नारद उवाच
यदेतद भवता प्रोक्तं सुकेशिनगरोऽम्बरात् ।
पातितो भुवि सूर्येण तत्कदा कुत्र कुत्र च ॥१॥
सुकेशीति च कश्चासौ केन दत्तः पुरोऽस्य च ।
किमर्थं पातितो भूम्यामाकाशाद् भास्करेण हि ॥२॥
पुलस्त्य उवाच
श्रृणुष्वाहितो भूत्वा कथामेतां पुरातनीम् ।
यथोक्तवान् स्वयम्भूर्मां कथ्यमानां मयाऽनघ ॥३॥
आसीन्निशाचरपतिर्विद्युत्केशीति विश्रुतः ।
तस्य पुत्रो गुणज्येष्ठः सुकेशिरभवत्ततः ॥४॥
तस्य तुष्टथेशानः पुरमाशचारिणम् ।
प्रादादजेयत्वमपि शत्रुभिश्चाप्यवध्यताम् ॥५॥
स चापि शंकरात् प्राप्य वरं गगनगं पुरम् ।
रेमे निशाचरैः सार्द्धं सदा धर्मपथि स्थितः ॥६॥
स कदाचिद गतोऽरण्यं मागधं राक्षसेश्वरः ।
तत्राश्रमांस्तु ददृशे ऋषीणां भावितात्मनाम् ॥७॥
महर्षीन् स तदा दृष्ट्वा प्रणिपत्याभिवाद्य च ।
प्रत्युवाच ऋषीन् सर्वान् कृतासनपरिग्रहः ॥८॥
सुकेशिरुवाच
प्रष्टुमिच्छामि भवतः संशयोऽयं ह्यदि स्थितः ।
कथयन्तु भवन्तो मे न चैवाज्ञापयाम्यहम् ॥९॥
किंस्विच्छ्रेयः परे लोके किमु चेह द्विजोत्तमाः ।
केन पूज्यस्तथा सत्सु केनासौ सुखमेधते ॥१०॥
पुलस्त्य उवाच
इत्थं सुकेशिवचनं निशम्य परमर्षयः ।
प्रोचुर्विमुश्य श्रेयोऽर्थमिह लोके परत्र च ॥११॥
ऋषय ऊचुः
श्रूयतां कथयिष्यामस्तव राक्षसपुंगव ।
यद्धि श्रेयो भवेद वीर इह चामुत्र चाव्ययम् ॥१२॥
श्रेयो धर्मः परे लोके इह च क्षणदाचर ।
तस्मिन् समाश्रितः सत्सु पूज्यस्तेन सुखी भवेत् ॥१३॥
सुकेशिरुवाच
किं लक्षणो भवेद धर्मः किमाचरणसत्क्रियः ।
यमाश्रित्य न सीदन्ति देवाद्यास्तु तदुच्यताम् ॥१४॥
ऋषय ऊचुः
देवानां परमो धर्मः सदा यज्ञादिकाः क्रियाः ।
स्वाध्यायवेदतेतृत्वं विष्णुपूजारतिः स्मृता ॥१५॥
दैत्यानां बाहुशालित्वं मात्सर्यं युद्धसत्क्रिया ।
वेदनं नीतिशास्त्राणां हरभक्तिरुदाहता ॥१६॥
सिद्धानामुदितो धर्मो योगयुक्तिरनुत्तमा ।
स्वाध्यायं ब्रह्मविज्ञानं भक्तिर्द्वाभ्यामपि स्थिरा ॥१७॥
उत्कृष्टोपासनं ज्ञेयं नृत्यवाद्येषु वेदिता ।
सर स्वरस्वत्यां स्थिरा भक्तिर्गान्धर्वो धर्म उच्यते ॥१८॥
विद्याधरत्वमतुलं विज्ञानं पौरुषे मतिः ।
विद्याधराणां धर्मोऽयं भवान्यां भक्तिरेव च ॥१९॥
गन्धर्वविद्यावेदित्वं भक्तिर्भानौ तथा स्थिरा ।
कौशल्यं सर्वशिल्पानां धर्मः किम्पुरुषः स्मृतः ॥२०॥
ब्रह्मचर्यममानित्वं योगाभ्यासरतिर्दृढा ।
सर्वत्र कामचारित्वं जप्यं ज्ञानं च राक्षस ।
नियमाद्धर्मवेदित्वमार्षो धर्मः प्रचक्ष्यते ॥२२॥
स्वाध्यायं ब्रह्मचर्य च दानं यजनमेव च ।
अकार्पण्यमनायासं दया हिंसा क्षमा दमः ॥२३॥
जितेन्द्रियत्वं शौचं च माङ्गल्यं भक्तिरच्युते ।
शंकरे भास्करे देव्यां धर्मोऽयं मानवः स्मृतः ॥२४॥
धनाधिपत्यं भोगानि स्वाध्यायं शंकरार्चनम् ।
अहंकारमशौण्डीयं धर्मोऽयं गुह्यकेष्विति ॥२५॥
परदारावमर्शित्वं पारक्येऽर्थे च लोलता ।
स्वाध्यायं त्र्यम्बके भक्तिर्धर्मोऽयं राक्षसः स्मृतः ॥२६॥
अविवेकमथाज्ञानं शौचहानिरसत्यता ।
पिशाचानामयं धर्मः सदा चामिषगृध्नुता ॥२७॥
योनयो द्वादशैवैतास्तासु धर्माश्च राक्षस ।
ब्रह्मणा कथिताः पुण्या द्वादशैव गतिप्रदाः ॥२८॥
सुकेशिरुवाच
भवद्भिरुक्ता ये धर्माः शाश्वता द्वादशाव्ययाः ।
तत्र ये मानवा धर्मास्तान् भूयो वक्तुमर्हथ ॥२९॥
ऋषय उवाच
श्रृणुष्व मनुजादीनां धर्मोऽस्तु क्षणदाचर ।
ये वसन्ति महीपृष्ठे नरा द्वीपेषु सप्तसु ॥३०॥
योजनानां प्रमाणेन पञ्चाशत्कोटिरायता ।
जलोपरि महीयं हि नौरिवास्ते सरिज्जले ॥३१॥
तस्योपरि च देवेशो ब्रह्मा शैलेन्दुमुत्तमम् ।
कर्णिकाकारमत्युच्चं स्थापयामास सत्तम ॥३२॥
तस्येमां निर्मसे पुण्यां प्रजां देवश्चतुर्दिशम् ।
स्थानानि द्वीपसंज्ञानि कृतवांश्च प्रजापतिः ॥३३॥
तत्र मध्ये च कृतवाञ्जम्बूद्वीपमिति श्रुतम् ।
तल्लक्षं योजनानां च प्रमाणेन निगद्यते ॥३४॥
ततो जलनिधी रौदो बाह्यतो द्विगुणः स्थितः ।
तस्यापि द्विगुणाः प्लक्षो बाह्यतः संप्रतिष्ठितः ॥३५॥
ततस्त्विक्षुरसोदश्च बाह्यतो बलयाकृतिः ।
द्विगुणः शाल्मलिद्वीपो द्विगुणोऽस्य महोदधेः ॥३६॥
सुरोदो द्विगुणस्तस्य तस्माच्च दिगुणः कुशः ।
घृतोदो द्विगुणश्चैव कुशद्वीपात् प्रकीर्तितः ॥३७॥
घृतोदाद द्विगुणः प्रोक्तः समुद्रो दधिसंज्ञितः ॥३८॥
समुद्राद द्विगुणः शाकः शाकाद दुग्देहाब्धिरुत्तमः ।
द्विगुणः संस्थितो यत्र शेषपर्यङ्कगो हरिः ।
एते च द्विगुणाः सर्वे परस्परमपि स्थिताः ॥३९॥
योजनानां राक्षसेन्द्र पञ्च चातिसुविस्तृताः ।
जम्बूद्वीपात् समारभ्य यावत्क्षीराब्धिरन्ततः ॥४०॥
तस्माच्च पुष्करद्वीपः स्वादूदस्तदनन्तरम् ।
कोट्यश्चतस्त्रो लक्षाणां द्विपञ्चाशच्च राक्षस ॥४१॥
पुष्करद्वीपमानोऽयं तावदेव तथोदधिः ।
लक्षमण्डकटाहेन समन्तादभिपूरितम् ॥४२॥
एवं द्विपास्त्विमे सप्त पृथग्धर्माः पृथकक्रियाः ।
गादिष्यामस्तव वयं श्रृणुष्व त्वं निशाचर ॥४३॥
प्लक्षादिषु नरा वीर ये वसन्ति सनातनाः ।
शाकान्तेषु न तेष्वस्ति युगावस्था कथंचन ॥४४॥
मोदन्ते देववत्तेषां धर्मो दिव्य उदाहतः ।
कल्पान्ते प्रलयस्तेषां निगद्येत महाभुज ॥४५॥
ये जनाः पुष्करद्वीपे वसन्ते रौद्रदर्शने ।
पैशाचमाश्रिता धर्मे कर्मान्ते ते विनाशितः ॥४६॥
सुकेशिरुवाच
किमर्थं पुष्करद्वीपो भवद्भिः समुदाहतः ।
दुर्दर्शः शौचरहितो घोरः कर्मान्तनाशकृत् ॥४७॥
ऋषय ऊचुः
तस्मिन् निशाचर द्वीपे नरकाः सन्ति दारुणाः ।
रौरवाद्यास्ततो रौद्रः पुष्करो घोरदर्शनः ॥४८॥
सुकेशिरुवाच
कियन्त्येतानि रौद्राणि नरकाणि तपोधनाः ।
कियन्मात्राणि मार्गेण का च तेषु स्वरुपता ॥४९॥
ऋषय ऊचुः
श्रृणुष्व राक्षसश्रेष्ठ प्रमाणं लक्षणं तथा ।
सर्वेषां रौरवादीनां संख्या या त्वेकविंशतिः ॥५०॥
द्वे सहस्त्रे योजनानां ज्वलिताङ्गरविस्तृते ।
रौरवो नाम नरकः प्रथमः परिकीर्तितः ॥५१॥
तप्तताम्रमयी भूमिरधस्ताद्वहितापिता ।
द्वितीयो द्विगुणस्तस्मान्महारौरव उच्यते ॥५२॥
ततोऽपि द्विः स्थिश्चान्यस्तामिस्त्रो नरकः स्मृतः ।
अन्धतामिस्त्रको नाम चतुर्थो द्विगुणः परः ॥५३॥
ततस्तु कालचक्रेति पञ्चमः परिगीयते ।
अप्रतिष्ठं च नरकं घटीयन्त्रं च सप्तमम् ॥५४॥
आसिपत्रवनं चान्यत्सहस्त्राणि द्विसप्ततिः ।
योजनानां परिख्यातमष्टमं नरकोत्तमम् ॥५५॥
नवमं तप्तकुम्भं च दशमं कूटशाल्मलिः ।
करपत्रस्तथैवोक्तस्तथाऽन्यः श्वानभोजनः ॥५६॥
संदंशो लौहपिण्डश्च करम्भसिकता तथा ।
घोरा क्षारनदी चान्या तथान्यः कृमिभोजनः ।
तथाऽष्टादशमी प्रोक्ता घोरा वैतरणी नदी ॥५७॥
तथा परः शोणितपूयभोजनः क्षुराग्रधारो निशितश्च चक्रकः ।
संशोषणो नाम तथाप्यनतः प्रोक्तास्तवैते नरकाः सुकेशिन् ॥५८॥