ऋषय ऊचुः
वसिष्ठस्यापवाहोऽसौ कथं वै सम्बभूव ह ।
किमर्थं सा सरिच्छ्रेष्ठा तमृषिं प्रत्यवाहयत् ॥१॥
लोमहर्षण उवाच
विश्वामित्रस्य राजर्षेर्वसिष्ठस्य महात्मनः ।
भृशं वैरं बभूवेह तपः स्पर्द्धाकृते महत् ॥२॥
आश्रमो वै वसिष्ठस्य स्थाणुतीर्थे बभूव ह ।
तस्य पश्चिमदिग्भागे विश्वामित्रस्य धीमतः ॥३॥
यत्रेष्ट्वा भगवान् स्थाणुः पूजयित्वा सरस्वतीम् ।
स्थापयामास देवेशो लिङ्गाकारां सरस्वतीम् ॥४॥
वसिष्ठस्तत्र तपसा घोररुपेण संस्थितः ।
तस्येह तपसा हीनो विश्वामित्रो बभूव ह ॥५॥
सरस्वतीं समाहूय इदं वचनमब्रवीत् ।
वसिष्ठं मुनिशार्दूलं स्वेन वेगेन आनय ॥६॥
इराहं तं द्विजश्रेष्ठं हनिष्यामि न संशयः ।
एतच्छुत्वा तु वचनं व्यथिता सा महानदी ॥७॥
तथा तां व्यथितां दृष्ट्वा वेपमानां महानदीम् ।
विश्वामित्रोऽब्रवीत् क्रुद्धो वसिष्ठं शीघ्रमानय ॥८॥
ततो गत्वा सरिच्छ्रेष्ठा वसिष्ठं मुनिसत्तमम् ।
कथयामास रुदतो विश्वामित्रस्य तद् वचः ॥९॥
तपः क्रियाविशीर्णां च भृशं शोकसमन्विताम् ।
उवाच स सरिच्छ्रेष्ठां विश्वामित्राय मां वह ॥१०॥
तस्य तद वचनं श्रुत्वा कृपाशीलस्य सा सरित् ।
चालयामास तं स्थानात् प्रवाहेणाम्भसस्तदा ॥११॥
स च कूलापहारेण मित्रावरुणयोः सुतः ।
उह्यामानश्च तुष्टाव तदा देवीं सरस्वतीम् ॥१२॥
पितामहस्य सरसः प्रवृत्ताऽसि सरस्वति ।
व्याप्तं त्वया जगत् सर्वं तवैवाम्भोभिरुत्तमैः ॥१३॥
त्वन्मेवाकाशगा देवी मेघेषु सृजसे पयः ।
सर्वास्त्वापस्त्वमेवेति त्वत्तो वयमधीमहे ॥१४॥
पुष्टिर्धृतिस्तथा कीर्तिः सिद्धिः कान्तिः क्षमा तथा ।
स्वधा स्वाहा तथा वाणी तवायत्तमिदं जगत् ॥१५॥
त्वमेव सर्वभूतेषु वाणीरुपेण संस्थिता ।
एवं सरस्वती तेन स्तुता भगवती सदा ॥१६॥
सुखेनोवाह तं विप्रं विश्वामित्राश्रमं प्रति ।
न्यवेदयत्तदा खिन्ना विश्वामित्राय तं मुनिम् ॥१७॥
तमानीतं सरस्वत्या दृष्ट्वा कोपसमन्वितः ।
अथान्विषत् प्रहरणं वसिष्ठान्तकरं तदा ॥१८॥
तं तु क्रुद्धमभिप्रेक्ष्य ब्रह्महत्याभयान्नदी ।
अपोवाह वसिष्ठं तं मध्ये चैवाम्भसस्तदा ।
उभयोः कुर्वती वाक्यं वञ्चयित्वा च गाधिजम् ॥१९॥
ततोऽपवाहितं दृष्ट्वा वसिष्ठमृषिसत्तमम् ।
अब्रवीत् क्रोधरक्ताक्षो विश्वामित्रो महातपाः ॥२०॥
यस्मान्मां सरितां श्रेष्ठे वञ्चयित्वा विनिर्गता ।
शोणितं वह कल्याणि रक्षोग्रामणिसंयुता ॥२१॥
ततः सरस्वती शप्ता विश्वामित्रेण धीमता ।
अवहच्छोणितोन्मिश्रं तोयं संवत्सरं तदा ॥२२॥
अथर्षयश्च देवाश्च गन्धर्वाप्सरस्तदा ।
सरस्वतीं तदा दृष्ट्वा बभूवुर्भृशदुः खिताः ॥२३॥
तस्मिंस्तीर्थवरे पुण्ये शोणितं समुपावहत् ।
ततो भूतपिशाचाश्च राक्षसाश्च समागताः ॥२४॥
ततस्ते शोणितं सर्वे पिबन्तः सुखमासते ।
तृप्ताश्च सुभृशं तेन सुखिता विगतज्वराः ।
नृत्यन्तश्च हसन्तश्च यथा स्वर्गजितस्तथा ॥२५॥
कस्यचित्त्वथ कालस्य ऋषयः सतपोधनाः ।
तीर्थयात्रां समाजग्मुः सरस्वत्यां तपोधनाः ॥२६॥
तां दृष्ट्वा राक्षसैघोरैः पीयमानां महानदीम् ।
परित्राणे सरस्वत्याः परं यत्नं प्रचक्रिरे ॥२७॥
ते तु सर्वे महाभागाः समागम्य महाव्रताः ।
आहूय सरितां श्रेष्ठामिदं वचनमब्रुवन् ॥२८॥
किं कारणं सरिच्छ्रेष्ठे शोणितेन हदो ह्यहम् ।
एवमाकुलतां यातः श्रुत्वा वेत्स्यामहे वयम् ॥२९॥
ततः सा सर्वमाचष्ट विश्वामित्रविचेष्टितम् ।
ततस्ते मुनयः प्रीताः सरस्वत्यां समानयन् ।
अरुणां पुण्यतोयौघां सर्वदुष्कृतनाशनीम् ॥३०॥
दृष्ट्वा तोयं सरस्वत्या राक्षसा दुःखिता भृशम् ।
ऊचुस्तान् वै मुनीन् सर्वान् दैन्ययुक्ताः पुनः पुनः ॥३१॥
वयं हि क्षुधिताः सर्वे धर्महीनाश्च शाश्वताः ।
न च नः कामकारोऽयं यद् वयं पापकारिणः ॥३२॥
युष्माकं चाप्रसादेन दुष्कृतेन च कर्मणा ।
पक्षोऽयं वर्धतेऽस्माकं यतः स्मो ब्रह्मराक्षसाः ॥३३॥
एवं वैश्याश्च शूद्राश्च क्षत्रियाश्च विकर्मभिः ।
ये ब्राह्मणान् प्रद्विषन्ति ते भवन्तीह राक्षसाः ॥३४॥
योषितां चैव पापानां योनिदोषेण वर्द्धते ।
इयं संततिरस्माकं गतिरेषा सनातनी ॥३५॥
शक्ता भवन्तः सर्वेषां लोकानामपि तारणे ।
तेषां ते मुनयः श्रुत्वा कृपाशीलाः पुनश्च ते ॥३६॥
ऊचुः परस्परं सर्वे तप्यमानाश्च ते द्विजाः ।
क्षुतकीटावपन्नं च यच्चोच्छिष्टाशितं भवेत् ॥३७॥
केशावपन्नमाधूतं मारुतश्वासदूषितम् ।
एभिः संसृष्टमन्नं च भागं वै राक्षसां भवेत् ॥३८॥
तस्माञ्ज्ञात्वा सदा विद्वान् अन्नान्येतानि वर्जयेत् ।
राक्षसानामसौ भुङ्के यो भुङ्क्तेन्नमीदृशम् ॥३९॥
शोधयित्वा तु तत्तीर्थमृषयस्ते तपोधनाः ।
मोक्षार्थं रक्षसां तेषां संगमं तत्र कल्पयन् ॥४०॥
अरुणायाः सरस्वत्याः संगमे लोकविश्रुते ।
त्रिरात्रोपोषितः स्त्रातो मुच्यते सर्वकिल्बिषैः ॥४१॥
प्राप्ते कलियुगे घोरे अधर्मे प्रत्युपस्थिते ।
अरुणासंगमे स्त्रात्वा मुक्तिमाप्नोति मानवः ॥४२॥
ततस्ते राक्षसाः सर्वे स्त्राताः पापविवर्जिताः ।
दिव्यमाल्याम्बरधराः स्वर्गस्थितिसमन्विताः ॥४३॥