संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य पूर्वार्धम्| सर्गः ८ निर्वाणप्रकरणस्य पूर्वार्धम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११५ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ सर्गः १२३ सर्गः १२४ सर्गः १२५ सर्गः १२६ सर्गः १२७ सर्गः १२८ निर्वाणप्रकरणं - सर्गः ८ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः ८ Translation - भाषांतर श्रीवसिष्ठ उवाच ।संसारवनखण्डेऽस्मिंश्चित्पर्वततटे स्थिता ।कीदृशी सृष्ट्यविद्याख्या लता विकसिता कदा ॥१॥बृहत्पर्वतपर्वाढ्या ब्रह्माण्डत्वक्समावृता ।देहयष्टिरियं यस्यास्त्रिलोकी लोककासिनी ॥२॥सुखं दुःखं भवो भावो ज्ञानमज्ञानमेव च ।अत्रैतान्युरुवृत्तानि मूलानि च फलानि च ॥३॥सुखादविद्योदेत्युच्चैस्तदेवान्ते प्रयच्छति ।दुःखादविद्योदेत्युच्चैस्तदेवैषा फलत्यलम् ॥४॥भवादविद्योदेत्येषा तमेव फलति स्फुटम् ।भावात्सत्तामवाप्नोति तमेव फलति क्षणम् ॥५॥अज्ञानाद्वृद्धिमायाति तदेव स्यात्फलं स्फुटम् ।ज्ञानेनायाति संवित्तिस्तामेवान्ते प्रयच्छति ॥६॥नानाविधोल्लासवती वासना मोदशालिनी ।घनप्रवालतरला तनुरस्या विजृम्भते ॥७॥दिवसव्यूहकुसुमा यामिनीलोलषट्पदा॥अजस्रं स्पन्दमानैषा प्रपतद्भूतपल्लवा ॥८॥आगत्यागत्य पतति विवेककरिणीं क्वचित् ।विधूयते धूतरजाः प्रसक्तिं पुनरेति च ॥९॥जायमानप्रवालाढ्या संजाताङ्कुरदन्तुरा ।सर्वर्तुकुसुमोपेता समग्ररसशालिनी ॥१०॥जन्मपर्वाहिनीरन्ध्रा विनाशच्छिद्रचञ्चुरा ।भोगाभोगरसापूर्णा विचारैकघुणक्षता ॥११॥विकसन्त्यः प्रतिदिनं चन्द्रार्कावलयोऽभितः ।व्योम्नि वातविलोलानि पुष्पाण्यस्याः किल ग्रहाः ॥१२॥अस्याः प्रस्फुरिताकाराः कोरकत्वमुपागताः ।पूरिताकाशकोशायास्तारका रघुनन्दन ॥१३॥चन्द्रार्कदहनालोका यस्यास्तत्कौसुमं रजः ।अनेनेयं हि गौराङ्गी स्त्रीव चेतांसि कर्षति ॥१४॥मनोमातङ्गविधुता संकल्पकलकोकिला ।इन्द्रियव्यालसंबाधा तृष्णात्वगुपरञ्जिता ॥१५॥नीलाकाशतमालाङ्गसंश्रयेणोन्नतिं गता ।रोदसीजानुसुस्तम्भा भुवनोद्यानभूषिता ॥१६॥अधोब्रह्माण्डखण्डेषु स्वालवालेन जालिता ।विधृताशेषजलधिजलक्षीरादिसेचना ॥१७॥त्रयीविलोलभ्रमरा रमणीपुष्पपुञ्जिका ।चित्स्पन्दवातचलिता क्रियाविपुलपुत्तिका ॥१८॥कुकर्माजगरव्याप्ता स्वर्गश्रीपुष्पमण्डपा ।जीवजीवननीरन्ध्रा नानामोदमदप्रदा ॥१९॥नानोपशमवैचित्र्यनानाकुसुमभासिनी ।नानाफलावलीव्याप्ता नानावर्षविकासिनी ॥२०॥नानालवालवलया नानाविहगधारिणी ।नानापरागपरुषा नानाभूधरजालिका ॥२१॥नानाकलाकुड्मलिनी नानावनगणोत्थिता ।नानागिरितटारूढा नानादलनिरन्तरा ॥२२॥जाता च जायमाना च म्रियमाणा तथा मृता ।अर्धच्छिन्ना तथाऽच्छिन्ना नित्यमच्छेदिनी तथा ॥२३॥अतीता वर्तमाना च सत्येवासत्यवत्सदा ।नित्यमत्यन्ततरुणी नित्यं शोषमुपेयुषी ॥२४॥महाविषलतैषा हि संसारविषमूर्च्छनाम् ।ददाति रभसाश्लिष्टा परामृष्टा विनश्यति ॥२५॥स्फीतेऽन्तर्गलिता तस्य अज्ञेऽन्तः संस्थितान्विता ।इतो जलमितः शैला इतो नागाः सुरा इतः ॥२६॥इतः पृथ्वीत्वमायाता तथेतो द्युतया स्थिता ।इतश्चन्द्रार्कतां प्राप्ता तथेतस्तारकाकृतिः ॥२७॥इतस्तम इतस्तेज इतः खमित उर्वरा ।इतः शास्त्रमितो वेदा इतो द्वयविवर्जिता ॥२८॥क्वचित्खगतयोड्डीना क्वचिद्देवतयोत्थिता ।क्वचित्स्थाणुतया रूढा क्वचित्पवनतां गता ॥२९॥क्वचिन्नरकसंलीना क्वचित्स्वर्गविलासिनी ।क्वचित्सुरपदं प्राप्ता क्वचित्कृमितया स्थिता ॥३०॥क्वचिद्विष्णुः क्वचिद्ब्रह्मा क्वचिद्रुद्रः क्वचिद्रविः ।क्वचिदग्निः क्वचिद्वायुः क्वचिच्चन्द्रः क्वचिद्यमः ॥३१॥यत्किंचनाङ्ग भुवनेषु महामहिम्ना-व्याप्तं जरत्तृणलवत्वमुपागतं वा ।दृश्यं स्फुरन्ननु हराद्यपि तामविद्यांविद्धि क्षयाय तदतीततयात्मलाभः ॥३२॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषु निर्वाणप्रकरणे पू० अविद्यालताविलासोपदेशो नामाष्टमः सर्गः ॥८॥ N/A References : N/A Last Updated : September 22, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP