बलिरुवाच
भवता कथितं सर्वं समाराध्य जनार्दनम् ।
या गतिः प्राप्यते लोके तां मे वक्तुमिहार्हसि ॥१॥
केनार्चनेन देवस्य प्रीतिः समुपजायते ।
कानि दानानि शस्तानि प्रीणनाय जगदगुरोः ॥२॥
उपवासादिकं कार्यं कस्यां तिथ्यां महोदयम् ।
कानि पुण्यानि शस्तानि विष्णोस्तुष्टिप्रदानि वै ॥३॥
यच्चान्यदपि कर्त्तव्यं हष्टरुपैरनालसैः ।
तदप्यशेषं दैत्येन्द्र ममाख्यातुमिहार्हसि ॥४॥
प्रह्लाद उवाच
श्रद्दधानैर्भक्तिपरैर्यान्युद्दिश्य जनार्दनम् ।
बले दानानि दीयन्ते तानूचुर्मुनयोऽक्षयान् ॥५॥
ता एव तिथयः शस्ता यास्वभ्यर्च्य जगप्ततिम् ।
तच्चित्तस्तन्मयो भूत्वा उपवासी नरो भवेत् ॥६॥
पूजितेषु द्विजेन्द्रेषु पूजितः स्याज्जनार्दनः ।
एतान् द्विषन्ति ये मूढास्ते यान्ति नरकं ध्रुवम् ॥७॥
तानर्चयेन्नरो भक्त्या ब्राह्मणान् विष्णुतत्परः ।
एवमाह हरिः पूर्वं ब्राह्मणा मामकी तनुः ॥८॥
ब्राह्मणो नावमन्तव्यो बुधो वाप्यबुधोऽपि वा ।
सोऽपि दिव्या तनुर्विष्णोस्तस्मात् तामर्चयेन्नरः ॥९॥
तान्येव च प्रशस्तानि कुसुमानि महासुर ।
यानि स्युर्वर्णयुक्तानि रसगन्धयुतानि च ॥१०॥
विशेषतः प्रवक्ष्यामि पुष्पाणि तिथयस्तथा ।
दानानि च प्रशस्तानि माधवप्रीणनाय तु ॥११॥
जाती शताह्वा सुमनाः कुन्दं बहुपुटं तथा ।
बाणं च चम्पकाशोकं करवीरं च यूथिका ॥१२॥
पारिभद्रं पाटला च बकुलं गिरिशालिनी ।
तिलकं च जपाकुसुमं पीतकं नागरं त्वपि ॥१३॥
एतानि हि प्रशस्तानि कुसुमान्यच्युतार्चने ।
सुरभीणि तथान्यानि वर्जयित्वा तु केतकीम् ॥१४॥
बिल्वपत्रं शमीपत्रं पत्रं भृड्गमृगाड्कयोः ।
तमालामलकीपत्रं शस्तं केशवपूजने ॥१५॥
येषामपि हि पुष्पाणि प्रशस्तान्यच्युतार्चने ।
पल्लवान्यपि तेषां स्युः पत्राण्यर्चाविधौ हरेः ॥१६॥
वीरुधां च प्रवालेन बर्हिषा चार्चयेत्तथा ।
नानारुपैश्चाम्बुभवैः कमलेन्दीवरादिभिः ॥१७॥
प्रवालैः शुचिभिः श्लक्ष्णैर्जलप्रक्षालितैर्बले ।
वनस्पतीनामर्च्येत तथा दूर्वाग्रपल्लवैः ॥१८॥
चन्दनेनानुलिम्पेत कुड्कुमेन प्रयत्नतः ।
उशीरपद्मकाभ्यां च तथा कालीयकादिना ॥१९॥
महिषाख्यं कणं दारु सिह्वकं सागरुं सिता ।
शड्खं जातीफलं श्रीशे धूपानि स्युः प्रियाणि वै ॥२०॥
हविषा संस्कृता ये तु यवगोधूमशालयः ।
तिलमुदगादयो माषा व्रीहयश्च प्रिया हरेः ॥२१॥
गोदानानि पवित्राणि भूमिदानानि चानघ ।
वस्त्रान्नस्वर्णदानानि प्रीतये मधुघातिनः ॥२२॥
माघमासे तिला देयास्तिलधेनुश्च दानव ।
इन्धनादीनि च तथा माधवप्रीणनाय तु ॥२३॥
फाल्गुने व्रीहयो मुद्गा वस्त्रकृष्णाजिनादिकम् ।
गोविन्दप्रीणनार्थाय दातव्यं पुरुषर्षभैः ॥२४॥
चैत्रे चित्राणि वस्त्राणि शयनान्यासनानि च ।
विष्णोः प्रीत्यर्थमेतानि देयानि ब्राह्मणेष्वथ ॥२५॥
गन्धमाल्यानि देयानि वैशाखे सुरभीणि वै ।
देयानि द्विजमुख्योभ्यो मधुसूदनतुष्टये ॥२६॥
उदकुम्भाम्बुधेनुं च तालवृन्तं सुचन्दनम् ।
त्रिविक्रमस्य प्रीत्यर्थं दातव्यं साधुनिः सदा ॥२७॥
उपानद्युगलं छत्रं लवणामलकादिकम् ।
आषाढे वामनप्रीत्यै दातव्यानि तु भक्तितः ॥२८॥
घृतं च क्षीरकुम्भाश्च घृतधेनुफलानि च ।
श्रावणे श्रीधरप्रीत्यै दातव्यानि विपश्चिता ॥२९॥
मासि भाद्रपदे दद्यात् पायसं मधुसर्पिषी ।
हषीकेशप्रीणनार्थं लवणं सगुडोदनम् ॥३०॥
तिलास्तुरड्गं वृषभं दधि ताम्रायसादिकम् ।
प्रीत्यर्थं पद्मनाभस्य देयमाश्वयुजे नरैः ॥३१॥
रजतं कनकं दीपान् मणिमुक्ताफलादिकम् ।
दामोदरस्य तुष्टयर्थं प्रदद्यात् कार्तिके नरः ॥३२॥
खरोष्ट्राश्वतरान् नागान् यानयुग्यमजाविकम् ।
दातव्यं केशवप्रीत्यै मासि मार्गशिरे नरैः ॥३३॥
प्रासादनगरादीनि गृहप्रावरणादिकम् ।
नारायणस्य तुष्टयर्थं पौषे देयानि भक्तितः ॥३४॥
दासीदासमलड्कारमन्नं षड्रससंयुतम् ।
पुरुषोत्तमस्य तुष्टयर्थं प्रदेयं सार्वकालिकम् ॥३५॥
यद्यदिष्टतमं किंचिद्यद्वाप्यस्ति शुचि गृहे ।
तत्तद्धि देयं प्रीत्यर्थं देवदेवाय चक्रिणे ॥३६॥
यः कारयेन्मन्दिरं केशवस्य पुण्याँल्लोकान् स जयेच्छाश्वतान् वै ।
दत्त्वारामान् पुष्पफलाभिपन्नान् भोगान् भुड्क्ते कामतः श्लाघनीयान् ॥३७॥
पितामहस्य पुरतः कुलान्यष्टौ तु यानि च ।
तारयेदात्मना सार्धं विष्णोर्मन्दिकारकः ॥३८॥
इमाश्च पितरो दैत्य गाथा गायन्ति योगिनः ।
पुरतो यदुसिंहस्य ज्यामघस्य तपस्विनः ॥३९॥
अपि नः स कुले कश्चिद विष्णुभक्तो भविष्यति ।
हरिमन्दिरकर्ता यो भविष्यति शुचिव्रतः ॥४०॥
अपि नः सन्ततौ जायेद विष्ण्वालयविलेपनम् ।
सम्मार्जनं च धर्मात्मा करिष्यति च भक्तितः ॥४१॥
अपि नः सन्ततौ जातौ ध्वजं केशवमन्दिरे ।
दास्यते देवदेवाय दीपं पुष्पानुलेपनम् ॥४२॥
महापातकयुक्तो वा पातकी चोपपातकी ।
विमुक्तपापो भवति विष्णवायतनचित्रकृत् ॥४३॥
इत्थं पितृणां वचनं श्रुत्वा नृपतिसत्तमः ।
चकारायतनं भूम्यां स्वयं च लिम्पतासुर ॥४४॥
विभूतिभिः केशवस्य केशवाराधने रतः ।
नानाधातुविकारैश्च पञ्चवर्णैश्च चित्रकैः ॥४५॥
ददौ दीपानि विधिवद् वासुदेवालये वले ।
सुगन्धितैलपूर्णानि घृतपूर्णानि च स्वयम् ॥४६॥
नानावर्णा वैजयन्त्यो महारजनरञ्जिताः ।
मञ्जिष्ठा नवरड्गीयाः श्वेतपाटलिकाश्रिताः ॥४७॥
आरामा विविधा हद्याः पुष्पाढ्याः फलशालिनः ।
लतापल्लवसंछन्ना देवदारुभिरावृताः ॥४८॥
करिताश्च महामञ्चाधिष्ठिताः कुशलैर्जनैः ।
पौरोगवविधानज्ञै रत्नसंस्कारिभिर्दृढैः ॥४९॥
तेषु नित्यं प्रपूज्यन्ते यतयो ब्रह्मचारिणः ।
श्रोत्रिया ज्ञानसम्पन्ना दीनान्धविकलादवः ॥५०॥
इत्थं स नृपतिः कृत्वा श्रद्दधानो जितेन्द्रियः ।
ज्यामधो विष्णुनिलयं गत इत्यनुशुश्रुमः ॥५१॥
तमेव चाद्यापि बले मार्गं ज्यामघकारितम् ।
व्रजन्ति नरशार्दूल विष्णुलोकजिगीषवः ॥५२॥
तस्मात् त्वमपि राजेन्द्र कारयस्वालयं हरेः ।
तमर्चयस्व यत्नेन ब्राह्मणामश्च बहुश्रुतान् ।
पौराणिकान् विशेषेण सदाचाररताञ् शुचीन् ॥५३॥
वासोभिर्भूषणै रत्नैर्गोभिर्भूकनकादिभिः ।
विभवे सति देवस्य प्रीणनं कुरु चक्रिणः ॥५४॥
एवं क्रियायोगरतस्य तेऽद्य नूनं मुरारिः शुभदो भविष्यति ।
नरा न सीदन्ति बले समाश्रिता विभुं जगन्नाथमनन्तमच्युतम् ॥५५॥
पुलस्त्य उवाच
इत्येवमुक्त्वा वचनं दितीश्वरो वैरोचनं सत्यमनुत्तमं हि ।
सम्पूजितस्तेन विमुक्तिमाययौ सम्पूर्णकामो हरिपादभक्तः ॥५६॥
गते हि तस्मिन् मुदिते पितामहे बलेर्बभौ मन्दिरमिन्दुवर्णम् ।
महेन्द्रशिल्पिप्रवरोऽथ केशवं स कारयामास महामहीयान् ॥५७॥
स्वयं स्वभार्यासहितश्चकार देवालये मार्जनलेपनादिकाः ।
क्रिया महात्मा यशवर्कराद्या बलिं चकाराप्रतिमां मधुद्रुहः ॥५८॥
दीपप्रदानं स्वयमायताक्षी विन्ध्यावली विष्णुगृहे चकार ।
गेयं स धर्म्यश्रवणं च धीमान् पौराणिकैर्विप्रवरैकारयत् ॥५९॥
तथाविधस्यासुरपुङ्गवस्य धर्म्ये सुमार्गे प्रतिसंस्थितस्य ।
जगत्पतिर्दिव्यवपुर्जनार्दनस्तस्थौ महात्मा बलिरक्षणाय ॥६०॥
सूर्यायुताभं मुसलं प्रगृह्य निघ्नन् स दुष्टानरियूथपालान् ।
द्वारि स्थितो न प्रददौ प्रवेशं प्राकारगुप्ते बलिनो गृहे तु ॥६१॥
द्वारि स्थिते धातरि रक्षपाले नारायणे सर्वगुणाभिरामे ।
प्रासादमध्ये हरिमीशितारमभ्यर्चयामास सुरर्षिमुख्यम् ॥६२॥
स एवमास्ते सुरराड् बलिस्तु समर्चयन् वै हरिपादपड्कजौ ।
सस्मार नित्यं हरिभाषितानि स तस्य जातो विनयाड्कुशस्तु ॥६३॥
इदं च वृत्तं स पपाठ दैत्यराट् स्मरन् सुवाक्यानि गुरोः शुभानि ।
तथ्यानि पथ्यानि परत्र चेह पितामहस्येन्द्रसमस्य वीरः ॥६४॥
ये वृद्धवाक्यानि समाचरन्ति श्रुत्वा दुरुक्तान्यपि पूर्वतस्तु ।
स्त्रिग्धानि पश्चान्नवनीतशुद्धा मोदन्ति ते नात्र विचारमस्ति ॥६५॥
आपद्भुजंगदष्टस्य मन्त्रहीनस्य सर्वदा ।
वृद्धवाक्यौषधा नूनं कुर्वन्ति किल निर्विषम् ॥६६॥
वृद्धवाक्यामृतं पीत्वा तदुक्तमनुमान्य च ।
या तृप्तिजायते पुंसां सोमपाने कुतस्तथा ॥६७॥
आपत्तौ पतितानां येषां वृद्धा न सन्ति शास्तारः ।
ते शोच्या बन्धूनां जीवन्तोऽपीह मृततुल्याः ॥६८॥
आपदग्राहगृहीतानां वृद्धाः सन्ति न पण्डिताः ।
येषां मोक्षयितारो वै तेषां शान्तिर्न विद्यते ॥६९॥
आपज्जलनिमग्नानां हियतां व्यसनेर्मिभिः ।
वृद्धवाक्यैर्विना नूनं नैवोत्तारं कथंचन ॥७०॥
तस्माद यो व्रुद्धवाक्यानि श्रृणुयाद विदधाति च ।
स सद्यः सिद्धिमाप्नोति यथा वैरोचनो बलिः ॥७१॥