पुलस्त्य उवाच
गतेऽथ तीर्थयात्रायां प्रह्लादे दानवेश्वरे ।
कुरुक्षेत्रं समभ्यागाद् यष्टुं वैरोचनो बलिः ॥१॥
तस्मिन् महाधर्मयुते तीर्थे ब्राह्मणपुङ्गवः ।
शुक्रो द्विजातिप्रवरानामन्त्रयत् भार्गवान् ॥२॥
भृगूनामन्त्र्यमाणान् वै श्रुत्वात्रेयाः सगौतमाः ।
कौशिकाङ्गिरसश्चैव तत्यजुः कुरुजाङ्गलान् ॥३॥
उत्तराशां प्रजग्मुस्ते नदीमनु शतद्रुकाम् ।
शातद्रवे जले स्त्रात्वा विपाशां प्रययुस्ततः ॥४॥
विज्ञाय तत्राप्यरतिं स्त्रात्वाऽर्च्य पितृदेवताः ।
प्रजग्मुः किरणां पुण्यां दिनेशकिरणच्युताम् ॥५॥
तस्यां स्त्रात्वाऽर्च्य देवर्षे सर्व एव महर्षयः ।
ऐरावतीं सुपुण्योदां स्त्रात्वा जग्मुरथेश्वरीम् ॥६॥
देविकाया जले स्त्रात्वा पयोष्ण्यां चैव तापसाः ।
अवतीर्णा मुने स्त्रातुमात्रेयाद्याः शुभां नदीम् ॥७॥
ततो निमग्ना ददशुः प्रतिबिम्बमथात्मनः ।
अन्तर्जले द्विजश्रेष्ठ महदाश्चर्यकारकम् ॥८॥
उन्मज्जने च ददृशुः पुनर्विस्मितमानसाः ।
ततः स्त्रात्वा समुत्तीर्णा ऋषयः सर्व एव हि ॥९॥
जग्मुस्ततोऽपि ते ब्रह्मन् कथयन्तः परस्परम् ।
चिन्तयन्तश्च सततं किमेतादिति विस्मिताः ॥१०॥
ततो दूरादपश्यन्त वनषण्डं सुविस्तृतम् ।
वनं हरगलश्यामं खगध्वनिनिनादितम् ॥११॥
अतितुङ्गतया व्योम आवृण्वानं नगोत्तमम् ।
विस्तृताभिर्जटाभिस्तु अन्तर्भूमिं च नारद ॥१२॥
काननं पुष्पितैर्वृक्षैरतिभाति समन्ततः ।
दशार्द्धवर्णैः सुखदैर्नभस्तारागणैरिव ॥१३॥
तं दृष्ट्वा कमलैर्व्याप्तं पुण्डरीकैश्च शोभितम् ।
तद्वत् कोकनदैर्व्याप्तं वनं पद्मवनं यथा ॥१४॥
प्रजग्मुस्तुष्टिमतुलां ते ह्लादं परमं ययुः ।
विविशुः प्रीतमनसो हंसा इव महासरः ॥१५॥
तन्मध्ये ददृशुः पुण्यमाश्रमं लोकपूजितम् ।
चतुर्णां लोकपालानां वर्गाणां मुनिसत्तम ॥१६॥
धर्माश्रमं प्राड्मुखं तु पलाशविटपावृतम् ।
प्रतीच्यभिमुखं ब्रह्मन् अर्थस्येक्षुवनावृतम् ॥१७॥
दक्षिणाभिमुखं काम्यं रम्भाशोकवनावृतम् ।
उदड्मुखं च मोक्षस्य शुद्धस्फटिकवर्चसम् ॥१८॥
कृतान्ते त्वाश्रमी मोक्षः कामस्त्रेतान्तरे श्रमी ।
आश्रम्यर्थो द्वापरान्ते तिष्यादौ धर्म आश्रमी ॥१९॥
तान्याश्रमाणि मुनयो दृष्ट्वात्रेयादयोऽव्ययाः ।
तत्रैव च रतिं चक्रुरखण्डे सलिलाप्लुते ॥२०॥
धर्माद्यैर्भगवान् विष्णुरखण्ड इति विश्रुतः ।
चतुर्मूर्तिर्जगन्नाथः पूर्वमेव प्रतिष्ठितः ॥२१॥
तमर्चयन्ति ऋषयो योगात्मानो बहुश्रुताः ।
शुश्रूषयाऽथ तपसा ब्रह्मचर्येण नारद ॥२२॥
एवं ते न्यवसंस्तत्र समेता मुनयो वने ।
असुरेभ्यस्तदा भीताः स्वाश्रित्याखण्डपर्वतम् ॥२३॥
तथाऽन्ये ब्राह्मणा ब्रह्मन् अश्मकुट्टा मरीचिपाः ।
स्त्रात्वा जले हि कालिन्द्याः प्रजग्मुर्दक्षिणामुखाः ॥२४॥
अवन्तिविषयं प्राप्य विष्णुमासाद्य संस्थिताः ।
विष्णोरपि प्रसादेन दुष्प्रवेशं महासुरैः ॥२५॥
बालखिल्यादयो जग्मुरवशा दानवाद् भयात् ।
रुद्रकोटिं समाश्रित्य स्थितास्ते ब्रह्मचारिणः ॥२६॥
एवं गतेशु विप्रेषु गौतमाङ्गिरसादिषु ।
शुक्रस्तु भार्गवान् सर्वान् निन्ये यज्ञविधौ मुने ॥२७॥
अधिष्ठिते भार्गवैस्तु महायज्ञेऽमितद्युते ।
यज्ञदीक्षां बलेः शुक्रश्चकार विधिना स्वयम् ॥२८॥
श्वेताम्बरधरो दैत्यः श्वेतमाल्यानुलेपनः ।
मृगाजिनावृतः पृष्ठे बर्हिपत्रविचित्रितः ॥२९॥
समास्ते वितते यज्ञे सदस्यैरभिसंवृतः ।
हयग्रीवप्रलम्बाद्यैर्मयबाणपुरोगमैः ॥३०॥
पत्नी विन्ध्यावली चास्य दीक्षिता यज्ञकर्मणि ।
ललनानां सहस्त्रस्य प्रधाना ऋषिकन्यका ॥३१॥
शुक्रेणाश्वः श्वेतवर्णो मधुमासे सुलक्षणः ।
महीं विहर्तुमुत्सृष्टस्तारकाक्षोऽन्वगाच्च तम् ॥३२॥
एवमश्वे समुत्सृष्टे वितथे यज्ञकर्मणि ।
गते च मासत्रितये हूयमाने च पावके ॥३३॥
पूज्यमानेषु दैत्येषु मिथुनस्थे दिवाकरे ।
सुषुवे देवजननी माधवं वामनाकृतिम् ॥३४॥
तं जातमात्रं भगवन्तमीशं नारायणं लोकपतिं पुराणम् ।
ब्रह्मा समभ्येत्य समं महर्षिभिः स्तोत्रं जगादाथ विभोर्महर्षे ॥३५॥
नमोऽस्तु ते माधव सत्त्वमूर्ते नमोऽस्तु ते शाश्वत विश्वरुप ।
नमोऽस्तु ते शत्रुवनेन्धनाग्ने नमोऽस्तु वै पापमहादवाग्ने ॥३६॥
नमस्ते पुण्डरीकाक्ष नमस्ते विश्वभावन ।
नमस्ते जगदाधार नमस्ते पुरुषोत्तम ॥३७॥
नारायण जगन्मूर्ते जगन्नाथ गदाधर ।
पीतवासः श्रियः कान्त जनार्दन नमोऽस्तु ते ॥३८॥
भवांस्त्राता च गोप्ता च विश्वात्मा सर्वगोऽव्ययः ।
सर्वधारी धराधारी रुपधारी नमोऽस्तु ते ॥३९॥
वर्धस्व वर्धिताशेषत्रैलोक्य सुरपूजित ।
कुरुष्व दैवतपते मघोनोऽश्रुप्रमार्जनम् ॥४०॥
त्वं धाता च विधाता च संहर्ता त्वं महेश्वरः ।
महालय महायोगिन् योगशायिन् नमोऽस्तु ते ॥४१॥
इत्थं स्तुतो जगन्नाथः सर्वात्मा सर्वगो हरिः ।
प्रोवाच भगवान् मह्यं कुरुपनयनं विभो ॥४२॥
ततश्चकार देवस्य जातकर्मादिकाः क्रियाः ।
भरद्वाजो महातेजा बार्हस्पत्यस्तपोधनः ॥४३॥
व्रतबन्धं तथेशस्य कृतवान् सर्वशास्त्रवित् ।
ततो ददुः प्रीतियुताः सर्व एव वरान् क्रमात् ॥४४॥
यज्ञोपवीतं पुलहस्त्वहं च सितवाससी ।
मृगाजिनं कुम्भयोनिर्भरद्वाजस्तु मेखलाम् ॥४५॥
पालाशमददद दण्डं मरीचिर्ब्रह्मणः सुतः ।
अक्षसूत्रं वारुणिस्तु कौश्यं वेदमथाड्गिराः ॥४६॥
छत्रं प्रादाद् रघू राजा उपानद्युगलं नृगः ।
कमण्डलुं बृहत्तेजाः प्रादाद्विष्णोर्बृहस्पतिः ॥४७॥
एवं कृतोपनयनो भगवान् भूतभावनः ।
संस्तूयमानो ऋषिभिः साङ्गं वेदेमधीयत् ॥४८॥
भरद्वाजादाड्गिरसात् सामवेदं महाध्वनिम् ।
महदाख्यानसंयुक्तं गन्धर्वसहितं मुने ॥४९॥
मासेनैकेन भगवान् ज्ञानश्रुतिमहार्णवः ।
लोकाचारप्रवृत्त्यर्थमभूच्छुतिविशारदः ॥५०॥
सर्वशास्त्रेषु नैपुण्यं गत्वा देवोऽक्षयोऽव्ययः ।
प्रोवाच ब्राह्मणश्रेष्ठं भरद्वाजमिदं वचः ॥५१॥
श्रीवामन उवाच
ब्रह्मन् व्रजामि देह्याज्ञां कुरुक्षेत्रं महोदयम् ।
तत्र दैत्यपतेः पुण्यो हयमेधः प्रवर्तते ॥५२॥
समाविष्टानि पश्यस्व तेजांसि पृथिवीतले ।
ये संनिधानाः सततं मदंशाः पुण्यवर्धनाः ।
तेनाहं प्रतिजानामि कुरुक्षेत्रं गतो बलिः ॥५३॥
भरद्वाज उवाच
स्वेच्छया तिष्ठ वा गच्छ नाहमाज्ञापयामि ते ।
गमिष्यामो वयं विष्णो बलेरध्वरं मा खिद ॥५४॥
यद् भवन्तमहं देव परिपृच्छामि तद् वद ।
केषु केषु विभो नित्यं स्थानेषु पुरुषोत्तम ।
सान्निध्यं भवतो ब्रूहि ज्ञातुमिच्छामि तत्त्वतः ॥५५॥
वामन उवाच
श्रूयतां कथयिष्यामि येषु येषु गुरो अहम् ।
निवसामि सुपुण्येषु स्थानेषु बहुरुपवान् ॥५६॥
ममावतारैर्वसुधा नभस्तलं पातालमम्भोनिधयो दिवं च ।
दिशः समस्ता गिरयोऽम्बुदाश्च व्याप्ता भरद्वाज ममानुरुपैः ॥५७॥
ये दिव्या ये च भौमा जलगगनचराः स्थावरा जड्गमाश्च सेन्द्राः सार्काः सचन्द्रा यमवसुवरुणा ह्यग्नयः सर्वपालाः ।
ब्रह्माद्याः स्थावरान्ता द्विजखगसहिता मूर्तिमन्तो ह्यमूर्तास्ते सर्वे मत्प्रसूता बहुविविधगुणाः पूरणार्थं पृथिव्याः ॥५८॥
एते हि मुख्याः सुरसिद्धदानवैः पूज्यास्तथा संनिहिता महीतले ।
यैर्दृष्टमात्रैः सहसैव नाशं प्रयाति पापं द्विजवर्य कीर्तनैः ॥५९॥