संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य पूर्वार्धम्|
सर्गः ५२

निर्वाणप्रकरणं - सर्गः ५२

योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ


श्रीवसिष्ठ उवाच ।
यो जीवस्यादितः स्वप्नो नानाकलनकोमलः ।
तमिमं विद्धि संसारं न सत्यं नाप्यसन्मयम् ॥१॥
न पुंस इव जीवस्य स्वप्नः संभवति क्वचित् ।
तेनैते जाग्रतो भावा जाग्रत्स्वप्नकृतोऽत्र हि ॥२॥
जीवस्वप्नमिमं दीर्घं क्षिप्रताप्रतिभासतः ।
असत्यमप्यवस्तुत्वाद्विद्धि वेद्यविदां वर ॥३॥
स्वप्नात्स्वप्नान्तरमिव गच्छन्तो जीवजीवकाः ।
असत्यमेव पश्यन्ति घनसत्यतयानघ ॥४॥
अजडे जडता तात जडे चाजडतोदिता ।
असत्ये सत्यता जीवजीवानुभवमोहतः ॥५॥
भानोरप्यन्तरखिलं पश्यन्तस्त्रिजगद्भ्रमम् ।
भ्रमन्ति स्वप्नसंभ्रान्ता इव जीवा भिदालिभिः ॥६॥
सर्वगत्वादनन्तत्वात्स्वस्य जीवस्य जीवतः ।
यद्भावयन्ति चेतन्ति तदेवाश्विति सत्यवत् ॥७॥
पुण्डरीकाक्षनिर्दिष्टामसंसक्तिगतिं शुभाम् ।
यामालिङ्ग्य महाबाहो जीवन्मुक्तो महामुनिः ॥८॥
पाण्डोः पुत्रोऽर्जुनो नाम सुखं जीवितमात्मनः ।
क्षिपयिष्यति निर्दुःखं तथा क्षेपय जीवितम् ॥९॥
श्रीराम उवाच ।
भविष्यति कदा ब्रह्मन्सोऽर्जुनः पाण्डुनन्दनः ।
कीदृशीं च हरिस्तस्य कथयिष्यत्यसक्तताम् ॥१०॥
श्रीवसिष्ठ उवाच ।
अस्ति सन्मात्रमात्मेति परिकल्पितनामकम् ।
स्थितमात्मन्यनाद्यन्ते नभसीव महानभः ॥११॥
दृश्यते विमले तस्मिन्नयं संसारविभ्रमः ।
कटकादि यथा हेम्नि तरङ्गादि यथाम्भसि ॥१२॥
चतुर्दशविधा भूतजातयः प्रस्फुरन्त्यलम् ।
तस्मिन्संसारजालेऽस्मिञ्जाले शकुनयो यथा ॥१३॥
तत्रैते यमचन्द्रार्कशक्राद्याः शंसितक्रमाः ।
भूतपञ्चकसंसारलोकपालत्वमागताः ॥१४॥
इदं पुण्यमुपादेयं हेयं पापमिदं त्विति ।
तैः स्वसंकल्पघटिताद्वेदनात्स्थापिता स्थितिः ॥१५॥
तस्याद्य यावदनघ प्रवाहपतिते निजे ।
कर्मण्यचलसंकाशस्थिरं चित्तमवस्थितम् ॥१६॥
भगवान्स यमः किंचिद्गते प्रतिचतुर्युगे ।
तपः प्रकुरुते भूतदलनात्पापशङ्कया ॥१७॥
कदाचिदष्टौ वर्षाणि दश द्वादश वापि च ।
कदाचित्पञ्चसप्तादि कदाचित्षोडशापि च ॥१८॥
उदासीनवदासीने तस्मिन्नियमसंस्थितौ ।
न हिनस्ति जगज्जाले मृत्युर्भूतानि कानिचित् ॥१९॥
तेन नीरन्ध्रभूतौघनिःसंचारं महीतलम् ।
भवति प्रावृषि स्वेदी कुञ्जरो मशकैरिव ॥२०॥
अथैतानि विचित्राणि भूतानि बहुयुक्तिभिः ।
क्षिपयन्ति सुरा राम भुवो भारनिवृत्तये ॥२१॥
एवं युगसहस्राणि व्यवहारशतानि च ।
समतीतान्यनन्तानि भूतानि च जगन्ति च ॥२२॥
वैवस्वतोऽद्य तु यमो य एष पितृनायकः ।
अनेन त्वधुना साधो परिक्षीणेषु केषुचित् ॥२३॥
युगेष्वघविघाताय वर्षाणि द्वादशात्मना ।
व्रतचर्येह कर्तव्या दूरास्तजनकर्षणा ॥२४॥
तेनेयमुर्वी नीरन्ध्रा भूतैर्मर्त्यैरमृत्युभिः ।
दीना प्रपन्ना गुल्मेव भारभूतैर्भविष्यति ॥२५॥
भूभारपरिभूताङ्गी हरिं शरणमेष्यति ।
कान्ता दस्युपराभूता दीना पतिमिव प्रिया ॥२६॥
हरिर्देहद्वयेनाथ महीमवतरिष्यति ।
देवांशैरखिलैः सार्धं नरनारायणं गतैः ॥२७॥
वसुदेवसुतस्त्वेको वासुदेव इति श्रुतः ।
देहो भविष्यति हरेर्द्वितीयः पाण्डवोऽर्जुनः ॥२८॥
युधिष्ठिर इति ख्यातो धर्मपुत्रो भविष्यति ।
अम्भोधिमेखलाभूपःपाण्डोः पुत्रः स धर्मवित् ॥२९॥
दुर्योधन इति ख्यातस्तस्य भ्राता पितृव्यजः ।
भविष्यति दृढद्वन्द्वो भीमो बभ्रुरहेरिव ॥३०॥
अन्योन्यं हरतोरुर्वौ तयोः संग्रामलोलयोः ।
अष्टादशात्राक्षौहिण्यो घटिष्यन्त्यत्र भीषणाः ॥३१॥
तत्क्षयेण विभारत्वं भुवो विष्णुः करिष्यति ।
राघवाऽर्जुनदेहेन वृहद्गाण्डीवधन्वना ॥३२॥
विष्णोरर्जुननामादौ प्राकृतं भावमास्थितः ।
हर्षामर्षान्वितो देहो नरधर्मा भविष्यति ॥३३॥
सेनाद्वयगतान्दृष्ट्वा स्वजनान्मरणोन्मुखान् ।
विषादमेष्यत्युद्योगं युद्धाय न करिष्यति ॥३४॥
तमर्जुनाभिधं देहं प्राप्तकार्यैकसिद्धये ।
हरिर्बुद्धेन देहेन बोधयिष्यति राघव ॥३५॥
न जायते म्रियते वा कदाचि-
न्नायं भूत्वा भविता वा न भूयः ।
अजो नित्यः शाश्वतोऽयं पुराणो
न हन्यते हन्यमाने शरीरे ॥३६॥
य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम् ।
उभौ तौ न विजानीतो नायं हन्ति न हन्यते ॥३७॥
अनन्तस्यैकरूपस्य सतः सूक्ष्मस्य खादपि ।
आत्मनः परमेशस्य किं कथं केन नश्यति ॥३८॥
अनन्तमव्यक्तमनादिमध्य-
मात्मानमालोकय संविदात्मन् ।
संविद्वपुः स्फारमलब्धदोष-
मजोऽसि नित्योऽसि निरामयोऽसि ॥३९॥

इत्यार्षे श्रीवासिष्ठमहारामा० वा ० दे० मोक्षो० निर्वाणप्रकरणे पू० अर्जुनोपाख्याने नरनारायणावतारकथनं नाम द्विपञ्चाशः सर्गः ॥५२॥

N/A

References : N/A
Last Updated : September 24, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP