निर्वाणप्रकरणं - सर्गः १०
योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ
श्रीवसिष्ठ उवाच ।
तस्मान्नकिंचिदेवेदं जगत्स्थावरजंगमम् ।
नकिंचिद्भूततां प्राप्तं यत्किंचिदिति विद्धि हे ॥१॥
यत्र काचिन्न कलना भावाभावमयात्मिका ।
तदिदं राम जीवादि सर्वं व्यर्थं किमीहसे ॥२॥
संबन्धोऽयमसावन्तर्ह्रदि यो व्यपदिश्यते ।
न तं लभामहे सर्पं रज्जुसर्पभ्रमादिव ॥३॥
अपरिज्ञात आत्मैव भ्रमतां समुपागतः ।
ज्ञात आत्मत्वमायाति सीमान्तः सर्वसंविदाम् ॥४॥
अविद्येत्युच्यते लोके चिच्चेत्यमलमाश्रिता ।
चेत्यातीतात्मतामेति सर्वोपाधिविवर्जिता ॥५॥
चित्तमात्रं हि पुरुषस्तस्मिन्नष्टे च नश्यति ।
स्थिते तिष्ठति चात्मायं घटे सति घटाम्बरम् ॥६॥
गच्छन्पश्यति गच्छन्तं स्थितं तिष्ठञ्छिशुर्यथा ।
भ्रान्तमेवमिदं चेतः पश्यत्यात्मानमाकुलम् ॥७॥
कोशकारवदात्मानं वासनातनुतन्तुभिः ।
वेष्टयच्चैव चेतोऽन्तर्बालत्वान्नावबुध्यते ॥८॥
श्रीराम उवाच ।
मौर्ख्यमत्यन्तघनतामागतं समवस्थितम् ।
स्थावरादि तनु प्राप्तं कीदृशं भवति प्रभो ॥९॥
श्रीवसिष्ठ उवाच ।
अमनस्त्वमसंप्राप्तं मनस्त्वादपि च च्युतम् ।
तटस्थं रूपमाश्रित्य स्थितैषा स्थावरेषु चित् ॥१०॥
तत्र दूरस्थिता मुक्तिर्मन्ये वेद्यविदां वर ।
सुप्तपुर्यष्टका यत्र चित्स्थिता दुःखदायिनी ।
मूकान्धजडवत्तत्र सत्तामात्रेण तिष्ठति ॥११॥
श्रीराम उवाच ।
सत्ताद्वैततया यत्र संस्थिता स्थावरेषु चित् ।
तत्रादूरस्थिता मुक्तिर्मन्ये वेद्यविदां वर ॥१२॥
श्रीवसिष्ठ उवाच ।
बुद्धिपूर्वं विचार्येदं यथावस्त्ववलोकनात् ।
सत्तासामान्यबोधो यः स मोक्षश्चेदनन्तकः ॥१३॥
परिज्ञाय परित्यागो वासनानां य उत्तमः ।
सत्तासामान्यरूपत्वं तत्कैवल्यपदं विदुः ॥१४॥
विचार्यार्यैः सहालोक्य शास्त्राण्यध्यात्मभावनात् ।
सत्तासामान्यनिष्ठत्वं यत्तद्ब्रह्म परं विदुः ॥१५॥
अन्तः सुप्ता स्थिता मन्दा यत्र बीज इवाङ्कुरः ।
वासना तत्सुषुप्तत्वं विद्धि जन्मप्रदं पुनः ॥१६॥
अन्तः संलीनमननं परितः सुप्तवासनम् ।
सुषुप्तं जडधर्मापि जन्म दुःखशतप्रदम् ॥१७॥
स्थावरादय एते हि समस्ता जडधर्मिणः ।
सुषुप्तपदमारूढा जन्मयोग्याः पुनःपुनः ॥१८॥
यथा बीजेषु पुष्पादि मृदो राशौ घटो यथा ।
तथान्तः संस्थिता साधो स्थावरेषु स्ववासना ॥१९॥
यत्रास्ति वासनाबीजं तत्सुषुप्तं न सिद्धये ।
निर्बीजा वासना यत्र तत्तुर्यं सिद्धिदं स्मृतम् ॥२०॥
वासनायास्तथा वह्नेर्ऋणव्याधिद्विषामपि ।
स्नेहवैरविषाणां यः शेषः स्वल्पोऽपि बाधते ॥२१॥
निर्दग्धवासनाबीजसत्तासामान्यरूपवान् ।
सदेहो वा विदेहो वा न भूयो दुःखभाग्भवेत् ॥२२॥
चिच्छक्तिर्वासनाबीजरूपिणी स्वापधर्मिणी ।
स्थिता रसतया नित्यं स्थावरादिषु वस्तुषु ॥२३॥
बीजेषूल्लासरूपेण जाड्येन जडरूपिषु ।
द्रव्येषु द्रव्यभावेन काठिन्येनेतरेषु च ॥२४॥
भस्मन्यथानित्यरूपा पांसुष्वप्यणुरूपिणी ।
असितेष्वसितस्थित्या सितधारतयासिषु ॥२५॥
आत्मा शक्तिः पदार्थेषु तथा घटपटादिषु ।
सर्वत्र सत्तासामान्यरूपमाश्रित्य तिष्ठति ॥२६॥
इतीयमखिला दृश्यदशामापूर्य संस्थिता ।
यथा घटापटा प्रावृडम्बरालम्बिनी तथा ॥२७॥
स्वरूपमस्याश्चैवैतत्कथितं प्रविचारितम् ।
असर्वं सर्वतो व्यापि सदिवासन्मयात्मकम् ॥२८॥
आत्मदृष्टिरदृष्टैषा संसारभ्रमदायिनी ।
दृष्टा सती समग्राणां दुःखानां क्षयकारिणी ॥२९॥
अस्यास्त्वदर्शनं यत्तदविद्येत्युच्यते बुधैः ।
अविद्या हि जगद्धेतुस्ततः सर्वं प्रवर्तते ॥३०॥
अविद्या रूपरहिता यावदेवावलोक्यते ।
तावदेव गलत्याशु तुहिनाणुर्यथातपे ॥३१॥
यथा नरो गलन्निद्रो यावत्कलनया मनाक् ।
विमृशत्याशयं तावन्निद्रा तस्य विलीयते ॥३२॥
यथा कीदृगवस्त्वेतदिति यावद्विकल्प्यते ।
अविद्या क्षीयते तावदालोकेनान्धता यथा ॥३३॥
दीपहस्तो यथाभ्येति तमोरूपदिदृक्षया ।
तथा विलीयते सर्वं तमस्तापैर्घृतं यथा ॥३४॥
नच संलक्ष्यते दीपे तमसो रूपनिश्चयः ।
उदेति केवलं ध्वान्तध्वंसो विमलमूर्तिमान् ॥३५॥
एवमालोक्यमानैषा क्वापि याति पलायते ।
असद्रूपा ह्यवस्तुत्वाद्दृश्यते ह्यविचारणात् ॥३६॥
आलोक आगते यादृक्तमस्तद्दृश्यते तथा ।
याऽवस्तुत्वे त्वविद्यायास्त्ववस्तुत्वं प्रतीयते ॥३७॥
यावन्नालोक्यते तावन्न किंचिदपि दृश्यते ।
आलोकिते यथाऽविद्या तत्तथा प्रतिपद्यते ॥३८॥
रक्तमांसास्थियन्त्रेऽस्मिन्कः स्यामहमिति स्वयम् ।
यावद्विचार्यते तावत्सर्वमाशु विलीयते ॥३९॥
आद्यन्तयोरसद्रूपे नूनं परिहृते हृदा ।
सर्वस्मिन्नेव यः शेषस्तमविद्याक्षयं विदुः ॥४०॥
तन्न किंचिच्च किंचिद्वा तत्सद्ब्रह्मैव शाश्वतम् ।
तद्वस्तु तदुपादेयं यदविद्या निवर्तते ॥४१॥
रूपं स्वनाम्न एवास्या ज्ञायते निःस्वभावकम् ।
नहि जिह्वागतस्वाद्यस्वादोऽन्यस्मात्प्रतीयते ॥४२॥
नाविद्या क्वचिदप्यस्ति ब्रह्मैवेदमखण्डितम् ।
सदसत्कलनास्फारमशेषं येन मण्डितम् ॥४३॥
एतावदेवाविद्याया नेदं ब्रह्मेति निश्चयः ।
एतदेव क्षयो यस्या ब्रह्मेदमिति निश्चयः ॥४४॥
घटपटशकटावभासजालं
न विभुरितीत्युदितेह सा त्वविद्या ।
घटपटशकटावभासजालं
विभुरिति चेद्गलितैव सा त्वविद्या ॥४५॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये देव० मोक्षोपायेषु निर्वाणप्रकरणे पू० अविद्याचिकित्सा नाम दशमः सर्गः ॥१०॥
N/A
References : N/A
Last Updated : September 22, 2021
TOP