नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥
त्रैलोक्यराज्यमाक्षिप्य बलेरिन्द्राय यो ददौ ।
श्रीधराय नमस्तस्मै छद्मवामनरुपिणे ॥१॥
पुलस्त्यमृषिमासीनमाश्रमे वाग्विदां वरम् ।
नारदः परिपप्रच्छ पुराणं वामनाश्रयम् ॥२॥
कथं भगवता ब्रह्मन् विष्णुना प्रभविष्णुना ।
वामनत्वं धृतं पूर्वं तन्ममाचक्ष्व पृच्छतः ॥३॥
कथं च वैष्णवो भूत्वा प्रह्लादो दैत्यसत्तमः ।
त्रिदशैर्युयुधे सार्धमत्र मे संशयो महान् ॥४॥
श्रूयते च द्विजश्रेष्ठ दक्षस्य दुहिता सती ।
शंकरस्य प्रिया भार्या बभूव वरवर्णिनी ॥५॥
किमर्थं सा परित्यज्य स्वशरीरं वरानना ।
जाता हिमवतो गेहे गिरीन्द्रस्य महात्मनः ॥६॥
पुनश्च देवदेवस्य पत्नीत्वमगमच्छुभा ।
एतन्मे संशयं छिन्धि सर्ववित् त्वं मतोऽसि मे ॥७॥
तीर्थानां चैव माहात्म्यं दानानां चैव सत्तम ।
व्रतानां विविधानां च विधिमाचक्ष्व मे द्विज ॥८॥
एवमुक्तो नारदेन पुलस्त्यो मुनिसत्तमः ।
प्रोवाच वदतां श्रेष्ठो नारदं तपसो निधिम् ॥९॥
पुलस्त्य उवाच
पुराणं वामनं वक्ष्ये क्रमान्निखिलमादितः ।
अवधानं स्थिरं कृत्वा श्रृणुष्व मुनिसत्तम ॥१०॥
पुरा हैमवती देवी मन्दरस्थं महेश्वरम् ।
उवाच वचनं दृष्ट्वा ग्रीष्मकालमुपस्थितम् ॥११॥
ग्रीष्मः प्रवृत्तो देवेश न च ते विद्यते गृहम् ।
यत्र वातातपौ ग्रीष्मे स्थितयोर्नौ गमिष्यतः ॥१२॥
एवमुक्तो भवान्या तु शंकरो वाक्यमब्रवीत् ।
निराश्रयोऽहं सुदति सदारण्यचरः शुभे ॥१३॥
इत्युक्ता शंकरेणाथ वृक्षच्छायासु नारद ।
निदाघकालमनयत् समं शर्वेण सा सती ॥१४॥
निदाघान्ते समुद्भूतो निर्जनाचरितोऽद्भुतः ।
घनान्धकारिताशो वै प्रावृट्कालोऽतिरागवान् ॥१५॥
तं दृष्ट्वा दक्षतनुजा प्रावृट्कालमुपस्थितम् ।
प्रोवाच वाक्यं देवेशं सती सम्प्रणयं तदा ॥१६॥
विवहन्ति वाता हदयावदारणा गर्जन्त्यमी तोयधरा महेश्वर ।
स्फुरन्ति नीलाभ्रगणेषु विद्युतो वाशान्ति केकारवमेव बर्हिणः ॥१७॥
पतन्ति धारा गगनात् परिच्युता बका बलाकाश्च सरन्ति तोयदान् ।
कदम्बसज्जार्जुनकेतकीद्रुमाः पुष्पाणि मुञ्चन्ति सुमारुताहताः ॥१८॥
श्रुत्वैव मेघस्य दृढं तु गर्जितं त्यजन्ति हंसाश्च सरांसि तत्क्षणात् ।
यथाश्रयान् योगिगणाः समन्तात् प्रवृद्धमूलानपि संत्यजन्ति ॥१९॥
इमानि यूथानि वने मृगाणां चरन्ति धावन्ति रमन्ति शंभो ।
तथाचिराभाः सुतरां स्फुरन्ति पश्येह नीलेषु घनेषु देव ।
नूनं समृद्धिं सलिलस्य दृष्ट्वा चरन्ति शूरास्तरुणद्रुमेषु ॥२०॥
उदवृत्तवेगाः सहसैव निम्नगा जाताः शशाङ्काङ्कितचारुमौले ।
किमत्र चित्रं यदनुज्ज्वलं जनं निषेव्य योषिद भवति त्वशीला ॥२१॥
नीलैश्च मेघैश्च समावृतं नभः पुष्पैश्च सज्जा मुकुलैश्च नीपाः ।
फलैश्च बिल्वाः पयसा तथापगाः पत्रैः सपद्मैश्च महासरांसि ॥२२॥
इतीदृशे शंकर दुःसहेऽद्भुते काले सुरौद्रे ननु ते ब्रवीमि ।
गृहं कुरुष्वान्न महाचलोत्तमे सुनिर्वृता येन भवामि शंभो ॥२३॥
इत्थं त्रिनेत्रः श्रुतिरामणीयकं श्रुत्वा वचो वाक्यमिदं बभाषे ।
न मेऽस्ति वित्तं गृहसंचयार्थे मृगारिचर्मावरणं मम प्रिये ॥२४॥
ममोपवीतं भुजगेश्वरः शुभे कर्णेऽपि पद्मश्च तथैव पिङ्गलः ।
केयूरमेकं मम कम्बलस्त्वहिर्द्वितीयमन्यो भुजगो धनंजयः ॥२५॥
नागस्तथैवाश्वतरो हि कङ्कणं सव्येतरे तक्षक उत्तरे तथा ।
नीलोऽपि नीलाञ्जनतुल्यवर्णः श्रोणीतटे राजति सुप्रतिष्ठः ॥२६॥
पुलस्त्य उवाच
इति वचनमथोग्रं शंकरात्सा मृडानी ऋतमपि तदसत्यं श्रीमदाकर्ण्य भीता ।
अवनितलमवेक्ष्य स्वामिनो वासकृच्छ्रात् परिवदति सरोषं लज्जयोच्छ्वस्य चोष्णम् ॥२७॥
देव्युवाच
कथं हि देवदेवेश प्रावृट्कालो गमिष्यति ।
वृक्षमूले स्थिताया मे सुदुःखेन वदाम्यतः ॥२८॥
शंकर उवाच
घनावस्थितदेहायाः प्रावृट्कालः प्रयास्यति ।
यथाम्बुधारा न तव निपतिष्यन्ति विग्रहे ॥२९॥
पुलस्त्य उवाच
ततो हरस्तदघनखण्डमुन्नतमारुह्य तस्थौ सह दक्षकन्यया ।
ततोऽभवन्नाम महेश्वरस्य जीमूतकेतुस्त्विति विश्रुतं दिवि ॥३०॥