पुलस्त्य उवाच
ततः स्वसैन्यमालक्ष्य निहतं प्रमथैरथ ।
अन्धकोऽभ्येत्य शुक्रं तु इदं वचनमब्रवीत् ॥१॥
भगवंस्त्वां समाश्रित्य वयं बाधाम देवताः ।
अथान्यानपि विप्रर्षे गन्धर्वसुरकिन्नरान् ॥२॥
तदियं पश्य भगवन् मया गुप्ता वरुथिनी ।
अनाथेव यथा नारी प्रमथैरपि काल्यते ॥३॥
कुजम्भाद्याश्च निहता भ्रातरो मम भार्गव ।
अक्षयाः प्रमथाश्चामी कुरुक्षेत्रफलं यथा ॥४॥
तस्मात् कुरुष्व श्रेयो नो न जयेम यथा परैः ।
जयेम च परान् युद्धे तथा त्वं कर्तुमर्हसि ॥५॥
शुक्रोऽन्धकवचः श्रुत्वा सान्त्वयन् परमाद्भुतम् ।
वचनं प्राह देवर्षे ब्रह्मर्षिदानवेश्वरम् ।
त्वद्धितार्थं यतिष्यामि करिष्यामि तव प्रियम् ॥६॥
इत्येवमुक्त्वा वचनं विद्यां संजीवनीं कविः ।
आवर्तयामास तदा विधानेन शुचिव्रतः ॥७॥
तस्यामावर्त्यमानायां विद्यायामसुरेश्वराः ।
ये हताः प्रथमं युद्धे दानवास्ते समुत्थिताः ॥८॥
कुजम्भादिषु दैत्येषु भूय एवोत्थितेष्वथ ।
युद्धायाभ्यागतेष्वेव नन्दी शङ्करमब्रवीत् ॥९॥
महादेव वचो मह्यं श्रृणु त्वं परमाद्भुतम् ।
अविचिन्त्यमसह्यं च मृतानां जीवनं पुनः ॥१०॥
ये हताः प्रमथैर्दैत्या यथाशक्त्या रणाजिरे ।
ते समुज्जीविता भूयो भार्गवेणाथ विद्यया ॥११॥
तदिदं तैर्महादेव महत्कर्मकृतं रणे ।
संजातं स्वल्पमेवेश शुक्रविद्याबलाश्रयात् ॥१२॥
इत्येवमुक्ते वचने नन्दिना कुलनन्दिना ।
प्रत्युवाच प्रभुः प्रीत्या स्वार्थसाधनमुत्तमम् ॥१३॥
गच्छ शुक्रं गणपते ममान्तिकमुपानय ।
अहं तं संयमिष्यामि यथायोगं समेत्य हि ॥१४॥
इत्येवमुक्तो रुद्रेण नन्दी गणपतिस्ततः ।
समाजगाम दैत्यानां चमूं शुक्रजिघृक्षया ॥१५॥
तं ददर्शासुरश्रेष्ठो बलवान् हयकन्धरः ।
संरुरोध तदा मार्गं सिंहस्येव पशुर्वने ॥१६॥
समुपेत्याहनन्नन्दी वज्रेण शतपर्वणा ।
स पपाताथ निःसंज्ञो ययौ नन्दी ततस्त्वरन् ॥१७॥
ततः कुजम्भो जम्भश्च बलो वृत्रस्त्वयः शिराः ।
पञ्च दानवशार्दूला नन्दिनं समुपाद्रवन् ॥१८॥
तथाऽन्ये दानवश्रेष्ठा मयह्लादपुरोगमाः ।
नानाप्रहरणा युद्धे गणनाथमभिद्रवन् ॥१९॥
ततो गणानामधिपं कुटयमानं महाबलैः ।
समपश्यन्त देवास्तं पितामहपुरोगमाः ॥२०॥
तं दृष्ट्वा भगवान् ब्रह्मा प्राह शक्रपुरोगमान् ।
साहाय्यं क्रियतां शम्भोरेतदन्तरमुत्तमम् ॥२१॥
पितामहोक्तं वचनं श्रुत्वा देवाः सवासवाः ।
समापतन्त वेगेन शिवसैन्यमथाम्बरात् ॥२२॥
तेषामापततां वेगः प्रमथानां बले बभौ ।
आपगानां महावेगं पतन्तीनां महार्णवे ॥२३॥
ततो हलहलाशब्दः समजायत चोभयोः ।
बलयोर्घोरसंकाशो सुरप्रमथयोरथ ॥२४॥
तमन्तरमुपागम्य नन्दी संगृह्य वेगवान् ।
रथाद भार्गवमाक्रामत् सिंहः क्षुद्र मृगं यथा ॥२५॥
तमादाय हराभ्याशमागमद गणनायकः ।
निपात्य रक्षिणः सर्वानथ शुक्रं न्यवेदयत् ॥२६॥
तमानीतं कविं शर्वः प्राक्षिपद वदने प्रभुः ।
भार्गवं त्वावृततनुं जठरे स न्यवेशयत् ॥२७॥
स शम्भुना कविश्रेष्ठो ग्रस्तो जठरमास्थितः ।
तुष्टाव भगवन्तं तं मुनिर्वाग्भिरथादरात् ॥२८॥
शुक्र उवाच
वरदाय नमस्तुभ्यं हराय गुणशालिने ।
शङ्कराय महेशाय त्र्यम्बकाय नमो नमः ॥२९॥
जीवनाय नमस्तुभ्यं लोकनाथ वृषाकपे ।
मदनाग्ने कालशत्रो वामदेवाय ते नमः ॥३०॥
स्थाणवे विश्वरुपाय वामनाय सदागते ।
महादेवाय शर्वाय ईश्वराय नमो नमः ॥३१॥
त्रिनयन हर भव शङ्कर उमापते जीमूतकेतो गुहागृह श्मशाननिरत भूतिविलेपन शूलपाणे पशुपते गोपते तत्पुरुषसत्तम नमो नमस्ते ।
इत्थं स्तुतः कविवरेण हरोऽथ भक्त्या प्रीतो वरं वरय दद्मि तवेत्युवाच ।
स प्राह देववर देहि वरं ममाद्य यद्वै तवैव जठरात् प्रतिनिर्गमोऽस्तु ॥३२॥
ततो हरोऽक्षीणि तदा निरुध्य प्राह द्विजेन्द्राद्य विनिर्गमस्व ।
इत्युक्तमात्रो विभुना चचार देवोदरे भार्गवपुङ्गवस्तु ॥३३॥
परिभ्रमन् ददर्शार्थ शम्भोरेवोदरे कविः ।
भुवनार्णवपातालान् वृत्तान् स्थावरजङ्गमैः ॥३४॥
आदित्यान् वसवो रुद्रान् विश्वेदेवान् गणांस्तथा ।
यक्षान् किंपुरुषाद्यादीन् गन्धर्वाप्सरसां गणान् ॥३५॥
मुनीन् मनुजसाध्यांश्च पशुकीटपिपीलिकान् ।
वृक्षगुल्मान् गिरीन् वल्ल्यः फलमूलौषधानि च ॥३६॥
स्थलस्थांश्च जलस्थांश्चानिमिषान्निमिषानपि ।
चतुष्पदान् सद्विपदान् स्थावराञ् जङ्गमानपि ॥३७॥
अव्यक्तांश्चैव व्यक्तांश्च सगुणान्निर्गुणानपि ।
स दृष्ट्वा कौतुकाविष्टः परिबभ्राम भार्गवः ।
तत्रासतो भार्गवस्य दिव्यः संवत्सरो गतः ॥३८॥
न चान्तमलभद ब्रह्मंस्ततः श्रान्तोऽभवत् कविः ।
स श्रान्तं वीक्ष्य चात्मानं नालभन्निर्गभं वशी ।
भक्तिनम्रो महादेवं शरणं समुपागमत् ॥३९॥
शुक उवाच
विश्वरुप महारुप विश्वरुपाक्षसूत्रधृक् ।
सहस्त्राक्ष महादेव त्वामहं शरणं गतः ॥४०॥
नमोऽस्तु ते शङ्कर शर्व शम्भो सहस्त्रनेत्राङ्घ्रिभुजङ्गभूषण ।
दृष्टैव सर्वान् भुवनांस्तवोदरे श्रान्तो भवन्तं शरणं प्रपन्नः ॥४१॥
इत्येवमुक्ते वचने महात्मा शम्भुर्वचः प्राह ततो विहस्य ।
निर्गच्छ पुत्रोऽसि ममाधुना त्वं शिश्नेन भो भार्गववंशचन्द्र ॥४२॥
नाम्ना तु शुक्रेति चराचरास्त्वां स्तोष्यन्ति नैवात्र विचारमन्यत् ।
इत्येवमुक्त्वा भगवान् मुमोच शिश्नेन शुक्रं स च निर्जगाम ॥४३॥
विनिर्गतो भार्गववंशचन्द्रः शुक्रत्वमापद्य महानुभावः ।
प्रणम्य शम्भुं स जगाम तूर्णं महासुराणां बलमुत्तमौजाः ॥४४॥
भार्गवे पुनरायाते दानवा मुदिताभवन् ।
पुनर्युद्धाय विदधुर्मतिं सह गणैश्वरैः ॥४५॥
गणेश्वरास्तानसुरान् सहामरगणैरथ ।
युयुधः संकुलं युद्धं सर्व एव जयेप्सवः ॥४६॥
ततोऽसुरगणानां च देवतानां च युध्यताम् ।
द्वन्द्वयुद्धं समभवद् घोररुपं तपोधन ॥४७॥
अन्धको नन्दिनं युद्धे शङ्कुकर्णं त्वयः शिराः ।
कुम्भध्वजं बलिर्धीमान् नन्दिषेणं विरोचनः ॥४८॥
अश्वग्रीवो विशाखं च शाखो वृत्रमयोधयत् ।
बाणस्तथा नैगमेयं बलं राक्षसपुङ्गवः ॥४९॥
विनायको महावीर्यः परश्वधधरो रणे ।
संक्रुद्धो राक्षसश्रेष्ठं तुहुण्डं समयोधयत् ।
दुर्योधनश्च बलिनं घण्टाकर्णमयोधयत् ॥५०॥
हस्ती च कुण्डजठरं ह्लादो वीरं घटोदरम् ।
एते हि बलिनां श्रेष्ठा दानवाः प्रमथास्तथा ।
संयोधयन्ति देवर्षे दिव्याब्दानां शतानि षट् ॥५१॥
शतक्रतुमथायान्तं वज्रपाणिमभिस्थितम् ।
वारयामास बलवाञ् जम्भो नाम महासुरः ॥५२॥
शम्भुनामाऽसुरपतिः स ब्रह्माणमयोधयत् ।
महौजसं कुजम्भश्च विष्णुं दैत्यान्तकारिणम् ॥५३॥
विवस्वन्तं रणे शाल्बो वरुणं त्रिशिरास्तथा ।
द्विमूर्धा पवनं सोमं राहुर्मित्रं विरुपधृक् ॥५४॥
अष्टौ ये वसवः ख्याता धराद्यास्ते महासुरान् ।
अष्टावेव महेष्वासान् वारयामासुराहवे ॥५५॥
सरभः शलभः पाकः पुरोऽथ विपृथुः पृथुः ।
वातापी चेल्वलश्चैव नानाशस्त्रास्त्रयोधिनः ॥५६॥
विश्वेदेवगणान् सर्वान् विष्वक्सेनपुरोगमान् ।
एक एव रणे रौद्रः कालनेमिर्महासुरः ॥५७॥
एकादशैव ये रुद्रास्तानेकोऽपि रणोत्कटः ।
योधयामास तेजस्वी विद्युन्माली महासुरः ॥५८॥
द्वावश्विनौ च नरको भास्करानेव शम्बरः ।
साध्यान् मरुदगणांश्चैव निवातकवचादयः ॥५९॥
एवं द्वन्द्वसहस्त्राणि प्रमथामरदानवैः ।
कृतानि च सुराब्दानां दशतीः षण्महामुने ॥६०॥
यदा न शकिता योद्धुं दैवतैरमरारयः ।
तदा मायां समाश्रित्य ग्रसन्तः क्रमशोऽव्ययान् ॥६१॥
ततोऽभवच्छैलपृष्ठं प्रावृडभ्रसमप्रभैः ।
आवृत्तं वर्जितं सर्वैः प्रमथैरमैररपि ॥६२॥
दृष्ट्वा शून्यं गिरिप्रस्थं ग्रस्तांश्च प्रमथामरान् ।
क्रोधादुत्पादयामास रुद्रो जृम्भायिकां वशी ॥६३॥
तया स्पृष्टा दनुसुता अलसा मन्दभाषिणः ।
वदनं विकृतं कृत्वा मुक्तशस्त्रं विजृम्भिरे ॥६४॥
जृम्भमाणेषु च तदा दानवेषु गणेश्वरः ।
सुराश्च निर्ययुस्तूर्णं दैत्यदेहेभ्य आकुलाः ॥६५॥
मेघप्रभेभ्यो दैत्येभ्यो निर्गच्छन्तोऽमरोत्तमाः ।
शोभन्ते पद्मपत्राक्षा मेघेभ्य इव विद्युतः ॥६६॥
गणामरेषु च समं निर्गतेषु तपोधन ।
अयुध्यन्त महात्मानो भूय एवातिकोपिताः ॥६७॥
ततस्तु देवैः सगणैः दानवाः शर्वपालितैः ।
पराजीयन्त संग्रामे भूयो भूयस्त्वहर्निशम् ॥६८॥
ततस्त्रिनेत्रः स्वां संध्यां सप्ताब्दशतिके गते ।
कालेऽभ्युपासत तदा सोऽष्टादशभुजोऽव्ययः ॥६९॥
संस्पृश्यापः सरस्वत्यां स्त्रात्वा च विधिना हरः ।
कृतार्थो भक्तिमान् मूर्ध्ना पुष्पाञ्जलिमुपाक्षिपत् ॥७०॥
ततो ननाम शिरसा ततश्चके प्रदक्षिणम् ।
हिरण्यगर्भेत्यादित्यमुपतस्थे जजाप ह ॥७१॥
त्वष्ट्रे नमो नमस्तेऽतु सम्यगुच्चार्य शूलधृक् ।
ननर्त भावगम्भीरं दोर्दण्डं भ्रामयन् बलात् ॥७२॥
परिनृत्यति देवेशे गणाश्चैवामरास्तथा ।
नृत्यन्ते भावसंयुक्ता हरस्यानुविलासिनः ॥७३॥
सन्ध्यामुपास्य देवेशः परिनृत्य यथेच्छया ।
युद्धाय दानवैः सार्द्धं मतिं भूयः समादधे ॥७४॥
ततोऽमरगणैः सर्वैस्त्रिनेत्रभुजपालितैः ।
दानवा निर्जिताः सर्वे बलिभिर्भयवर्जितैः ॥७५॥
स्वबलं निर्जितं दृष्ट्वा मत्वाऽजेयं च शङ्करम् ।
अन्धकः सुन्दमाहूय इदं वचनमब्रवीत् ॥७६॥
सुन्द भ्राताऽसि मे वीर विश्वास्यः सर्ववस्तुषु ।
तद्वदाम्यद्य यद्व्दाक्यं तच्छुत्वा यत्क्षमं कुरु ॥७७॥
दुर्जयोऽसौ रणपटुर्धर्मात्मा कारणान्तरैः ।
समासते हि हदये पद्माक्षी शैलनन्दिनी ॥७८॥
तदुत्तिष्ठस्व गच्छामो यत्रास्ते चारुहासिनी ।
तत्रैनां मोहयिष्यामि हररुपेण दानव ॥७९॥
भवान् भवस्यानुचरो भव नन्दी गणेश्वरः ।
ततो गत्वाऽथ भुक्त्वा तां जेष्यामि प्रमथान् सुरान् ॥८०॥
इत्येवमुक्ते वचने बाढं सुन्दोऽभ्यभाषत ।
समजायत शैलादिरन्धकः शङ्करोऽप्यभूत् ॥८१॥
नन्दिरुद्रौ ततो भूत्वा महासुरचमूपती ।
सम्प्राप्तौ मन्दरगिरिं प्रहारैः क्षतविग्रहौ ॥८२॥
हस्तमालम्ब्य सुन्दस्य अन्धको हरमन्दिरम् ।
विवेश निर्विशङ्केन चित्तेनासुरसत्तमः ॥८३॥
ततो गिरिसुता दूरादायान्तं वीक्ष्य चान्धकम् ।
महेश्वरवपुश्छन्नं प्रहारैर्जर्जच्छविम् ॥८४॥
सुन्दं शैलादिरुपस्थमवष्टभ्याविशत् ततः ।
तं दृष्ट्वा मालिनीं प्राह सुयशां विजयां जयाम् ॥८५॥
जये पश्यस्व देवस्य मदर्थे विग्रहं कृतम ।
शत्रुभिर्दानववरैस्तदुत्तिष्ठस्व सत्वरम् ॥८६॥
घृतमानय पौराणं बीजिकां लवणं दधि ।
व्रणभङ्गं करिष्यामि स्वयमेव पिनाकिनः ॥८७॥
कुरुष्व शीघ्रं सुयशे स्वभर्तुर्व्रणनाशनम् ।
इत्येवमुक्त्वा वचनं समुत्थाय वरासनात् ॥८८॥
अभ्युद्ययौ तदा भक्त्या मन्यमाना वृषध्वजम् ।
शूलपाणेस्ततः स्थित्वा रुपं चिह्नानि यत्नतः ॥८९॥
अन्वियेष ततो ब्रह्मन्नोभौ पार्श्वस्थितौ वृषौ ।
सा ज्ञात्वा दानवं रौद्रं मायाच्छदितविग्रहम् ॥९०॥
अपयानं तदा चक्रे गिरिराजसुता मुने ।
देव्याश्चिन्तितमाज्ञाय सुन्दं त्यक्त्वान्धकोऽसुरः ॥९१॥
समाद्रवत वेगेन हरकान्तां विभावरीम् ।
समाद्रवत दैतेयो येन मार्गेण साऽगमत् ॥९२॥
अपस्कारान्तरं भञ्जन् पादप्लुतिभिराकुलः ।
तमापतन्तं दृष्टवैव गिरिजा प्राद्रवद् भयात् ॥९३॥
गृहं त्यक्त्वा ह्युपवनं सखीभिः सहिता तदा ।
तत्राप्यनुजगामासौ मदान्धो मुनिपुङ्गव ॥९४॥
तथापि न शशापैनं तपसो गोपनाय तु ।
तद्भयादविशद गौरी श्वेतार्ककुसुमं शुचि ॥९५॥
विजयाद्या महागुल्मे सम्प्रयाता लयं मुने ।
नष्टायामथ पार्वत्यां भूयो हैरण्यलोचनिः ॥९६॥
सुन्दं हस्ते समादाय स्वसैन्यं पुनरागमत् ।
अन्धके पुनरायाए स्वबलं मुनिसत्तम ॥९७॥
प्रावर्तत महायुद्धं प्रमथासुरयोरथ ।
ततोऽमरगणश्रेष्ठो विष्णुश्चक्रगदाधरः ॥९८॥
निजघानासुरबलं शङ्करप्रियकाम्यया ।
शार्ङ्गचापच्युतैर्बाणैः संस्यूता दानवर्षभाः ॥९९॥
पञ्च षट् सप्त चाष्टौ वा ब्रध्नपादैर्घना इव ।
गदया कांश्चिदवधीच्चक्रेणान्याञ् जनार्दनः ॥१००॥
खङ्गेन च चकर्तान्यान् दृष्टयान्यान् भस्मसाद व्यधात् ।
हलेनाकृष्य चैवान्यान् मुसलेन व्यचूर्णयत् ॥१०१॥
गरुडः पक्षपाताभ्यां तुण्डेनाप्युरसाऽहनत् ।
स चादिपुरुषो धाता पुराणः प्रपितामहः ॥१०२॥
भ्रामयन् विपुलं पद्ममभ्यषिञ्चत वारिणा ।
संस्पृष्टा ब्रह्मतोयेन सर्वतीर्थमयेन हि ॥१०३॥
गणामरगणाश्चासन् नवनागशताधिकाः ।
दानवास्तेन तोयेन संस्पृष्टाश्चाघहारिणा ॥१०४॥
सवाहनाः क्षयं जग्मुः कुलिशेनेव पर्वताः ।
दृष्ट्वा ब्रह्महरी युद्धे घातयन्तौ महासुरान् ॥१०५॥
शतक्रतुश्च दुद्राव प्रगृह्य कुलिशं बली ।
तमापतन्तं सम्प्रेक्ष्य बलो दानवसत्तमः ॥१०६॥
मुक्त्वा देवं गदापाणिं विमानस्थं च पद्मजम् ।
शक्रमेवाद्रवद योद्धुं मुष्टिमुद्यम्य नारद ।
बलवान् दानवपतिरजेयो देवदानवैः ॥१०७॥
तमापतन्तं त्रिदशेश्वरस्तु दोष्णां सहस्त्रेण यथाबलेन ।
वज्रं परिभ्राम्य बलस्य मूर्ध्नि चिक्षेप हे मूढ हतोऽस्युदीर्य ॥१०८॥
स तस्य मूर्ध्नि प्रवरोऽपि वज्रो जगाम तूर्णं हि सहस्त्रधा मुने ।
बलोऽद्रवद देवपतिश्च भीतः पराङ्मुखोऽभूत् समरान्महर्षे ॥१०९॥
तं चापि जम्भो विमुखं निरीक्ष्य भूत्वाऽग्रतः प्राह न युक्तमेतत् ।
तिष्ठस्व राजाऽसि चराचरस्य न राजधर्मे गदितं पलायनम् ॥११०॥
सहस्त्राक्षो जम्भवाक्यं निशम्य भीतस्तूर्णं विष्णुमागान्महर्षे ।
उपेत्याह श्रूयतां वाक्यमीश त्वं मे नाथो भूतभव्येश विष्णो ॥१११॥
जम्भस्तर्जयतेऽत्यर्थं मां निरायुधमीक्ष्य हि ।
आयुधं देहि भगवन् त्वामहं शरणं गतः ॥११२॥
तमुवाच हरिः शक्रं त्यक्त्वा दर्पं व्रजाधुना ।
प्रार्थयस्वायुधं वह्निं स ते दास्यत्यसंशयम् ॥११३॥
जनार्दनवचः श्रुत्वा शक्रस्त्वरितविक्रमः ।
शरणं पावकमगादिदं चोवाच नारद ॥११४॥
शक्र उवाच
निघ्नतो मे बलं वज्रं कृशानो शतधा गतम् ।
एष चाहूयते जम्भस्तस्मोद्देह्यायुधं मम ॥११५॥
पुलस्त्य उवाच
तमाह भगवान् वह्निः प्रीतोऽस्मि तव वासव ।
यत्त्वं दर्पं परित्यज्य मामेव शरणं गतः ॥११६॥
इत्युच्यार्य स्वशक्त्यास्तु शक्तिं निष्क्राम्य भावतः ।
प्रादादिन्द्राय भगवान् रोचमानो दिवं गतः ॥११७॥
तामादाय तदा शक्तिं शतघण्टां सुदारुणाम् ।
प्रत्युद्ययौ तदा जम्भं हन्तुकामोऽरिमर्दनः ॥११८॥
तेनातियशसा दैत्यः सहसैवाभिसंद्रुतः ।
क्रोधं चक्रे तदा जम्भो निजघान गजाधिपम् ॥११९॥
जम्भमुष्टिनिपातेन भग्नकुम्भकटो गजः ।
निपपात यथा शैलः शक्रवज्रहतः पुरा ॥१२०॥
पतमानाद द्विपेन्द्रात्तु शक्रश्चाप्लुत्य वेगवान् ।
त्यक्तैव मन्दगिरिं पपात वसुधातले ॥१२१॥
पतमानं हरिं सिद्धाश्चारणाश्च तदाऽब्रुवन् ।
मा मा शक्र पतस्वाद्य भूतले तिष्ठ वासव ॥१२२॥
स तेषां वचनं श्रुत्वा योगी तस्थौ क्षणं तदा ।
प्राह चैतान् कथं योत्स्ये अपत्रः शत्रुभिः सहः ॥१२३॥
तमूचुर्देवगन्धर्वा मा विषादं व्रजेश्वर ।
युध्यस्व त्वं समारुह्य प्रेषयिष्याम यद रथम् ॥१२४॥
इत्येवमुक्त्वा विपुलं रथं स्वस्तिकलक्षणम् ।
वारनध्वजसंयुक्तं हरिभिर्हरिभिर्युतम् ॥१२५॥
शुद्धजाम्बूनदमयं किङ्किणीजालमण्डितम् ।
शक्राय प्रेषयामासुर्विश्वावसुपुरोगमाः ॥१२६॥
तमागतमुदीक्ष्याथ हीनं सारथिना हरिः ।
प्राह योत्स्ये कथं युद्धे संयमिष्ये कथं ह्यान् ॥१२७॥
यदि कश्चिद्धि सारथ्यं करिष्यति ममाधुना ।
ततोऽहं घातये शत्रून् नान्यथेति कथंचन ॥१२८॥
ततोऽब्रुवंस्ते गन्धर्वा नास्माकं सारथिर्विभो ।
विद्यते स्वयमेवाश्वांस्त्वं संयन्तुमिहार्हसि ॥१२९॥
इत्येवमुक्ते भगवांस्त्यक्त्वा स्यन्दनमुत्तमम् ।
क्ष्मातलं निपपातैव परिभ्रष्टस्त्रगम्बरः ॥१३०॥
चलन्मौलिर्मुक्तकचः परिभ्रष्टायुधाङ्गदः ।
पतमानं सहस्त्राक्षं दृष्टा भूः समकम्पत ॥१३१॥
पृथिव्यां कम्पमानायां शमीकर्षेस्तपस्विनी ।
भार्याऽब्रवीत प्रभो बालं बहिः कुरु यथासुखम् ॥१३२॥
स तु शीलावचः श्रुत्वा किमर्थमिति चाब्रवीत् ।
सा चाह श्रूयतां नाथ दैवज्ञपरिभाषितम् ॥१३३॥
यदेयं कम्पते भूमिस्तदा प्रक्षिप्यते बहिः ।
यद्वाह्यतो मुनिश्रेष्ठ तद भवेद द्विगुणं मुने ॥१३४॥
एतद्वाक्यं तदा श्रुत्वा बालमादाय पुत्रकम् ।
निराशङ्को बहिः शीघ्रं प्राक्षिपत् क्ष्मातले द्विजः ॥१३५॥
भूयो गोयुगलार्थाय प्रविष्टो भार्यया द्विजः ।
निवारितो गता वेला अर्द्धहानिर्भविष्यति ॥१३६॥
इत्येवमुक्ते देवर्षेर्बहिर्निर्गम्य वेगवान् ।
ददर्श बालद्वितयं समरुपमवस्थितम् ॥१३७॥
तं दृष्ट्वा देवताः पूज्य भार्यां चाद्भुतदर्शनाम् ।
प्राह तत्त्वं न विन्दामि यत् पृच्छामि वदस्व तत् ॥१३८॥
बालस्यास्य द्वितीयस्य के भविष्यद्गुणा वद ।
भाग्यानि चास्य यच्चोक्तं कर्म तत् कथयाधुना ॥१३९॥
साऽब्रवीदन्नाद ते वक्ष्ये वदिष्यामि पुनः प्रभो ।
सोऽब्रवीद वद मेऽद्यैव नोचेन्नाश्नामि भोजनम् ॥१४०॥
सा प्राह श्रूयतां ब्रह्मन् वदिष्ये वचनं हितम् ।
कातरेणाद्य यत्पृष्टं भाव्यः कारुरयं किल ॥१४१॥
इत्युक्तवति वाक्ये तु बाल एव त्वचेतनः ।
जगाम साह्यं शक्रस्य कर्तुं सौत्यविशारदः ॥१४२॥
तं व्रजन्तं हि गन्धर्वा विश्वावसुपुरोगमाः ।
ज्ञात्वेन्द्रस्यैव साहाय्ये तेजसा समवर्धयन् ॥१४३॥
गन्धर्वतेजसा युक्तः शिशुः शक्रं समेत्य हि ।
प्रोवाचैह्येहि देवेश प्रियो यन्ता भवामि ते ॥१४४॥
तच्छुत्वास्य हरिः प्राह कस्य पुत्रोऽसि बालक ।
संयन्ताऽसि कथं चाश्चान् संशयः प्रतिभाति मे ॥१४५॥
सोऽब्रवीदृषितेजोत्थं क्ष्माभवं विद्धि वासव ।
गन्धर्वतेजसा युक्तं वाजियानविशारदम् ॥१४६॥
तच्छुत्वा भगवाञ्छकः खं भेजे योगिनां वरः ।
स चापि विप्रतनयो मातलिर्नामविश्रुतः ॥१४७॥
ततोऽधिरुढस्तु रथं शक्रस्त्रिदशपुङ्गवः ।
रश्मीन् शमीकतनयो मातलिः प्रगृहीतवान् ॥१४८॥
ततो मन्दरमागम्य विवेश रिपुवाहिनीम् ।
प्रविशन् ददृशे श्रीमान् पतितं कार्मुकं महत् ॥१४९॥
सशरं पञ्चवर्णाभं सितरक्तासितारुणम् ।
पाण्डुच्छायं सुरश्रेष्ठस्तं जग्राह समार्गणम् ॥१५०॥
ततस्तु मनसा देवान् रजः सत्त्वतमोमयान् ।
नमस्कृत्य शरं चापे साधिज्ये विनियोजयत् ॥१५१॥
ततो निश्चेरुरत्युग्राः शरा बर्हिणवाससः ।
ब्रह्मेशविष्णुनामाङ्काः सूदयन्तोऽसुरान् रणे ॥१५२॥
आकाशं विदिशः पृथ्वीं दिशश्च स शरोत्करैः ।
सहस्त्राक्षोऽतिपटुभिश्छादयामास नारद ॥१५३॥
गजो विद्धो हयो भिन्नः पृथिव्यां पतितो रथः ।
महामात्रो धरां प्राप्तः सद्यः सीदच्छरातुरः ॥१५४॥
पदातिः पतितो भूम्यां शक्रमार्गणताडितः ।
हतप्रधानभूयिष्ठं बलं तदभवद रिपोः ॥१५५॥
तं शक्रबाणाभिहतं दुरासदं सैन्यं समालक्ष्य तदा कुजम्भः ।
जम्भासुरश्चापि सुरेशमव्ययं प्रजग्मतुर्गृह्य गदे सुघोरे ॥१५६॥
तावापतन्तौ भगवान् निरीक्ष्य सुदर्शनेनारिविनाशनेन ।
विष्णुः कुजम्भं निजघान वेगात् स स्यन्दनाद गामगमद गतासुः ॥१५७॥
तस्मिन् हते भ्रातरि माधवेन जम्भस्ततः क्रोधवशं जगाम ।
क्रोधान्वितः शक्रमुपाद्रवद रणे सिंहं यथैणोऽतिविपन्नबुद्धिः ॥१५८॥
तमापतन्तं प्रसमीक्ष्य शक्रस्त्यक्त्वैव चापं सशरं महात्मा ।
जग्राह शक्तिं यमदण्डकल्पां तामग्निदत्तां रिपवे ससर्ज ॥१५९॥
शक्तिं सघण्टां कृतनिः स्वनां वै दृष्ट्वा पतन्तीं गदया जघान ।
गदां च कृत्वा सहसैव भस्मसाद बिभेद जम्भं हदये च तूर्णम् ॥१६०॥
शक्त्या स भिन्नो हदये सुरारिः पपात भूम्यां विगतासुरेव ।
तं वीक्ष्य भूमौ पतितं विसंज्ञं दैत्यास्तु भीता विमुखा बभूवुः ॥१६१॥
जम्भे हते दैत्यबले च भग्ने गणास्तु हष्टा हरिमर्चयन्तः ।
वीर्यं प्रशंसन्ति शतक्रतोश्च स गोत्रभिच्छर्वमुपेत्य तस्थौ ॥१६२॥