लोमहर्षण उवाच
नारायणस्तु भगवाञ्छुत्वैवं परमं स्तवम् ।
ब्रह्मज्ञेन द्विजेन्द्रेण कश्यपेन समीरितम् ॥१॥
उवाच वचनं सम्यक तुष्टः पुष्टपदाक्षरम् ।
श्रीमान् प्रीतमना देवो यद्वदेत प्रभुरीश्वरः ॥२॥
वरं वृणुध्वं भद्रं वो वरदोऽस्मि सुरोत्तमाः ।
कश्यप उवाच
प्रीतोऽसि नः सुरश्रेष्ठ सर्वेषामेव निश्चयः ॥३॥
वासवस्यानुजो भ्राता ज्ञातीनां नन्दिवर्धनः ।
अदित्या अपि च श्रीमान् भगवानस्तु वै सुतः ॥४॥
अदितिर्देवमाता च एतमेवार्थमुत्तमम् ।
पुत्रार्थं वरदं प्राह भगवन्तं वरार्थिनी ॥५॥
देवा ऊचुः
निः श्रेयसार्थं सर्वेषां दैवतानां महेश्वर ।
त्राता भर्त्ता च दाता च शरणं भव नः सदा ॥६॥
ततस्तानब्रवीद्विष्णुर्देवान् कश्यपमेव च ।
सर्वेषामेव युष्माकं ये भविष्यन्ति शत्रवः ।
मुहूर्त्तमपि ते सर्वे न स्थास्यन्ति ममाग्रतः ॥७॥
हत्वाऽसुरगणान् सर्वान् यज्ञभागाग्रभोजिनः ।
हव्यादांश्च सुरान् सर्वान् कव्यादांश्च पितृनपि ॥८॥
करिष्ये विबुधश्रेष्ठाः पारमेष्ठ्येन कर्मणा ।
यथायातेन मार्गेण निवर्तध्वं सुरोत्तमाः ॥९॥
लोमहर्षण उवाच
इएवमुक्ते तु देवेन विष्णुना प्रभविष्णुना ।
ततः प्रहष्टमनसः पूजयन्ति स्म तं प्रभुम् ॥१०॥
विश्वेदेवा महात्मानः कश्यपोऽदितिरेव च ।
नमस्कृत्य सुरेशाय तस्मै देवाय रंहसा ॥११॥
प्रयाताः प्राग्दिशं सर्वे विपुलं कश्यपाश्रमम् ।
ते कश्यपाश्रमं गत्वा कुरुक्षेत्रवनं महत् ॥१२॥
प्रसाद्य ह्यदितिं तत्र तपसे तां न्यजोजयन् ।
सा चचार तपो घोरं वर्षाणामयुतं तदा ॥१३॥
तस्या नाम्ना वनं दिव्यं सर्वकामप्रदं शुभम् ।
आराधनाय कृष्णस्य वाग्जिता वायुभोजना ॥१४॥
दैत्यैर्निराकृतान् दृष्ट्वा तनयानृषिसत्तमाः ।
वृथापुत्राऽहमिति सा निर्वेदात् प्रणयाद्धरिम् ।
तुष्टाव वाग्भिरग्र्याभिः परमार्थावबोधिनी ॥१५॥
शरण्यं शरणं विष्णुं प्रणता भक्तवत्सलम् ।
देवदैत्यमयं चादिमध्यमान्तस्वरुपिणम् ॥१६॥
अदितिरुवाच
नमः कृत्यार्तिनाशाय नमः पुष्करमालिने ।
नमः परमकल्याण कल्याणायादिवेधसे ॥१७॥
नमः पङ्कजनेत्राय नमः पङ्कजनाभये ।
नमः पङ्कजसंभूतिसंभवायात्मयोनये ॥१८॥
श्रियः कान्ताय दान्ताय दान्तदृश्याय चक्रिणे ।
नमः पद्मासिहस्ताय नमः कनकरेतसे ॥१९॥
तथात्मज्ञानज्ञाय योगिचिन्ताय योगिने ।
निर्गुणाय विशेषाय हरये ब्रह्मरुपिणे ॥२०॥
जगच्च तिष्ठते यत्र जगतो यो न दृश्यते ।
नमः स्थूलातिसूक्ष्माय तस्मै देवाय शार्ङ्गिणे ॥२१॥
यं न पश्यन्ति पश्यन्तो जगदप्यखिलं नराः ।
अपश्यद्भिर्जगद्यश्च दृश्यते हदि संस्थितः ॥२२॥
बहिर्ज्योतिलरलक्ष्यो यो लक्ष्यते ज्योतिषः परः ।
यस्मिन्नेव यतश्चैव यस्यैतदखिलं जगत् ॥२३॥
तस्मै समस्तजगताममराय नमो नमः ।
आद्यः प्रजापतिः सोऽपि पितृणां परमं पतिः ।
पतिः सुराणां यस्तस्मै नमः कृष्णाय वेधसे ॥२४॥
यः प्रवृत्तैर्निवृत्तैश्च कर्मभिस्तु विरज्यते ।
स्वर्गापवर्गफलदो नमस्तस्मै गदाभृते ॥२५॥
यस्तु संचिन्त्यमानोऽपि सर्वं पापं व्यपोहति ।
नमस्तस्मै विशुद्धाय परस्मै हरिमेधसे ॥२६॥
ये पश्यन्त्यखिलाधरमीशानमजमव्ययम् ।
न पुनर्जन्ममरणं प्राप्नुवन्ति नमामि तम् ॥२७॥
यो यज्ञो यज्ञपरमैरिज्यते यज्ञसंस्थितः ।
तं यज्ञपुरुषं विष्णुं नमामि प्रभुमीश्वरम् ॥२८॥
गीयते सर्ववेदेषु वेदविद्भिर्विदां गतिः ।
यस्तस्मै वेदवेद्याय नित्याय विष्णवे नमः ॥२९॥
यतो विश्वं समुद्भूतं यस्मिन् प्रलयमेष्यति ।
विश्वोद्भवप्रतिष्ठाय नमस्तस्मै महात्मने ॥३०॥
आब्रह्नस्तम्बओपर्यन्तं व्याप्तं येन चराचरम् ।
मायाजालसमुन्नद्धं तमुपेन्द्रं नमाम्यहम् ॥३१॥
योऽन्न तोयस्वरुपस्थो बिभर्त्यखिलमीश्वरः ।
विश्वं विश्वपतिं विष्णुं तं नमामि प्रजापतिम् ॥३२॥
मूर्त्तं तमोऽसुरमयं तद्विधो विनिहन्ति यः ।
रात्रिजं सूर्यरुपी च तमुपेन्द्रं नमाम्यहम् ॥३३॥
यस्याक्षिणी चन्द्रसूर्यो सर्वलोकशुभाशुभम् ।
पश्यतः कर्म सततं तमुपेन्द्रं नमाम्यहम् ॥३४॥
यस्मिन् सर्वेश्वरे सर्वं सत्यमेतन्मयोदितम् ।
नानृतं तमजं विष्णुं नमामि प्रभवाव्ययम् ॥३५॥
यद्येतत्सत्यमुक्तं मे भूयश्चातो जनार्दन ।
सत्येन तेन सकलाः पूर्यन्तां मे मनोरथाः ॥३६॥