॥
भकारं नेत्रयुगलं तत्र कर्कटकः स्थितः ।
मासः श्रावण इत्युक्तश्चतुर्थं पत्रकं स्मृतम् ॥५७॥
गकारं हदयं प्रोक्तं सिंहो वसति तत्र च ।
मासो भाद्रस्तथा प्रोक्तः पञ्चमं पत्रकं स्मृतम् ॥५८॥
वकारं कवचं विद्यात् कन्या तत्र प्रतिष्ठिता ।
मासश्चाश्वयुजो नाम षष्ठं तत् पत्रकं स्मृतम् ॥५९॥
तेकारमस्त्रग्रामं च तुलाराशिः कृताश्रयः ।
मासश्च कार्तिको नाम सप्तमं पत्रकं स्मृत ॥६०॥
वाकारं नाभिसंयुक्तं स्थितस्तत्र तु वृश्चिकः ।
मासो मार्गशिरो नाम त्वष्टमं पत्रकं स्मृतम् ॥६१॥
सुकारं जघनं प्रोक्तं तत्रस्थश्च धनुर्धरः ।
पौषेति गदितो मासो नवमं परिकीर्तितम् ॥६२॥
देकारश्चोरुयुगलं मकरोऽप्यत्र संस्थितः ।
माघो निगदितो मासः पत्रकं दशमं स्मृतम् ॥६३॥
वाकारो जानुयुग्मं च कुम्भस्तत्रादिसंस्थितः ।
पत्रकं फाल्गुनं प्रोक्तं तदेकादशमुत्तमम् ॥६४॥
पादौ यकारो मीनोऽपि स चैत्रे वसते मुने ।
इदं द्वादशमं प्रोक्तं पत्रं वै केशवस्य हि ॥६५॥
द्वादशारं तथा चक्रं षण्णाभि द्वियुतं तथा ।
त्रिव्यूहमेकमूर्तिश्च तथोक्तः परमेश्वरः ॥६६॥
एतत तवोक्तं देवस्य रुपं द्वादशपत्रकम् ।
यस्मिञ्ज्ञाते मुनिश्रेष्ठ न भूयो मरणं भवेत् ॥६७॥
द्वितीयमुक्तं सत्त्वाढयं चतुर्वर्णं चतुर्मुखम् ।
चतुर्बाहुमुदाराङ्गं श्रीवत्सधरमव्ययम् ॥६८॥
तृतीयस्तामसो नाम शेषमूर्तिः सहस्त्रपात् ।
सहस्त्रवदनः श्रीमान् प्रजाप्रलयकारकः ॥६९॥
चतुर्थो राजसो नाम रक्तवर्णश्चतुर्मुखः ।
द्विभुजो धारयन् मालां सृष्टिकृच्चादिपूरुषः ॥७०॥
अव्यक्तात् सम्भवन्त्येते त्रयो व्यक्ता महामुने ।
अतो मरीचिप्रमुखास्तथान्येऽपि सहस्त्रशः ॥७१॥
एतत् तवोक्तं मुनिवर्य रुपं विभोः पुराणं मतिपुष्टिवर्धनम् ।
चतुर्भुजं तं स मुरुर्दुरात्मा कृतान्तवाक्यात् पुनराससाद ॥७२॥
तमागतं प्राह मुने मधुघ्नः प्राप्तोऽसि केनासुर कारणेन ।
स प्राह योद्धुं सह वै त्वयाऽद्य तं प्राह भूयः सुरशत्रुहन्ता ॥७३॥
यदीह मां योद्धुमुपागतोऽसि तत् कम्पते ते हदयं किमर्थम् ।
ज्वरातुरस्येव मुहुर्मुहुर्वै तन्नास्मि योत्स्ये सह कातरेण ॥७४॥
इत्येवमुक्तो मधुसूदनेन मुरुस्तदा स्वे हदये स्वहस्तम् ।
कथं क्व कस्येति मुहुस्तथोक्त्वा निपातयामास विपन्नबुद्धिः ॥७५॥
हरिश्च चक्रं मृदुलाघवेन मुमोच तदधृतकमलस्य शत्रोः ।
चिच्छेद देवास्तु गतव्यथाभवन् देवं प्रशंसन्ति च पद्मनाभम् ॥७६॥
एतत् तवोक्तं मुरदैत्यनाशनं कृतं हि युक्त्या शितचक्रपाणिना ।
अतः प्रसिद्धिं समुपाजगाम मुरारिरित्येव विभुर्नृसिंहः ॥७७॥