पुलस्त्य उवाच
ततोऽनङ्गं विभुर्दृष्ट्वा ब्रह्मन् नारायणो मुनिः ।
प्रहस्यैवं वचः प्राह कन्दर्प इह आस्यताम् ॥१॥
तदक्षुब्धत्वमीक्ष्यास्य कामो विस्मयगातः ।
वसन्तोऽपि महाचिन्तां जगामाशु महामुने ॥२॥
ततश्चाप्सरसो दृष्ट्वा स्वागतेनाभिपूज्य च ।
वसन्तमाह भगवानेह्येहि स्थीयतामिति ॥३॥
ततो विहस्य भगवान् मञ्जरीं कुसुमावृताम् ।
आदाय प्राक्सुवर्णाङ्गीमूर्वोर्बालां विनिर्ममे ॥४॥
ऊरुद्भवां स कन्दर्पो दृष्ट्वा सर्वाङ्गसुन्दरीम् ।
अमन्यत तदाऽनङ्गः किमियं सा प्रिया रतिः ॥५॥
तदेव वदनं चारु स्वाक्षिभ्रुकुटिलालकम् ।
सुनासावंशाधरोष्ठमालोकनपरायणम् ॥६॥
तावेवाहार्यविरलौ पीवरौ मग्नचूचुकौ ।
राजेतेऽस्याः कुचौ पीनौ सज्जनाविव संहतौ ॥७॥
तस्मिञ्शासति दैत्येन्द्रे देवब्राह्मणपूजके ।
मखानि भुवि राजानो यजन्ते विधिवत्तदा ॥२३॥
ब्राह्मणाश्च तपो धर्मं तीर्थयात्राश्च कुर्वते ।
वैश्याश्च पशुवृत्तिस्थाः शूद्राः शुश्रूषणे रताः ॥२४॥
चातुर्वर्ण्यं ततः स्वे स्वे आश्रमे धर्मकर्मणि ।
आवर्त्तत ततो देवा वृत्त्या युक्ताभवन् मुने ॥२५॥
ततस्तु च्यवनो नाम भार्गवेन्द्रो महातपाः ।
जगाम नर्मदां स्नातुं तीर्थं च नकुलीश्वरम् ॥२६॥
तत्र दृष्ट्वा महादेवं नदीं स्नातुमवातरत् ।
अवतीर्णं प्रजग्राह नागः केकरलोहितः ॥२७॥
गृहीतस्तेन नागेन सस्मार मनसा हरिम् ।
संस्मृते पुण्डरीकाक्षे निर्विषोऽभून्महोरगः ॥२८॥
नीतस्तेनातिरौद्रेण पन्नगेन रसातलम् ।
निर्विषश्चापि तत्याज च्यवनं भुजगोत्तमः ॥२९॥
संत्यक्तमात्रो नागेन च्यवनो भार्गवोत्तमः ।
चचार नागकन्याभिः पूज्यमानः समन्ततः ॥३०॥
विचरन् प्रविवेशाथ दानवानां महत् पुरम् ।
संपूज्यमानो दैत्येन्द्रैः प्रह्लादोऽथ ददर्श तम् ॥३१॥
भृगुपुत्रे महातेजाः पूजां चक्रे यथार्हतः ।
संपूजितोपविष्टश्च पृष्टश्चागमनं प्रति ॥३२॥
स चोवाच महाराज महातीर्थं महाफलम् ।
स्नातुमेवागतोऽस्म्यद्य द्रष्टुं च नकुलीश्वरम् ॥३३॥
नद्यामेववतीर्णोऽस्मि गृहीतश्चाहिना बलात् ।
समानीतोऽस्मि पाताले दृष्टश्चात्र भवानपि ॥३४॥
एतच्छुत्वा तु वचनं च्यवनस्य दितीश्वरः ।
प्रोवाच धर्मसंयुक्तं स वाक्यं वाक्यकोविदः ॥३५॥
प्रह्लाद उवाच
भगवन् कानि तीर्थानि पृथिव्यां कानि चाम्बरे ।
रसातले च कानि स्युरेतद वक्तुं त्वमर्हसि ॥३६॥
च्यवन उवाच
पृथिव्यां नैमिषं तीर्थमन्तरिक्षे च पुष्करम् ।
चक्रतीर्थं महाबाहो रसातलतले विदुः ॥३७॥
पुलस्त्य उवाच
श्रुत्वा तद्भार्गववचो दैत्यराजो महामुने ।
नैमिषं गन्तुकामस्तु दानवानिदमब्रवीत् ॥३८॥
प्रह्लाद उवाच
उत्तिष्ठध्वं गमिष्यामः स्नातुं तीर्थं हि नैमिषम् ।
द्रक्ष्यामः पुण्डरीकाक्षं पीतवाससमच्युतम् ॥३९॥
पुलस्त्य उवाच
इत्युक्ता दानवेन्द्रेण सर्वे ते दैत्यदानवाः ।
चक्रुरुद्योगमतुलं निर्जग्मुश्च रसातलात् ॥४०॥
ते समभ्येत्य दैतेया दानवाश्च महाबलाः ।
नैमिषारण्यमागत्य स्नानं चक्रुर्मुदान्विताः ॥४१॥
ततो दितीश्वरः श्रीमान् मृगव्यां स चचार ह ।
चरन् सरस्वतीं पुण्यां ददर्श विमलोदकाम् ॥४२॥
तस्यादूरे महाशाखं शालवृक्षं शरैश्चितम् ।
ददर्श बाणनपरान् मुखे लग्नान् परस्परम् ॥४३॥
ततस्तानद्भुताकारान् बाणान् नागोपवीतकान् ।
दृष्ट्वाऽतुलं तदा चक्रे क्रोधं दैत्येश्वरः किल ॥४४॥
स ददर्श ततो दूरात्कृष्णाजिनधरौ मुनी ।
समुन्नतजटाभारौ तपस्यासक्तमानसौ ॥४५॥
तयोश्च पार्श्वयोर्दिव्ये धनुषी लक्षणान्विते ।
शार्ङ्गमाजगवं चैव अक्षय्यौ च महेषुधी ॥४६॥
तौ दृष्ट्वाऽमन्यत तदा दाम्भिकाविति दानवः ।
ततः प्रोवाच वचनं तावुभौ पुरुषोत्तमौ ॥४७॥
किं भवदभ्यां समारब्धं दम्भं धर्मविनाशनम् ।
क्व तपः क्व जटाभारः क्व चेमौ प्रवरायुधौ ॥४८॥
अथोवाच नरो दैत्यं का ते चिन्ता दितीश्वर ।
सामर्थ्ये सति यः कुर्यात् तत्संपद्येत तस्य हि ॥४९॥
अथोवाच दितीशस्तौ का शक्तिर्युवयोरिहि ।
मयि तिष्ठति दैत्येन्द्रे धर्मसेतुप्रवर्तके ॥५०॥
नरस्तं प्रत्युवाचाथ आवाभ्यां शक्तिरुर्जिता ।
न कश्चिच्छक्नुयाद् योद्धुं नरनारायणौ युधि ॥५१॥
दैत्येश्वरस्ततः क्रुद्धः प्रतिज्ञामारुरोह च ।
यथा कथंचिज्जेष्यामि नरनारायणौ रणे ॥५२॥
इत्येवमुक्त्वा वचनं महात्मा दितीश्वरः स्थाप्य बलं वनान्ते ।
वितत्य चापं गुणमाविकृष्य तलध्वनिं घोरतरं चकार ॥५३॥
ततो नरस्त्वाजगवं हि चापमानम्य बाणान् सुबहूञ्शिताग्रान् ।
मुमोच तानप्रतिमैः पृषत्कैश्चिच्छेद दैत्य स्तपनीयपुङ्खैः ॥५४॥
छिन्नान् समीक्ष्याथ नरः पृषत्कान् दैत्येश्वरेणाप्रतिमेन संख्ये ।
क्रुद्धः समानम्य महाधनुस्ततो मुमोच चान्यान् विविधान् पृषत्कान् ॥५५॥
एकं नरो द्वौ दितिजेश्वरश्च त्रीन् धर्मसूनुश्चतुरो दितीशः ।
नरस्तु बाणान् प्रमुमोच पञ्च षड् दैत्यनाथो निशितान् पृषत्कान् ॥५६॥
सप्तर्षिमुख्यो द्विचतुश्च दैत्यो नरस्तु षट् त्रीणि च दैत्यमुख्ये ।
षटत्रीणि चैकं च दितीश्वरेण मुक्तानि बाणानि नराय विप्र ॥५७॥
एकं च षट् पञ्च नरेण मुक्तास्त्वष्टौ शराः सप्त च दानवेन ।
षट् सप्त चाष्टौ नव षण्नरेण द्विसप्ततिं दैत्यपतिः ससर्ज ॥५८॥
शतं नरस्त्रीणि शतानि दैत्यः षड् धर्मपुत्रो दश दैत्यराजः ।
ततोऽप्यसंख्येयरतरान् हि बाणान् मुमोचतुस्तौ सुभृशं हि कोपात् ॥५९॥
ततो नरो बाणगणैरसंख्यैरवास्तरद्भूमिमथो दिशः खम् ।
स चापि दैत्यप्रवरः पृषत्कैश्चिच्छेद वेगात् तपनीयपुङ्खैः ॥६०॥
ततः पतत्त्रिभिर्वीरौ सुभृशं नरदानवौ ।
युद्धे वरास्त्रैर्युध्येतां घोररुपेः परस्परम् ॥६१॥
ततस्तु दैत्येन वरास्त्रपाणिना चापे नियुक्तं तु पितामहास्त्रम् ।
महेश्वरास्त्रं पुरुषोत्तमेन समं समाहत्य निपेततुस्तौ ॥६२॥
ब्रह्मास्त्रे तु प्रशामिते प्रह्लादः क्रोधमूर्च्छितः ।
गदां प्रगृह्य तरसा प्रचस्कन्द रथोत्तमात् ॥६३॥
गदापाणिं समायान्तं दैत्यं नारायणस्तदा ।
दृष्ट्वाऽथ पृष्ठतश्चके नरं योद्धुमनाः स्वयम् ॥६४॥
ततो दितीशः सगदः समाद्रवत् सशार्ङ्गपाणिं तपसां निधानम् ।
ख्यातं पुराणर्षिमुदारविक्रमं नारायणं नारद लोकपालम् ॥६५॥