निर्वाणप्रकरणं - सर्गः ११०
योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ
श्रीवसिष्ठ उवाच ।
ततः समुदिते सूर्ये वितमस्यम्बरे स्थिते ।
समुद्गकादिव जगन्मणौ तस्मिन्विनिर्गते ॥१॥
विकसत्यरुणोपान्ते चक्षुषीवाम्बुजाकरे ।
आचारेष्विव लोकेषु प्रसृतेष्वर्करश्मिषु ॥२॥
दंपती तौ समुत्थाय कृतसंध्याक्रमौ स्थितौ ।
पत्रासने मृदुस्निग्धे कान्तौ काञ्चनकन्दरे ॥३॥
अथोत्थायात्र चूडाला रत्नकुम्भं पुरःस्थितम् ।
कान्ता संकल्पयामास पूर्णं सप्ताब्धिवारिभिः ॥४॥
तेन मङ्गलकुम्भेन तं पूर्वाभिमुखं स्थितम् ।
भार्या भर्तारमेकान्ते स्वराज्येऽभिषिषेच सा ॥५॥
संकल्पोपगते हैमे स्वभिषिक्तं स्वविष्टरे ।
स्थितं प्रोवाच तन्वी सा चूडाला देवरूपिणी ॥६॥
केवल मौनमुत्सृज्य तेजः शान्तमिदं प्रभो ।
अष्टानां लोकपालानां तेजस्त्वं भर्तुमर्हसि ॥७॥
चूडालयेति संप्रोक्तो वने राजा शिखिध्वजः ।
वदन्नेवं करोमीति महाराजत्वमाययौ ॥८॥
अथ प्रतीहारपदे तिष्ठन्तीमाह मानिनीम् ।
अद्य देवीपदे राज्ञीं त्वां करोम्यभिषेकिनीम् ॥९॥
इत्युक्त्वा सरसि स्नाप्य महादेवीपदे तथा ।
अभिषिक्तां नृपः कृत्वा स तामाह निजां प्रियाम् ॥१०॥
प्रिये कमलपत्राक्षि क्षणात्संकल्पसंभवम् ।
महाविभवमुद्दामं सैन्यमाहर्तुमर्हसि ॥११॥
इति कान्तवचः श्रुत्वा चूडाला वरवर्णिनी ।
सैन्यं संकल्पयामास प्रावृड्घनमिवोद्भटम् ॥१२॥
सैन्यं ददृशतुस्तत्तौ वाजिवारणसंकुलम् ।
पताकापूरिताकाशं नीरन्ध्रीकृतकाननम् ॥१३॥
तूर्यारवध्वनच्छैलगुहागहनकोटरम् ।
मौलिरत्नमहोद्द्योतविचूर्णिततमःपटम् ॥१४॥
तत्र गन्धद्विपवरे कृतपार्थिवमण्डले ।
रक्षिते हृष्टसामन्तैरारूढौ नृपदंपती ॥१५॥
ततः शिखिध्वजो राजा महिष्या सममिष्टया ।
पदातिरथसंबाधं कर्षन्नतिवृलो बलम् ॥१६॥
चचालाचलचालिन्या सेनया स ततो वनात् ।
भिन्दन्निव रसाशैलं वात्ययेवाशु भौमया ॥१७॥
तस्मान्महेन्द्रशैलेन्द्राच्चलितः स महीपतिः ।
पथि पश्यन्गिरीन्देशान्नदीर्ग्रामान्सजङ्गलान् ॥१८॥
दर्शयन्स्वप्रियायास्तमात्मवृत्तान्तसंचयम् ।
प्रागल्पेनैव कालेन स्वां पुरीं स्वर्गशोभनाम् ॥१९॥
तत्र ते तस्य सामन्तास्तदागमनमादृताः ।
विविदुर्जयशब्देन निर्जग्मुश्चोदिताशयाः ॥२०॥
एकतां संप्रयातेन तारतूर्यनिनादिना ।
बलद्वयेन तेनासौ विवेश नगरं नृपः ॥२१॥
लाजपुष्पाञ्जलिव्रातैरावृष्टः पौरयोषिताम् ।
वणिङ्मार्गमसौ पश्यन्परंपरमनुत्तमम् ॥२२॥
पताकाध्वजसंबाधं मुक्ताजालमनोरमम् ।
नृत्यगेयपरस्त्रीकं स्वभूमावचलं स्थितम् ॥२३॥
प्रविश्याथ गृहं तैस्तैः संयुतं नृपमङ्गलैः ।
सम्यक्संमानयामास प्रणतं प्रकृतिव्रजम् ॥२४॥
पुरोत्सवं भृशं कृत्वा दिनसप्तकमुत्तमम् ।
अकरोद्राजकार्याणि स्वानि स्वान्तःपुरे नृपः ॥२५॥
दशवर्षसहस्राणि राज्यं कृत्वा महीतले ।
सहचूडालया राम विरतो देहधारणात् ॥२६॥
देहमुत्सृज्य निर्वाणमस्नेह इव दीपकः ।
अपुनर्जन्मने राम जगामेति महामतिः ॥२७॥
दशवर्षसहस्राणि समदृष्टितया तया ।
राज्यं तयाऽऽरमय्यापि निर्वाणं पदमाप्तवान् ॥२८॥
विगतभयविषादो मानमात्सर्यमुक्तः
प्रकृतसहजकर्मा भुक्तनीरागबुद्धिः ।
इति समसमदृष्टिर्मृत्युमार्योऽथ जित्वा
दशशिशिरसहस्राण्येकराज्यं चकार ॥२९॥
भुक्त्वा भोगाननेकान्भुवि सकलमहीपालचूडा-
मणित्वे
स्थित्वा वै दीर्घकालं परममृतपदं प्राप्तवान्सत्त्वशेषः ।
एवं रामागतं त्वं प्रकृतमनुसरन्कार्यजातं विशोक-
स्तिष्ठोत्तिष्ठ स्वयं वा प्रसभमनुभवन्भोगमोक्षादि-
लक्ष्मीः ॥३०॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे०मो० निर्वाणप्रकरणे पू० चू० शिखिध्वजनिर्वाणं नाम दशोत्तरशततमः सर्गः ॥११०॥
चूडालोपाख्यानं समाप्तम् ।
N/A
References : N/A
Last Updated : September 25, 2021
TOP