संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य पूर्वार्धम्| सर्गः ७४ निर्वाणप्रकरणस्य पूर्वार्धम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११५ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ सर्गः १२३ सर्गः १२४ सर्गः १२५ सर्गः १२६ सर्गः १२७ सर्गः १२८ निर्वाणप्रकरणं - सर्गः ७४ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः ७४ Translation - भाषांतर श्रीराम उवाच ।यथा चित्तचमत्कृत्या राज्ञो गङ्गावतारणम् ।भगीरथस्य संपन्नं तन्मे कथय भो प्रभो ॥१॥श्रीवसिष्ठ उवाच ।आसीद्भगीरथो नाम राजा परमधार्मिकः ।भुवः समुद्रयुक्ताया मण्डलीतिलकोपमः ॥२॥संकल्पानन्तरं प्राप्ता यथाभिमतमर्थिनः ।चन्द्रप्रसन्नवदनादस्माच्चिन्तामणेरिव ॥३॥साधूनां यो व्यवस्थार्थं धनान्यविरतं ददौ ।तृणमात्रमुपादत्ते क्वचिच्चिन्तामणिर्यथा ॥४॥वज्रसारमिव प्रोतमुज्वलन्नेमि योऽभिनत् ।अधो मणिरयोयन्त्रं सर्वदुर्जनचेष्टितम् ॥५॥अधूमवह्निदेहश्रीः श्रान्तोऽपि दैन्यमप्यलम् ।तमोऽहरन्नृणां नैशं द्युमणिर्वेश्मनामिव ॥६॥किरन्नग्निकणासारमभितः स्वप्रतापजम् । मध्याह्नसूर्यकान्ताग्निरिव ज्वलति योऽरिषु १७॥मृदुशीतलसंस्पर्शो यः समाह्लादयन्मनः ।सुज्ञानां द्रवति स्निग्धस्येन्दोरिन्दुमणिर्यथा ॥८॥जगद्यज्ञोपवीतस्य स्वर्गपातालवाहिनः ।गङ्गावाहस्य येनास्यां तृतीयः पूरितो गुणः ॥९॥अगस्त्यशोषितोऽम्भोधिर्गङ्गापूरेण पूरितः ।येन दुष्पूरभूतोऽपि महासार्थोऽर्थिनामिव ॥१०॥गङ्गासोपानपद्धत्या येन पातालवासिनः ।योजिता ब्रह्मणो लोके बान्धवा लोकबन्धुना ॥११॥ब्रह्माणं शंकरं जह्नुं तपसाराधयंश्च यः ।भूयोभूयो ययौ खेदमशून्याध्यवसायिनः ॥१२॥यौवने वर्तमानस्य तस्य भूमिपतेरपि ।प्रविचारयतो लोकयात्रां पर्याकुलामिमाम् ॥१३॥सुविरागचमत्कारविचारकणिकोदभूत् ।वयस्यपि च तारुण्ये दैवाद्वल्ली मराविव ॥१४॥एकान्ते चिन्तयामास महीपतिरसाविति ।जगद्यात्रामिमां नित्यमसमञ्जसमाकुलम् ॥१५॥पुनर्दिनं पुनः श्यामा दानादानशतं पुनः ।तदेव भुक्तविरसं लक्ष्यते कर्म कुर्वताम् ॥१६॥येन प्राप्तेन लोकेऽस्मिन्न प्राप्यमवशिष्यते ।तत्कृतं सुकृतं मन्ये शेषं कर्म विषूचिका ॥१७॥पुनःपुनः पर्युषितं कर्म कुर्वन्न लज्जते ।मूढ्बुद्धिरबुद्धिस्तु कः कुर्यात्किल बालवत् ॥१८॥अथैकदोद्विग्नमनाः कदाचित्त्रितलं गुरुम् ।एकान्तं संसृतेर्भीतः समपृच्छद्भगीरथः ॥१९॥भगीरथ उवाच ।अन्तःशून्यासु सुचिरं भ्रमत्संसारवृत्तिषु ।अरण्यानीषु चैतासु भृशं खिन्ना वयं विभो ॥२०॥जरामरणमोहादिरूपाणां भवकारिणाम् ।भगवन्सर्वदुःखानां कथमन्तः प्रजायते ॥२१॥त्रितल उवाच ।चिरसाम्यात्मनोत्थेन निर्विभागविलासिना ।राजन् ज्ञेयावबोधेन पूर्णेन भरितात्मना ॥२२॥क्षीयन्ते सर्वदुःखानि त्रुट्यन्ति ग्रन्थयोऽभितः ।संशयाः समतां यान्ति सर्वकर्माणि चानघ ॥२३॥ज्ञेयं विदुरथात्मानं संशुद्धं ज्ञप्तिरूपिणम् ।स च सर्वगतो नित्यं नास्तमेति न चोदयम् ॥२४॥भगीरथ उवाच ।चिन्मात्रं निर्गुणं शान्तमस्ति निर्मलमच्युतम् ।देहादि नेतरत्किंचिदिति वेद्मि मुनीश्वर ॥२५॥किं तत्र प्रतिपत्तिर्मे स्फुटतामेति नेतरा ।एतावन्मात्रसंवित्तिः स्यामहं भगवन्कथम् ॥२६॥त्रितल उवाच ।ज्ञानेन ज्ञेयनिष्ठत्वमेति चेतो हृदम्बरे ।ततः सर्ववपुर्भूत्वा भूयो जीवो न जायते ॥२७॥असक्तिरनभिष्वङ्गः पुत्रदारगृहादिषु ।नित्यं च समचित्तत्वमिष्टानिष्टोपपत्तिषु ॥२८॥आत्मनोऽनन्ययोगेन तद्भावनमनारतम् ।विविक्तदेशसेवित्वमरतिर्जनसंसदि ॥२९॥अध्यात्मज्ञाननित्यत्वं तत्त्वज्ञानार्थदर्शनम् ।एतज्ज्ञानमिति प्रोक्तमज्ञानं तदतोऽन्यथा ॥३०॥रागद्वेषक्षयाकारं संसारव्याधिभेषजम् ।अहंभावोपशान्तौ तु राजन् ज्ञानमवाप्यते ॥३१॥भगीरथ उवाच ।शरीरेऽस्मिंश्चिरारूढो गिरौ तरुरिव स्वके ।अहंभावो महाभाग वद मे त्यज्यते कथम् ॥३२॥त्रितल उवाच ।पौरुषेण प्रयत्नेन त्यक्त्वा भोगौघभावनाम् ।गत्वा विकसितां सत्तामहंकारो विलीयते ॥३३॥यन्त्रणापञ्जरं यावद्भग्नं लज्जादिनाखिलम् ।अकिंचनत्वशेषेण स्फुटा तावदहंकृतिः ॥३४॥सर्वमेतद्धिया त्यक्त्वा यदि तिष्ठसि निश्चलः ।तदहंकारविलये त्वमेव परमं पदम् ॥३५॥शान्ताशेषविशेषणो विगतभीः संत्यक्तसर्वैषणोगत्वानूनमकिंचनत्वमरिषु त्यक्त्वा समग्रां श्रियम् ।शान्ताहंकृतिरस्तदेहकलनस्तेष्वेव भिक्षामटन्मामप्युज्झितवानलं यदिभवस्युच्चैस्त्वमुच्चैरसि ॥३६॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषु निर्वाणप्रकरणे पू० भगीरथोपदेशो नाम चतुःसप्ततितमः सर्गः ॥७४॥ N/A References : N/A Last Updated : September 24, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP